००९ नैवेद्यविधिकथनम्

॥ ब्रह्मोवाच ॥ ॥
नैवेद्यस्य विधिं ब्रूहि देव मे तत्त्वतः प्रभो ॥
अन्नं कतिविधं चेष्टं व्यञ्जनादीन्यशेषतः ॥ १ ॥
॥श्रीभगवानुवाच ॥ ॥
साधु पृष्टं त्वया वत्स मम प्रीतिकरं परम् ॥
वक्ष्यामि तेऽन्नपानादिव्यञ्जनादीन्यशेषतः ॥ २ ॥
आदौ हिरण्मयं पात्रं तदभावे च राजतम् ॥
तदभावे च पालाशं विस्तीर्णं बहुसुन्दरम् ॥ ३ ॥
कचोलाः शतशः कार्याः पात्रे वै परितोऽनघ ॥
तन्मध्ये व्यञ्जना देया नानाफलमयाः शुभाः ॥ ४ ॥
पायसं चन्द्रसङ्काशं पात्रे वै शर्करायुतम् ॥
भक्तं कुमुदसङ्काशं मुद्गान्काचप्रभाञ्छुभान् ॥ ५ ॥
नानाव्यञ्जनसंरुद्धं त्रिभिः पङ्क्तिभिरेव च ॥
निम्बूरसेन चन्द्रेण फलमूलयुतेन च ॥ ६ ॥
वैकृताश्च तदा कार्याः शतशो भोजने मम ॥
द्राक्षास्तु मिश्रिताश्चूतकरमर्द कृताः शुभाः ॥ ७ ॥
मरीचपिप्पलीसार्द्रकैलाचन्द्रकसंयुताः ॥
क्वाथिताः कथिकाः कार्याः शतशो भोजने मम ॥ ८ ॥
प्रलेहनास्तथा कार्याः कचोलशतसङ्कुलाः ॥
नानाकुसुमसम्मोदयुक्ताः सहसि मे प्रियाः ॥ ९ ॥
मण्डका वर्तुला रम्याः समाः सर्वत्र बिन्दुवत् ॥
सितया सहितेनाऽथ दुग्धेन क्वथितेन च ॥ 2.5.9.१० ॥
मधुवर्णेन गव्येन युक्ते तस्मिन्सुभोजने ॥
कचोले सुप्रभे वत्स स्थितं काञ्चनसुप्रभम् ॥ ११ ॥
घृतं सुवासितं प्रीत्या देयं हि मम भोजने ॥
तत्र गोधूमपात्रेण चन्द्रकेण हि चोज्ज्वलम् ॥ १२ ॥
सौवाह्लिकाः पूरिकास्तु शतच्छिद्राः सवेष्टिकाः ॥
अपूपाश्च तथा क्षीरं प्रकारांस्तु प्रकारयेत् ॥ १३ ॥
मणयः सूत्रसञ्ज्ञाश्च मालतीकुसुमादयः ॥
पर्पटा वर्पटा रम्या माषकूष्माण्डसम्भवाः ॥ १४ ॥
वटकान्नवधा रम्यान्कुर्यान्मासे सहे मम ॥
द्विधा जातीमरीचैश्च पूरिता द्रोणके शुभाः ॥ १५ ॥
युक्तेन लवणेनाऽतिशुद्धतैलेन पूरिताः ॥
कुङ्कुमाभाः स्नेहहीनाः सक्षता इव दुर्जनाः ॥ १६ ॥
दधिदुग्धयुताः केचिच्चिञ्चिणीचूतसम्भवाः ॥
द्राक्षारसयुताः केचित्तथैवेक्षुरसैर्युताः ॥ १७ ॥
राजिका जलमध्यस्थास्तथाऽन्ये सितया सह ॥
रसैश्चतुर्विधैश्चान्यैर्वटका नवधा मताः ॥ १८ ॥
वज्रप्रभाऽनुकणिकाचारबीजसुखारिकैः ॥
शकलैर्नारिकेलस्य लवङ्गशतसंयुताः ॥ १९ ॥
घृतक्षीरसिताद्यास्ताः कटाहे सुप्रलोडिताः ॥
लब्धासितादिकृसररम्याः स्निग्धाश्च फेणिकाः ॥ 2.5.9.२० ॥
पराकिकासु वै पक्वाः कृताश्चन्द्रेण पोलिकाः ॥
मोदकास्तत्र वै कार्याश्चारबीजभवाः परे ॥ २१ ॥
सितया सहिताः कार्या अन्ये दुग्धेन निर्मिताः ॥
नारिकेलफलैश्चाऽन्ये वृक्षनिर्यासनिर्मिताः ॥ २२ ॥
बदामैश्च शुभाश्चाऽन्ये तिलैश्च कणबीजकैः ॥
ईदृशान्मोदकांश्चान्यांस्तुष्ट्यर्थं मम कारयेत् ॥ २३ ॥
अर्शोघ्नं मोचनीकन्दं तथाऽऽर्द्रं करमर्दकम् ॥
नारिङ्गं चिञ्चिणीकं च कङ्कोलफलमेव च ॥ २४ ॥
दशारं त्रिपुरीजातं शुभं निम्बफलं बिसम् ॥
तिन्दूफलं लवङ्गं च श्रीफलं तिलकं लुति ॥ २५ ॥
वल्कलं वंशकारीरं तथा कायफलं बलम् ॥
द्राक्षाफलं चूतफलं रम्यं कण्टकिनीफलम् ॥ २६ ॥
धात्रीफलं शुक्तिभवं फलमम्बाडवं तथा ॥
रम्भाफलं पिप्पली च मरीचाश्च मनोहराः ॥ २७ ॥
शुद्धसर्षपतैलेन लवणेन सुवेधितम् ॥
तथा राजिकया विद्धं त्रिभिर्वर्षैर्घटे स्थितम् ॥ २८ ॥
एवंविधानि जातानि व्यञ्जनानि च मानद ॥
कर्तव्यानि सहोमासे मम प्रीतिकराणि वै ॥ २९ ॥
एतादृशे भोजने चेदसामर्थ्यं भवेद्यदि ॥
एवं कार्यं तदा तेन सङ्क्षेपेण शृणुष्व मे ॥ 2.5.9.३० ॥
लड्डूकमेकं घृतपूरमेकं फेनद्वयं कोकरसत्रयं च ॥
घृतप्लुतं मण्डकषोडशानां वटाष्टदायी नरकं न पश्येत् ॥ ३१ ॥
आढकं सुचिरपर्युषितं च दुग्धं खण्डस्य षोडशपलानि शशिप्रभस्य ॥
सर्पिष्पलं मधुपलं मरिचं द्विकर्षं शुण्ठ्याः पलार्धमथवाऽर्धपलं चतुर्णाम् ॥ ३२ ॥
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टां कर्पूरधूलिधवलीकृतभाण्डसंस्थाम् ॥
एतां शुभां रसवतीं प्रकरोति यो वै कामान्ददामि सकलान्मनुजस्य तस्य ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये नैवेद्यविधिकथनन्नाम नवमोऽध्यायः ॥ ९ ॥