॥ ब्रह्मोवाच ॥ ॥
माहात्म्यं वद देवेश पुष्पजातिसमुद्भवम् ॥
येनयेन च पुष्पेण यत्फलं लभते नरः ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
शृणु पुत्र प्रवक्ष्यामि माहात्म्यं पुष्पसम्भवम्॥
येन पुष्पेण मे प्रीतिर्भवेत्सम्यङ्न संशयः ॥ २ ॥
मल्लिका मालती चैव यूथिका चातिमुक्तका ॥
पाटला करवीरं च जयन्ती विजया तथा ॥ ३ ॥
कुब्जकस्तबकश्चैव कर्णिकारं कुरण्टकः ॥
चम्पकश्चातकः कुन्दो बाणः कर्चूरमल्लिका ॥ ४ ॥
अशोकस्तिलकश्चैव तथैवाऽपरयूथिकः ॥
अमी पुष्पप्रकारास्तु शस्ता मे पूजने सुत ॥ ५ ॥
केतकीपत्रपुष्पं च भृङ्गराजस्तथैव च ॥
तुलसीपत्रपुष्पं च सद्यः प्रीतिकरं मम॥ ६ ॥
पद्मान्यम्बुसमुत्थानि रक्तनीलोत्पले तथा ॥
सितोत्पलं सहोमासे ममाऽत्यन्तं हि वल्लभम् ॥ ७ ॥
तान्येव च प्रशस्तानि कुसुमानि च मे सुत ॥
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ॥ ८ ॥
निर्गन्धान्यपि शस्तानि कुसुमानि मतानि मे ॥
सुरभीणि तथाऽन्यानि वर्जयित्वा तु केतकीम् ॥ ९ ॥
बाणं च चम्पकाऽशोकं करवीरं च यूथिका ॥
पारिभद्रं पाटला च बकुलं गिरिशालिनी ॥ 2.5.7.१० ॥
बिल्वपत्रं शमीपत्रं पत्रं भृङ्गिरजस्य च ॥
तमालामलकीपत्रं शस्तं मे पूजने सुत ॥ ११ ॥
पुष्पैररण्यसम्भूतैः पत्रैर्वा गिरिसम्भवैः ॥
अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः॥ १२ ॥
अथारामोद्भवैर्वापि पुष्पैः सम्पूजयेच्च माम् ॥
पुष्पजातिविशेषेण भवेत्पुण्यं विशेषतः ॥१३॥
तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥
दश दत्त्वा सुवर्णानि यत्फलं लभते नरः ॥
तत्फलं लभते मर्त्यः सहे कुसुमदानतः ॥ १४ ॥
द्रोणपुष्पे तथैकस्मिन्मह्यं च विनिवेदिते ॥
दश दत्त्वा सुवर्णानि फलं तदधिकं सुत ॥ १५ ॥
पुष्पात्पुष्पान्तरे भेदो यथाऽऽसीत्तन्निबोध मे ॥ १६ ॥
द्रोणपुष्पसहस्रेभ्यः खादिरं तु विशिष्यते ॥
खादिरात्पुष्पसाहस्राच्छमीपुष्पं विशिष्यते ॥ १७ ॥
शमीपुष्पसहस्रेभ्यो बिल्वपुष्पं विशिष्यते ॥
बिल्वपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ॥१८॥
बकपुष्पसहस्रेभ्यो नन्द्यावर्तं विशिष्यते ॥
नन्द्यावर्तसहस्राद्धि करवीरं विशिष्यते ॥ १९ ॥
करवीरसहस्रस्य कुसुमं श्वेतमुत्तमम् ॥
करवीरश्वेतपुष्पात्पालाशं पुष्पमुत्तमम् ॥ 2.5.7.२० ॥
पालाशपुष्पसाहस्रात्कुशपुष्पं विशिष्यते ॥
कुशपुष्पसहस्राद्धि वनमाला विशिष्यते ॥ २१ ॥
वनमाला सहस्राद्धि चम्पकं च विशिष्यते ॥
चम्पकस्य पुष्पशतादशोकं पुष्पमुत्तमम् ॥ २२ ॥
अशोकपुष्पसाहस्राच्छेवन्तीपुष्पमुत्तमम् ॥
शेवन्तीपुष्पसाहस्रात्कुजकं पुष्पमुत्तमम् ॥ २३ ॥
कुजपुष्पसहस्राद्धि मालतीपुष्पमुत्तमम् ॥
मालतीपुष्पसाहस्रात्सन्ध्यापुष्पं विशिष्यते ॥ २४ ॥
सन्ध्या पुष्पसहस्राद्धि त्रिसन्ध्यापुष्पमुत्तमम् ॥ २५ ॥
त्रिसन्ध्यारक्तसाहस्रात्त्रिसन्ध्याश्वेतमुत्तमम् ॥
त्रिसन्ध्याश्वेतसाहस्रात्कुन्दपुष्पं विशिष्यते ॥ ॥ २६ ॥
कुन्दपुष्पसहस्राद्धि जातीपुष्पं विशिष्यते ॥
सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम् ॥ २७ ॥
जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् ॥
मह्यं यो विधिवद्दद्यात्तस्य पुण्यफलं शृणु ॥ २८ ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
मत्पुरे वसते नित्यं ममतुल्य पराक्रमः ॥ २९ ॥
येषां सन्ति च पुष्पाणि प्रशस्तानि ममाऽर्चने ॥
तेषां पत्राणि शस्तानि तदभावे फलानि च ॥ 2.5.7.३० ॥
एतैः पत्रैश्च पुष्पैश्च फलैश्चाऽपि तथाहि माम् ॥
अर्चन्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात् ॥ ३१ ॥
एताभिः पुष्पजातीभिः सहोमासेऽर्चयन्ति ये ॥
भक्तिं ददामि तेषां वै तुष्टः सन्नात्र संशयः ॥ ३२ ॥
धनं पुत्रांस्तथा दारान्यत्किञ्चिद्वाञ्छते हि सः ॥
तत्तद्ददामि देवेश पुष्पैरेभिः प्रतोषितः ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये जातीपुष्पश्रैष्ठ्यकथनपूर्वकं विष्णुकण्ठे तत्सहस्रपुष्पाङ्कितमालास्थापनफलयोवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥