००८ दीपमाहात्म्यवर्णनम्

॥ ब्रह्मोवाच॥ ॥
श्रीमत्तुलसिमाहात्म्यं यथावद्वर्णय प्रभो ॥
यस्याः सन्निधिमात्रेण प्रीतिर्भवति तेऽधिका ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च ॥
तुलसीपत्रदानस्य कलां नार्हन्ति षोडशीम् ॥ २ ॥
तुलसीमञ्जरीभिर्यः कुर्याद्वै मम पूजनम् ॥
न स गर्भगृहं यायान्मुक्तिभागी भवेन्नरः ॥ ३ ॥
आरोप्य तुलसीं वत्स पूजयेत्तद्दलैश्च माम् ॥
दिवि सम्मोदमानः स श्वेतद्वीपे च मे गृहे ॥ ४ ॥
श्रीमत्तुलस्यार्चयते सकृद्धि मां पत्रैः सुगन्धैर्विमलैरखण्डितैः ॥
यस्तस्य पापं पटसंस्थितं तदा निरीक्षयित्वा परिमार्जयेद्यमः ॥ ५ ॥
तुलसी न येषां मम पूजनार्थं सम्पादितैकादशिपुण्यवासरे ॥
धिग्यौवनं जीवितमर्थसन्ततिस्तेषां सुखं नेह च दृश्यते परे ॥ ६ ॥
लिङ्गमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम् ॥
तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ॥ ७ ॥
नित्यमभ्यर्चयेद्यो वै तुलस्या मां रमेश्वरम् ॥
महापापानि नश्यन्ति किं पुनश्चोपपातकम् ॥८॥
वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम् ॥
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम् ॥ ९ ॥
तावद्गर्जन्ति पुष्पाणि मालत्यादीनि भोः सुत ॥
यावन्न प्राप्यते पुण्या तुलसी मम वल्लभा ॥ 2.5.8.१० ॥
सकृदभ्यर्चयेद्यो मां बिल्वपत्रेण मानवः ॥
मुक्तिभागी निरातङ्को मम पार्श्वगतो भवेत् ॥ ११ ॥
बिल्वपत्राच्छमीपत्राज्जातीपत्रात्सरोरुहात् ॥
वल्लभं तुलसीपत्रं कौस्तुभादधिकं मम॥१२॥
अभिन्नपत्रा तुलसी हृद्या मञ्जरिसंयुता ॥
क्षीरोदार्णवसम्भूता पद्मेवेयं सदा मम ॥१३॥
अकृष्णाऽप्यथवा कृष्णा तुलसी मम वल्लभा ॥
सिता वाऽप्यसिता वापि द्वादशी वल्लभा यथा ॥। १४ ॥
गृहीत्वा तुलसीपत्रं भक्त्या यो मां समर्चयेत् ॥
अर्चितं तेन सकलं सदेवासुरमानुषम् ॥ ॥ १५ ॥
तावद्गर्जन्ति रत्नानि कौस्तुभादीन्यनन्तशः ॥
यावन्न प्राप्यते कृष्ण तुलसीकृष्णमञ्जरी ॥ १६ ॥
कृष्णं कृष्णतुलस्या हि यो भक्त्या पूजयेन्नरः ॥
स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह ॥ १७ ॥
ममाऽर्चनार्थं भिक्षूणां यच्छन्ति तुलसीदलम् ॥
अन्येषामपि भक्तानां यान्ति ते पदमव्ययम्॥ १८ ॥
तुलसी कृष्णगौरा या तया यो मां समर्चयेत् ॥
नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम् ॥ १९ ॥
॥ ब्रह्मोवाच ॥ ॥
धूपदानस्य माहात्म्यं दीपस्याऽपि च केशव ॥
यत्फलं लभते मर्त्यस्तन्मे ब्रूहि यथार्थतः ॥ 2.5.8.२० ॥
॥ श्रीभगवानुवाच ॥ ॥
शृणु पुत्र प्रवक्ष्यामि धूपदानस्य यत्फलम् ॥
दीपदानस्य माहात्म्यं मम प्रीतिकरं परम् ॥२१॥
अगुरुं च सकर्पूरं दिव्यचन्दनसौरभम् ॥
दत्त्वा मां वै सहोमासे कुलानां तारयेच्छतम् ॥ २२ ॥
कृष्णागुरुसमुत्थेन धूपेन च ममाऽलयम् ॥
धूपयेद्वैष्णवो यस्तु स मुक्तो नरकाऽर्णवात् ॥ २३ ॥
माहिषं गुग्गुलं यस्तु आज्ययुक्तं सशर्करम् ॥
धूपं ददाति यो वै मां तस्येच्छां प्रददाम्यहम् ॥ २४ ॥
गुग्गुलो हन्त्यशेषाणि अरिष्टानि च धूपितः ॥
कामान्नानाविधांश्चैव अगुरुः सम्प्रयच्छति ॥ २५ ॥
देहं गेहं पुनात्येव धूपस्त्वगुरुसम्भवः ॥
नाशयेद्यक्षरक्षांसि धूपः सर्जरसोद्भवः ॥ २६ ॥
जातिपुष्पमथैला च गुग्गुलश्च हरीतकी ॥
कूटः सर्जरसश्चैव गुडःसैलाच्छडस्तथा ॥
नखयुक्तानि चैतानि दशाङ्गो धूप उच्यते ॥ २७ ॥
धूपं दशाङ्गं यदि चेत्करोति मासे सहे मे अतिवल्लभे च ॥
ददामि कामानतिदुर्लभानपि बलं च पुष्टिं सुतदारभक्तिम् ॥ २८ ॥
मुस्ताधूपे मानुषाणां प्रियत्वं माङ्गल्यकं वश्यकरं गुडस्य ॥
कुर्यात्सहोमासि ममाग्रतो यो विहाय पापानि स मां समाप्नुयात् ॥ २९ ॥
न भयं विद्यते तस्य दिव्यभौमान्तरिक्षजम् ॥
मम धूपावशेषेण यस्यांऽगं परिमार्जितम् ॥ 2.5.8.३० ॥
न चापद्विद्यते तस्य भवन्ति सम्पदोऽखिलाः ॥
धूपे कृते सहोमासे ममाग्रे श्रद्धयाऽनिशम् ॥३१ ॥
धूपः सुरूपतां धत्ते धूपः पावनमुत्तमम् ॥
वनस्पतिरसो दिव्यः परमः पावनः शुचिः ॥ ३२ ॥
अतः परं प्रवक्ष्यामि दीपमाहात्म्यमुत्तमम् ॥
यस्मिन्कृते नरो याति वैकुण्ठं नात्र संशयः ॥ ३३ ॥
बहुवर्तिसमायुक्तं घृतपूरसमन्वितम् ॥
कुर्यादारार्तिकं यो वै कल्पकोटिं दिवं वसेत् ॥ ३४ ॥
नीराजनं तु यः पश्येत्सहोमासे ममाऽग्रतः ॥
सप्तजन्म भवेद्विप्रो ह्यन्ते च परमं पदम् ॥ ३५ ॥
कर्पूरेण तु यः कुर्याद्भक्त्या चैव ममाग्रतः ॥
आरार्तिकं द्विजश्रेष्ठ प्रविशेन्मामनन्तकम् ॥ ३६ ॥
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं मम ॥
सर्वं सम्पूर्णतामेति कृते नीराजने सुत॥ ३७ ॥
यः करोति सहोमासे कर्पूरेण च दीपकम् ॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३८ ॥
ममाऽग्रे वै द्विजानां च दीपं दद्याच्चतुष्पथे ॥
मेधावी ज्ञानसम्पन्नश्चक्षुष्माञ्जायते नरः ॥ ३९ ॥
घृतेन वाऽथ तैलेन दीपं प्रज्वालयेन्नरः ॥
सहोमासे ममाऽग्रे च तस्य पुण्यफलं शृणु ॥ 2.5.8.४० ॥
विहाय सकलं पापं सहस्रादित्यसन्निभः ॥
ज्योतिष्मता विमानेन मम लोके महीयते ॥ ४१ ॥
तस्मात्सर्वप्रयत्नेन दीपं दद्याद्विचक्षणः ॥
तं च दत्त्वा विहिंसेद्यः स पतेन्नरके धुवम् ॥ ४२ ॥
दीपं यो वै हरेत्पापी लोभाद्द्वेषाद्द्विजोत्तम ॥
तद्दीपहरणात्सोऽपि मूकोंऽधश्च प्रजायते ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये दीपमाहात्म्यवर्णनन्नाम अष्टमोऽध्यायः ॥ ८ ॥