॥ ॥ ब्रह्मोवाच ॥ ॥
घण्टानादस्य माहात्म्यं चन्दनस्य तथाऽच्युत ॥
यत्फलं लभते स्वामिंस्तत्सर्वं ब्रूहि तत्त्वतः ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
स्नानार्चनक्रियाकाले घण्टानादं करोति यः ॥
पुरतो मम देवेश तस्य पुण्यफलं शृणु ॥ २ ॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ॥
वसते मामके लोके अप्सरोगणसेवितः ॥ ३ ॥
सर्ववाद्यमयी घण्टा सर्वदेवमयी यतः ॥
तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥ ४ ॥
सर्ववाद्यमयी घण्टा सर्वदा मम वल्लभा ॥
वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥ ५ ॥
घण्टानादः सदा कार्यः पूजाकाले विशेषतः ॥
मन्वन्तरसहस्राणि मन्वतरशतानि च ॥ ६ ॥
प्रीतो भवामि सततं घण्टानादेन पुत्रक ॥
भेरीशङ्खनिनादेन घण्टानादान्वितेन च ॥ ७ ॥
मृदङ्गशङ्खेन युतं प्रणवेन समन्वितम् ॥
अर्चनं मम देवेश सततं मोक्षदं नृणाम् ॥ ८ ॥
यत्र तिष्ठेत पुरतो घण्टा नादान्विता मम ॥
अर्चिता वैष्णवैर्यत्र तत्र मां विद्धि पुत्रक ॥ ९ ॥
वैनतेयांऽकिता घण्टा सुदर्शनयुताऽथवा ॥
ममाग्रे स्थापयेद्यस्तु तस्य पापं हराम्यहम् ॥ 2.5.6.१० ॥
मदीयार्चनवेलायां घण्टानादं करोति यः ॥
नश्यन्ति तस्य पापानि शतजन्मार्जितान्यपि ॥ ११ ॥
स्वापकाले प्रकुर्वीत घण्टानादं स्वभक्तितः ॥
ममैवार्चनवेलायां फलं कोटिगुणोद्भवम् ॥ १२ ॥
ये मामर्चन्ति देवेश सुपर्णोपरिसंस्थितम् ॥
शङ्खपद्मगदायुक्तं सचक्रं च श्रिया युतम् ॥ १३ ॥
किं करिष्यन्ति ते तीर्थैर्देवतानां च दर्शनैः ॥
किं यज्ञैः किं व्रतैर्वापि किं दानैः किमुपोषणैः ॥१४॥
मूर्तिर्नारायणी यैश्च मामकी गरुडोपरि ॥
स्थापिता ते कलौ यान्ति कल्पकोटिं पदं मम ॥ १५॥
ममाऽग्रे स्थापयेद्यस्तु प्रासादेऽथ गृहेऽथवा ॥
तीर्थकोटिसहस्राणि तत्र तिष्ठन्ति देवताः ॥ १६ ॥
यस्तु पूजयते धन्यो गरुडोपरिसंस्थितम्॥
एकादश्यां तथा रात्रौ वासनासंयुतो मम ॥
कृत्वा गीतं च नृत्यं च तारयेन्नरकात्पितॄन् ॥ १७ ॥
पुनश्च कथयिष्यामि शृणु घण्टामहं सुत ॥ १८ ॥
मम नामाङ्किता घण्टा पुरतो या च तिष्ठति ॥
अर्चिता वैष्णवी यत्र तत्र मां विद्धि पुत्रक ॥ १९ ॥
यस्तु वादयते घण्टां वैनतेयविचिह्निताम्॥
धूपे नीराजने स्नाने पूजाकाले विलेपने ॥ 2.5.6.२० ॥
ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ॥
मखायुतं गोऽयुतं च चान्द्रायणशतोद्भवम्॥ २१ ॥
विधिबाह्यकृता पृजा सफला जायते नृणाम् ॥
घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम् ॥ २२ ॥
नागाऽरिचिह्निता घण्टा रथाङ्गेन समन्विता ॥
वादनात्कुरुते नाशं जन्मकोटिभयस्य वै ॥ २३ ॥
गरुडेनांऽकितां घण्टां दृष्ट्वाहं प्रत्यहं मुदा ॥
प्रीतिं करोमि देवेश लक्ष्मीं प्राप्य यथाऽधनः ॥ २४ ॥
घण्टादण्डस्य शिरसि सुचक्रं स्थापयेत्तु यः ॥
मत्प्रियं वैनतेयं वा स्थापितं भुवनत्रयम् ॥ २५ ॥
घण्टानादं सचक्रं च अन्तकाले शृणोति यः ॥
पापकोटियुतस्याऽपि नश्यन्ति यमकिङ्कराः ॥ २६ ॥
सर्वदोषाः प्रणश्यन्ति घण्टानादेन वै सुत ॥
देवतानां सरुद्राणां पितॄणामुत्सवो भवेत् ॥ २७ ॥
अभावे वैनतेयस्य चक्रस्याऽपि न संशयः ॥
घण्टानादेन भक्तानां प्रसादं प्रकरोम्यहम् ॥ २८ ॥
गृहे यस्मिन्भवेन्नित्यं घण्टा नागारिसंयुता ॥
सर्पाणां न भयं तत्र नाग्निविद्युत्समुद्भवम् ॥ २९ ॥
यस्य घण्टा गृहे नास्ति शङ्खो न पुरतो मम ॥
कथं भागवतो ज्ञेयः कथं भवति वल्लभः ॥ 2.5.6.३० ॥
चन्दनस्य प्रवक्ष्याम माहात्म्यं तव पुत्रक ॥
यस्मिन्कृते भवेत्प्रीतिर्ममात्यन्तं न संशयः ॥ ॥ ३१ ॥
सचन्दनं सकुसुमं कर्पूरागरुमिश्रितम् ॥
मृगनाभिसमायुक्तं जातीफलसमन्वितम् ॥ ३२ ॥
तुलसीचन्दनोपेतं ममात्यन्तसुखावहम् ॥
यो ददाति हि मां नित्यं तुलसीकाष्ठसम्भवम्॥ ३३ ॥
युगानि वसते स्वर्गे ह्यनन्तानि नरोत्तमः ॥
महाविष्णोः कलौ भक्त्या दत्त्वा तुलसिचन्दनम् ॥ ॥३४॥
अर्चयेन्मालतीपुष्पैर्न भूयः स्तनपो भवेत् ॥
तुलसीकाष्ठसम्भूतं चन्दनं यच्छते मम ॥३५॥
दहामि पातकं सर्वं पूर्वजन्मशतैः कृतम् ॥
सर्वेषामेव देवानां तुलसीकाष्ठचन्दनम्॥३६॥
पितॄणां च विशेषेण सदाऽभीष्टं यथा मम ॥३७॥
श्रीखण्डं चन्दनं तावच्छ्रेष्ठं कृष्णागुरुं तथा ॥
यावन्न दीयते मह्यं तुलसीकाष्ठचन्दनम्॥ ३८ ॥
तावत्कस्तूरिकाऽऽमोदः कर्पूरस्य सुगन्धिता ॥
यावन्न दीयते मह्यं तुलसीकाष्ठचन्दनम् ॥३९॥
कलौ यच्छन्ति ये मह्यं तुलसीकाष्ठचन्दनम्॥
मार्गशीर्षशुभेमासे ते कृतार्था न संशयः ॥ 2.5.6.४० ॥
यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम् ॥
नार्पयेद्वै सहोमासे नाऽसौ भागवतो नरः ॥४१॥
कुङ्कुमागुरुश्रीखण्डकर्दमैर्मम विग्रहम् ॥
आलिपेद्वै सहोमासे कल्पकोटिं वसेद्दिवि ॥४२॥
कर्पूरागुरुमिश्रेण चन्दनेनाऽनुलिम्पयेत् ॥
मृगदर्पं विशेषेण अभीष्टं च सदा मम॥४३॥
विलेपयति यो मां वै शङ्खे कृत्वा तु चन्दनम् ॥
मार्गशीर्षे तदा प्रीतिं करोमि शतवार्षिकीम् ॥४४॥
सेवते तुलसीपत्रैर्नित्यमामलकैश्च यः ॥
मार्गशीर्षे सदा भक्त्या स लभेद्वाञ्छितं फलम् ॥ ४५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये भगवते तुलसीकाष्ठचन्दनार्पणफलकथनन्नाम षष्ठोऽध्यायः ॥ ६ ॥