००४ शङ्खपूजाविधिकथनम्

॥ ब्रह्मोवाच ॥ ॥
तप्तचकाङ्कितं कृत्वा ह्यात्मानमथ दीक्षितम् ॥
पद्माक्षतुलसीमालं किं फलं ब्रूहि केशव ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते द्विजः ॥
अप्यऽशौचोऽप्यनाचारो मामेवैति न संशयः ॥ २ ॥
धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ॥
दृश्यते यस्य देहे तु स वै भागवतो नरः ॥ ३ ॥
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ॥
ममोत्तीर्णां विशेषेण स नमस्यो दिवौकसाम् ॥ ४ ॥
तुलसीदलजां मालां धात्रीफलकृतामपि ॥
ददाति पापिनां मुक्तिं किं पुनर्मम सेविनाम् ॥ ५ ॥
तुलसीदलजां मालां ममोत्तीर्णां वहेत्तु यः ॥
पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम् ॥ ६ ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः॥
फलं यच्छाम्यहं वत्स प्रत्यहं द्वारकोद्भवम् ॥ ७ ॥
निवेद्य भक्त्या मां मालां तुलसीकाष्ठसम्भवाम् ॥
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥ ८ ॥
सदा प्रीतमनास्तस्य अहं प्राणवरो हि सः ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ॥
प्रायश्चित्तं न तस्याऽस्ति नाऽशौचं तस्य विग्रहे ॥९॥
तुलसीकाष्ठसम्भूतं शिरसः काष्ठभूषणम् ॥
बाहौ करे च मर्त्यस्य देहे यस्य स मे प्रियः ॥ 2.5.4.१० ॥
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ॥
पितॄणां देवतानां च पुण्यं कोटिगुणं भवेत् ॥ ११ ॥
तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥ १२ ॥
यद्गृहे तुलसीकाष्ठं पत्रं शुष्कमथाऽऽर्द्रकम् ॥
भवन्ति तद्गृहे नैव पापं सङ्क्रमते कलौ ॥ १३ ॥
तुलसी काष्ठमालाभिर्भूषितो र्भ्रमते भुवि ॥
दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित् ॥१४॥
धारयन्ति न ये मालां हैतुकाः पापबुद्धयः ॥
नरकान्न निवर्तन्ते दग्धाः कोपाग्निना मम ॥ १५ ॥
तस्माद्धार्या प्रयत्नेन माला तुलसिसम्भवा ॥
पद्माक्षनिर्मिता भक्त्या फलैर्धात्र्या सुपुण्यदा ॥ १६ ॥
तदूर्ध्वपुण्ड्रशङ्खाद्यैर्युक्तस्तुलसिमूलके ॥
सन्ध्योपास्त्यादिकं कुर्यात्कुशपाणिर्हिं मां स्मरन् ॥ १७ ॥
कृतसन्ध्यादिको भक्तस्ततः सम्पूजयेच्च माम् ॥
गुरुश्चेत्तत्र वर्तेत आदौ गत्वा नमेद्गुरुम् ॥ १८ ॥
किञ्चिद्दत्त्वोपायनं च दण्डवत्प्रणमेन्मुदा ॥
आचम्यैकाग्रमनसा पूजामण्डपमाविशेत् ॥ १९ ॥
उपविश्याऽऽसने रम्ये कृष्णाजिनकुशोत्तरे ॥
सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ॥ 2.5.4.२० ॥
प्राणायामत्रयं कृत्वा मन्त्रेण च जितेन्द्रियः ॥
उदङ्मुखस्ततः कृत्वा हृत्पङ्कजमनुत्तमम्॥
विकासं तस्य कुर्वीत विज्ञानरविणा हृदि ॥ २१ ॥
कर्णिकायां न्यसेच्चार्कं शशिनं चाग्निमेव च ॥
त्रयं त्रयात्मके तस्मिश्चिन्तयेद्वैष्णवो नरः ॥
नानारत्नमयं पीठं तेषामुपरि विन्यसेत् ॥ २२ ॥
तस्मिन्मृदुश्लक्ष्णतरं बालार्कसदृशद्युति ॥
अष्टैश्वर्यदलं पद्मं मन्त्राक्षरमयं न्यसेत् ॥ २३ ॥
तस्मिन्देवं समासीनं कोटिशीतांशुसन्निभम् ॥
चतुर्भुजं महापद्मशङ्खचक्रगदाधरम् ॥ २४ ॥
पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम् ॥
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रान्वितं च माम् ॥ २५ ॥
विचित्राभरणैर्युक्तं दिव्यमण्डनमण्डितम् ॥
दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पोपशोभितम् ॥ २६ ॥
तुलसीकोमलदलवनमालाविभूषितम् ॥
कोटिबालार्कसदृशं कान्तं दिव्यश्रिया सह ॥ २७ ॥
सर्वलक्षणलक्षिण्या समाश्लिष्टतनुं शिवम् ॥
एवं ध्यात्वा जपेन्मन्त्रं समाहितमनाः शुचिः ॥ २८ ॥
सहस्रं शतवारं वा यथाशक्ति जपेन्मनुम् ॥
मनसैवाऽर्चनं कृत्वा ततो विधिवदाचरेत् ॥ २९ ॥
सम्प्रदायाऽनुरोधेन शङ्खं स्थाप्य ममाग्रतः ॥
दूर्वाङ्कुरैश्च पुष्पैश्च गन्धोदेन च पूरितम् ॥ 2.5.4.३० ॥
दक्षिणे गन्धपुष्पाणां पात्रं स्थाप्य च देशिकैः ॥
वामभागे न्यसेत्कुम्भं वस्त्रपूतं सुवासितम् ॥ ३१ ॥
पुरतो मम घण्टां च दिक्षु दीपान्नियोजयेत् ॥
अन्यत्सर्वं साधनं च यथास्थानेषु विन्यसेत् ॥३२॥
अर्घ्यपाद्याऽऽचमनीयमधुपर्कस्य कारणात् ॥
विन्यसेत्पुरतो मह्यं चत्वार्यमत्रकाणि वै ॥ ३३ ॥
सिद्धार्थाऽक्षतपुष्पाणि कुशाग्रं तिलचन्दनम् ॥
फलं यवाश्चतुर्वक्त्र अर्घ्यपात्रे विनिःक्षिपेत् ॥३४॥
दूर्वा विष्णुपदी श्यामा पद्मं चैव चतुर्थकम् ॥
पाद्यपात्रे न्यसेत्पुत्र देशिको मम तुष्टये ॥ ३५ ॥
कङ्कोलं च लवङ्गं च फलं मालतिसम्भवम् ॥
कुर्याद्वै श्रद्धया पुत्र पात्र आचमनीयके ॥ ३६ ॥
गव्यं पयो दधि मधु घृतं खण्ड समन्वितम् ॥
मधुपर्कस्य पात्रे वै दद्याद्वै श्रद्धयाऽर्चकः ॥ ३७ ॥
उक्तानां द्रव्यजातीनामलाभे पत्रपुष्पयोः ॥
तत्तद्भावनया कुर्यात्सर्वदा विधिकोविदः ॥ ३८ ॥
करन्यासं ततः कुर्यादङ्गन्यासं तथैव च ॥
पञ्चाङ्गं वा षडङ्गं वा विन्यसेत्सम्प्रदायतः ॥ ३९ ॥
ममाऽनुस्मरणं कार्यमात्मानं मत्समं स्मरेत् ॥
पूजारम्भे चतुर्वक्त्रं मङ्गलं तु पठेन्नरः ॥ 2.5.4.४० ॥
अथ सम्पूजयेच्छङ्खं पाञ्चजन्यं मम प्रियम् ॥
यस्य सम्पूजनाद्वत्स आनन्दः परमो मम ॥
शङ्खस्य पूजने वत्स मन्त्रानेतानुदीरयेत् ॥ ४१ ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥
निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ ४२ ॥
तव नादेन जीमूता वित्रसन्ति सुराऽसुराः ॥
शशाङ्काऽयुतदीप्ताभ पाञ्चजन्य नमोऽस्तु ते ॥४३॥
गर्भा देवारिनारीणां विलीयन्ते सहस्रधा ॥
तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥ ४४ ॥
दर्शनेनैव शङ्खस्य किं पुनः स्पर्शने कृते ॥
विलयं यान्ति पापानि हिमवद्भास्करोदये ॥ ४५ ॥
नत्वा शङ्खं करे धृत्वा मन्त्रैरेभिस्तु वैष्णवः ॥
यः स्नापयति मां भक्त्या तस्य पुण्यमनन्तकम् ॥ ४६ ॥
सुवासितेन तैलेन कुर्यादभ्यञ्जनं ततः ॥
कस्तूर्या चन्दनेनैव कुर्यादुद्वर्तनादिकम्॥ ४७॥
सुगन्धवासितैस्तोयैः स्नाप्य मन्त्रयुतैः शुभैः ॥
अर्घ्यं दत्त्वा ततो वत्स पाद्यमाचमनीयकम् ॥
मधुपर्कं ततो दद्यादथ सर्वोपचारकान् ॥ ४८ ॥
वस्त्रैराभरणैर्दिव्यैरलङ्कृत्य यथाविधि ॥
पुष्पैः सम्पूजयेत्पीठं तत्र देवं निधाय च ॥४९॥
वस्त्राऽलङ्कारगन्धादीनर्पयेच्छ्रद्धया मम ॥
नैवेद्यं विविधं दद्यात्पायसाऽपूपमिश्रितम् ॥
सकर्पूरं च ताम्बूलं भक्त्या चैव निवेदयेत् ॥ 2.5.4.५० ॥
सुरभीणि च पुष्पाणि भक्त्या सम्यङ्निवेदयेत्॥
धूपं दशाङ्गमष्टाङ्गं दीपं च सुमनोहरम् ॥ ५१ ॥
परिणीय प्रणम्याथ स्तुत्वा स्तुतिभिरादरात् ॥
शाययित्वा तु पर्यङ्के मगलार्घ्यं निवेदयेत्॥ ५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शङ्खपूजाविधिकथनन्नाम चतुर्थोऽध्यायः ॥ ४ ॥