॥ ब्रह्मोवाच ॥ ॥
नैवेद्यानन्तरं तात किं कर्तव्यं नृभिः प्रभो ॥
यत्कर्तव्यं सहोमासे तत्सर्वं ब्रूहि तत्त्वतः ॥ १ ॥
श्रीभगवानुवाच ॥ ॥
अथ भुक्तवते दत्त्वा जलैः कर्पूरवासितैः ॥
आचमनं च ताम्बूलं चन्दनं करमार्जनम् ॥ २ ॥
पुष्पाञ्जलिं ततः कुर्याद्भक्त्याऽऽदर्शं प्रदर्शयेत् ॥
नीराजनं ततः कार्यं कार्पूरं विभवे सति ॥ ३ ॥
समर्प्य मुकुटादीनि भूषणानि विचक्षणः ॥
ततः पश्चान्महाभाग प्रकल्प्य च्छत्रचामरे ॥४॥
प्रसादसुमुखं ध्यात्वा श्यामसुन्दरविग्रहम् ॥
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ॥५॥
शङ्खरौप्यमयी माला काञ्चनी च विशेषतः ॥
पद्माक्षैश्चैव सुभगैर्विद्रुमैर्मणिमौक्तिकैः ॥ ६ ॥
रचितेन्द्राक्षकैर्माला तथैवाङ्गुलिपर्वभिः ॥
पुत्रजीवमयी माला शस्ता वै जपकर्मणि ॥ ७ ॥
न च क्रमन्न च हसन्न पार्श्वमवलोकयन् ॥
न पदा पदमाक्राम्य करप्राप्तशिरास्तथा ॥८॥
नोत्तिष्ठन्मन्मनुं विद्वान्न जपेद्व्यग्रमानसः ॥
जपकाले न भाषेत व्रतहोमार्चनादिषु ॥९॥
गृहेष्वेकगुणञ्जाप्यं गोष्ठे दशगुणं भवेत् ॥
नदीतीरे शतं विद्यादग्न्यगारे दशाऽधिकम् ॥ 2.5.10.१० ॥
तीर्थादिषु सहस्रं स्यादनन्तं मम सन्निधौ ॥
एवं कृत्वा सहोमासे यः कुर्याच्च प्रदक्षिणाम् ॥ ११ ॥
सप्तद्वीपवतीपुण्यं लभते स पदेपदे ॥
पठन्नामसहस्रं तु अथवा नाम केवलम् ॥ १२ ॥
एका प्रदक्षिणा भक्त्या दहेत्पापं सदाऽऽह्निकम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ १३ ॥
दिनसप्तोद्भवं पापं मम तिस्रः प्रदक्षिणाः ॥
तत्क्षणान्नाशयन्त्येव पापं देहे दशाऽऽह्निकम् ॥ १४ ॥
कृताः प्रदक्षिणा येन एकविंशति भक्तितः ॥
भ्रूणहत्यादिपापानि नाशमायान्ति तत्क्षणात् ॥ १५ ॥
अष्टोत्तरशतं येन कृता भक्त्या प्रदक्षिणाः ॥
तेनेष्टं क्रतुभिः सर्वैः समाप्तवरदक्षिणैः ॥ १६ ॥
प्रदक्षिणीकृता तेन तावद्वारं वसुन्धरा ॥
मातुः प्रदक्षिणास्तद्वद्भूतधात्रीप्रदक्षिणाः ॥ १७ ॥
शालिग्रामशिलायाश्च सममेतत्त्रयं स्मृतम् ॥
एको दण्डप्रपातश्च सहे सप्तप्रदक्षिणाः ॥ १८ ॥
सममेतद्द्वयं नो वा दण्डपातो विशिष्यते ॥
प्रदक्षिणे दण्डपातं यः करोति सदा मम ॥ १९ ॥
सहोमासे विशेषेण आकल्पं स वसेद्दिवि ॥
कल्पादनन्तरं तात चक्रवर्ती प्रजायते ॥ 2.5.10.२० ॥
चिरायुर्धनवान्भोगी दानवान्धर्मवत्सलः ॥
सहस्रनामपठनात्पापं नश्येत्त्रिधा कृतम् ॥ २१ ॥
अथ किं बहुनोक्तेन शृणु गुह्यं च मे सुत ॥
दामोदरेति नाम्ना वै भवेत्प्रीतिर्ममाऽतुला ॥ २२ ॥
गुणसम्बन्धि मन्नाम कृतं मात्रा यशोदया ॥
यदा मे दधिभाण्डस्य स्फोटनं गोकुले कृतम्॥ २३ ॥
तदा यशोदया गाढं बद्धो दाम्ना ह्युलूखले ॥
ततः प्रभृति मे नाम ख्यातं दामोदरेति च॥२४॥
नमो दामोदरायेति जपेद्यः सुसमाहितः ॥
सूर्योदये शुचिर्भूत्वा त्रिसहस्रं दिनेदिने ॥ २५ ॥
सार्द्धलक्षत्रयं यावत्तत उद्यापयेद्बुधः ॥
तर्पणं हवनं चैव ब्रह्मभोज्यं दशांशतः ॥ २६ ॥
एवं यः कुरुते भक्त्या तस्य यच्छामि वाञ्छितम् ॥
धनं धान्यं तथा दारान्पुत्रांश्चान्यच्च वाञ्छितम् ॥ २७ ॥
त्रिसत्येन मया चोक्तं श्रद्धत्स्व त्वं महामते ॥
मन्त्रराजमिमं पुत्र कृपया मे प्रकाशितम् ॥ २८ ॥
दामोदरायेति पठन्नित्यं कुर्यात्प्रदक्षिणम्॥
दण्डपातं तथा पुत्र अष्टाङ्गेन समन्वितम् ॥ २९ ॥
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा तथा ॥
मनसा वचसा दृष्टवा प्रणामोष्टाङ्ग उच्यते ॥ 2.5.10.३० ॥
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्॥
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहाऽर्णवात् ॥ ३१ ॥
पश्चाच्छेषां मया दत्तां शिरस्याधाय सादरम् ॥
एवं ब्रूयात्ततो वत्स मम पूजाप्रपूर्त्तये ॥ ३२ ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ॥
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ ३३ ॥
मृदङ्गवाद्येन समं प्रणवेन सुसंयुतम् ॥
एवं कार्यं सहोमासे नृत्यं पुण्यप्रदं नृणाम् ॥ ३४ ॥
गीतं वाद्यं च नृत्यं च तथा पुस्तकवाचनम् ॥
पूजाकाले चतुर्वक्त्र सर्वदा मम च प्रियम् ॥३५॥
गीतवाद्याद्यभावे च मम नामसहस्रकम् ॥
स्तवराजं तथा पुत्र गजेन्द्रस्य च मोक्षणम् ॥३६॥
अनुस्मृतिश्च गीता च स्तवनं पञ्चधा मतम् ॥
पञ्चस्तवं महाभाग मम प्रीतिकरं परम्॥३७॥
पादोदकं पिबेद्यो वै शालिग्रामसमुद्भवम् ॥
पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्॥३८॥
शालिग्रामशिलातोयं यः पिबेद्बिन्दुना समम् ॥
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्नरः॥ ३९ ॥
आशौचं नैव विद्येत सूतके मृतकेऽपि च ॥
येषां पादोदकं मूर्ध्नि प्राशनं ये प्रकुर्वते ॥ 2.5.10.४० ॥
अन्तकालेऽपि यस्येदं दीयते पादयोर्जलम् ॥
सोऽपि सद्गतिमाप्नोति सदाचारबहिष्कृतः ॥ ४१ ॥
अपेयं पिबते यस्तु भुङ्क्ते यद्यप्यभोजनम् ॥
अगम्यागमनो यो वै पापाचारश्च यो नरः ॥ ४२ ॥
सोऽपि पूतो भवत्याशु सद्यः पादाम्बुधारणात् ॥
चान्द्रायणात्पादकृच्छ्रादधिकं पादयोर्जलम् ॥४३॥
अगुरुं कुङ्कुमं वाऽपि कर्पूरं चाऽनुलेपनम् ॥
मम पादाम्बुसंस्पृष्टं तद्वै पावनपावनम् ॥४४॥
दृष्टिपूतं तु यत्तोयं भवेद्वै विप्रसत्तम ॥
तद्वै पापहरं नृणां किं पुनः पादयोर्जलम् ॥ ४५ ॥
प्रियस्त्वं मेऽग्रजः पुत्रो विशेषेण च मत्प्रियः ॥
तदर्थं कथितं सर्वं रहस्यं यच्च मे स्थितम् ॥४६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये पूजाविधिसमापनं तदुद्यापनं तत्फलकथनयोगोनाम दशमोऽध्यायः ॥ १० ॥