००५ शङ्खपूजनफलकथनम्

॥ ब्रह्मोवाच ॥ ॥
पञ्चामृतस्य स्नपनाद्यत्फलं लभते हरेः॥
शङ्खोदकेन यत्किञ्चित्तन्मे ब्रूह्यजिताऽच्युत ॥१॥
॥ ॥ श्रीभगवानुवाच॥ ॥
क्षीरस्नानं प्रकुर्वन्ति ये नरा मम मूर्द्धनि॥
शताश्वमेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम्॥२॥
क्षीराद्दशगुणं दध्ना घृतेनैव दशोत्तरम्॥
मधुना तद्दशगुणं सितया तु ततोऽधिकम् ॥
गन्धपुष्पोदके मन्त्रं सर्वोत्कृष्टं प्रशस्यते ॥३॥
द्वादश्यां पञ्चदश्यां वा गव्येन पयसा मम ॥
स्नापनं देवशार्दूल महापातकनाशनम्॥ ४ ॥
दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा ॥
तथैव शेषकामानां क्षीरस्नपनतो मम ॥ ५ ॥
क्षीरस्नानेन सौभाग्यं दध्ना मिष्टान्नभोजनम्॥
घृतेन स्नापयेद्यो मां नरो मम पुरं व्रजेत् ॥ ६ ॥
मधुना सितया यस्तु कारयेन्मार्गशीर्षके ॥
स राजा जायते लोके पुनः स्वर्गादिहागतः ॥७॥
गजाश्वरथसम्पूर्णं स राज्यं लभते भुवि ॥
कारयेन्मार्गशीर्षे वै यः क्षीरस्नापनं मम ॥ ८ ॥
स्वर्गे लोके स जयति चन्द्रेन्द्ररुद्रमारुतान् ॥
क्षीरस्नानं परं श्रेष्ठं मार्गशीर्षे च पुत्रक ॥ ९ ॥
क्षीरस्नपनमाहात्म्यं वर्चस्कं पुष्टिवर्धनम् ॥
दौर्भाग्यं विलयं याति क्षीरस्नानेन मे सुत ॥ 2.5.5.१० ॥
स्नापयेन्मार्गशीर्षे मां यो वै पञ्चाऽमृतेनतु ॥
स न शोच्यो भवेज्जन्तुर्बन्धुना भुवि मानद ॥ ११ ॥
कपिलाक्षीरमादाय यः स्नापयति मां सुत ॥
कपिलाशतदानस्य फलं प्राप्नोति मानवः ॥ १२ ॥
शङ्खे तीर्थोदकं कृत्वा यः स्नापयति देशिकः ॥
बिन्दुनाऽपि सहोमासे स्वकुलं तारयेद्धि सः ॥१३॥
कापिलं क्षीरमादाय शङ्खे कृत्वा च मानवः ॥
यः स्नापयति मां भक्त्या सर्वतीर्थफलं लभेत् ॥१४॥
शङ्खे कृत्वा तु पानीयं साक्षतं कुशसंयुतम् ॥
यः स्नापयेत्सहोमासे सर्वतीर्थफलं लभेत् ॥ १५ ॥
शङ्खाष्टकेन यः स्नानं कारयेन्मार्गशीर्षके ॥
भक्त्या भगवतः श्रेष्ठो मम लोके महीयते ॥ १६ ॥
शङ्खषोडशकेनाथ यः स्नापयति मे सुत ॥
स पापमुक्तः सुचिरं स्वर्गलोके महीयते ॥ १७ ॥
चतुर्विंशतिसङ्ख्याकैः शङ्खैर्यः स्नापयेच्च माम् ॥
इन्द्रलोके चिरं स्थित्वा स राजा भुवि जायते ॥ १८ ॥
शङ्खाऽष्टोत्तरशतेनैव स्नापयेन्मार्गशीर्षके ॥
शङ्खेशङ्खे सुवर्णस्य फलं प्राप्नोति मानवः ॥ १९ ॥
मार्गशीर्षे भक्तिमान्यः कृत्वा शङ्खध्वनिं हि माम् ॥
स्नापयेत्पितरस्तस्य स्वर्गं तावत्प्रतिष्ठिताः ॥ 2.5.5.२० ॥
अष्टोत्तरसहस्रं तु शङ्ख स्नानं तु यश्चरेत् ॥
स गणो मुक्तिमाप्नोति यावदाभूतसम्प्लवम् ॥ २१ ॥
नित्यं संस्नापयेद्यो मां शङ्खेन सुरसत्तम ॥
गङ्गास्नानफलं प्राप्य नित्यं नन्दति देववत् ॥ २२ ॥
शङ्खेतोयं समादाय यः स्नापयति मां सुत ॥
नमो नारायणेत्युक्त्वा मुच्यते सर्वकिल्बिषैः ॥ २३ ॥
कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् ॥
यो ददाति तिलोन्मिश्रं चान्द्रायणफलं लभेत् ॥ २४ ॥
नाद्यं तडागजं वाऽपि वापीकूपादिकं च यत् ॥
गाङ्गेयं जायते सर्वं जलं शङ्खकृतं च यत् ॥२५॥
गृहीत्वा मम पादाम्बु शङ्खे कृत्वा तु वैष्णवः ॥
यो वहेच्छिरसा नित्यं स मुनिस्तपतां वरः ॥२६॥
त्रैलोक्ये यानि तीर्थानि मम चैवाज्ञया सुत ॥
शङ्खे तानि वसन्तीह तस्माच्छङ्खो वरः स्मृतः ॥ २७ ॥
साम्बुं शङ्खं करे धृत्वा मन्त्रैरेतैस्तु वैष्णवः ॥
यः स्नापयेन्मार्गशीर्षे तुष्टस्तस्य भवाम्यहम् ॥ २८ ॥
शङ्खादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता ॥
पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥ २९ ॥
तेषामुच्चारपूर्वं तु स्नापयेन्मामतन्द्रितः ॥
तस्य पुण्यस्य सङ्ख्यां वै कर्तुं नैव सुराः क्षमाः॥ 2.5.5.३० ॥
पुरतो मम देवेश सपुष्पः सजलाक्षतः॥
शङ्खस्त्वभ्यर्चितस्तिष्ठेत्तस्य श्रीः सर्वतोमुखी ॥ ३१ ॥
विलेपनेन सम्पूर्णं शङ्खं कृत्वा तु मां भजेत् ॥
तदा मे परमा प्रीतिर्भवेद्वै शतवार्षिकी ॥ ३२ ॥
शङ्खे कृत्वा तु पानीयं सपुष्पं सजलाक्षतम् ॥
अर्घ्यं ददाति यो मां वै तस्य पुण्यमनन्तकम् ॥ ३३ ॥
अर्घ्यं कृत्वा स्वयं शङ्खे यः करोति प्रदक्षिणाम् ॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ३४ ॥
भ्रामयित्वा च मे मूर्ध्नि मन्दिरं शङ्खवारिणा ॥
प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्ग्रहे भवेत् ॥ ३५ ॥
नाधयो न क्लमस्तस्य नारकं न भयं क्वचित् ॥
यस्य पादोदकं शङ्खे कृतं मूर्धानमालभेत् ॥ ३६ ॥
ग्रहा रक्षांसि कूष्माण्डपिशाचोरगदानवाः ॥
दृष्ट्वा शङ्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश ॥ ३७ ॥
वादित्रनिनदैरुच्चैर्गीतमङ्गलनिःस्वनैः ॥
यः स्नापयति मां भक्त्या जीवन्मुक्तो भवेद्धि सः ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शङ्खपूजनफलकथनन्नाम पञ्चमोऽध्यायः ॥ ५ ॥