००३ चक्राद्यायुधधारणतत्तन्मुद्राधारणप्रकारकथनम्

॥ ब्रह्मोवाच ॥ ॥
पुण्ड्रं कतिविधं कार्यं प्रब्रूहि मम केशव ॥
पुण्ड्राणां श्रवणेऽतीव कौतुकं मम जायते ॥ १ ॥
॥ श्रीभगवानुवाच ॥ ॥
शृणु पुत्र प्रवक्ष्यामि पुण्ड्रं च त्रिविधं स्मृतम् ॥
तुलसीमृत्स्नया सार्धं श्रीगोपीचन्दनेन च ॥ २ ॥
हरिचन्दनतः कार्यं पुण्ड्रं तत्र विचक्षणैः ॥
श्रीकृष्णतुलसीमूलमृदमादाय भक्तिमान् ॥
धारयेदूर्ध्वपुण्ड्राणि हरिस्तत्र प्रसीदति ॥ ३ ॥
गोपीचन्दन माहात्म्यं निबोध गदतो मम ॥ ४ ॥
यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टके ॥
करोति नित्यं नर ऊर्ध्वपुण्ड्रं क्रियाफलं कोटिगुणं तदा भवेत्॥ ५॥
क्रियाविहीनं यदि मन्त्रहीनं श्रद्धाविहीनं यदि कालवर्जितम्॥
कृत्वा ललाटे यदि गोपिचन्दनं प्राप्नोति तत्कर्मफलं सदाऽव्ययम्॥६॥
गोपीचन्दनसम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि प्रतिदिनं रात्रौ दिवा सर्वदा॥
यत्पुण्यं कुरुजाङ्गले रविग्रहे माघ प्रयागे तथा तत्प्राप्नोति ततोऽधिकं मम गृहे सन्तिष्ठते देववत् ॥ ७ ॥
यस्मिन्गृहे तिष्ठति गोपिचन्दनं भक्त्या ललाटे मनुजो बिभर्ति चेत् ॥
तस्मिन्गृहेऽहं निवसामि सर्वदा श्रियान्वितः कंसनिहा चतुर्मुख ॥ ८ ॥
यो धारयेद्द्द्वारवतीसमुद्भवां मृत्स्नां पवित्रां कलिकल्मषापहाम् ॥
नित्यं ललाटे मम मन्त्रसंयुतां यमं न पश्येदपि पापसंयुतः ॥ ९ ॥
यस्यांऽतकाले सुत गोपिचन्दनं बाह्वोर्ललाटे हृदि मस्तके च ॥
प्रयाति लोके कमलापतेर्मम गोबालघाती यदि ब्रह्महा स्यात् ॥ 2.5.3.१० ॥
ग्रहा न पीड्यन्ति न रक्षसां गणा यक्षाः पिशाचोरगभूतनायकाः ॥
ललाटपट्टे सुत गोपिचन्दनं सन्तिष्ठते यस्य मम प्रभावात् ॥ ११ ॥
ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ॥
स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥१२॥
अस्नातो यः क्रियाः कुर्यादशुचिः पापसंयुतः ॥
गोपीचन्दनसम्पर्कात्पूतो भवति तत्क्षणात् ॥ १३ ॥
अशुचिर्वाप्यनाचारो महापापं समाचरेत् ॥
शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्रांऽकितो नरः ॥१४॥
मत्प्रियार्थं शुभार्थं वा रक्षार्थं चतुरानन ॥
मत्पूजाहोमके चैव सायं प्रातः समाहितः॥
मद्भक्तो धारयेन्नित्यमूर्ध्वपुण्ड्रं भवापहम्॥ १५ ॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यदि कुत्रचित् ॥
श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ १६ ॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो यदा यस्यान्नमश्नुते ॥
तदा विंशत्कुलं तस्य नरकादुद्धराम्यहम् ॥ १७ ॥
वीक्ष्याऽऽदर्शे जले वाऽपि यो विदध्यात्प्रयत्नतः ॥
ऊर्ध्वपुण्ड्रं महाभाग स याति परमां गतिम् ॥ १८ ॥
अनामिका शान्तिदोक्ता मध्यमाऽऽयुष्करी भवेत् ॥
अङ्गुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षदायिनी ॥॥ १९ ॥
गोपीचन्दनखण्डं तु यो ददाति च वैष्णवे ॥
कुलमष्टोत्तरं तेन तारितं वै भवेच्छतम् ॥ 2.5.3.२० ॥
यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रविनाकृतम् ॥ २१ ॥
यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रविनाकृतम् ॥
तन्मुखं नैव पश्यामि श्मशानसदृशं हि तत्॥ २२ ॥
ऊर्ध्वपुण्ड्रं प्रकुर्वीत मत्स्यकूर्मादिधारणम् ॥
कुर्याद्विष्णुप्रसादार्थं महाविष्णोरतिप्रियम् ॥ २३ ॥
यत्पुनः कलिकाले तु मत्पुरीसम्भवां मृदम् ॥
मत्स्यकूर्मांऽकितं चिह्नं गृहीत्वा कुरुते नरः ॥ २४ ॥
देहे तस्य प्रविष्टं मां जानीहि त्रिदशोत्तम ॥
तस्य मे नान्तरं किञ्चित्कर्तव्यं श्रेय इच्छता ॥ २५ ॥
ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे ॥
मर्त्यो मर्त्यो न विज्ञेयः स नूनं मामकी तनुः ॥ २६ ॥
पापं सुकृतरूपं तु जायते तस्य देहिनः ॥
ममाऽऽयुधानि दृश्यन्ते लिखितानि कलौ युगे ॥ २७ ॥
उभाभ्यामपि चिह्नाभ्यां योंऽकितो मत्स्यमुद्रया ॥
कूर्मया मामकं तेजो विक्षिप्तं तस्य विग्रहे ॥ २८ ॥
शङ्ख च पद्मं च गदां रथाङ्गं मत्स्यं च कूर्मं रचितं स्वदेहे ॥
करोति नित्यं सुकृतस्य वृद्धिं पापक्षयं जन्मशतार्जितस्य ॥ २९ ॥
नारायणायुधैर्नित्यं चिह्नितो यस्य विग्रहः ॥
पापकोटिप्रयुक्तस्य तस्य किं कुरुते यमः ॥ 2.5.3.३० ॥
शङ्खोद्धारे च यत्प्रोक्तं वसता कोटिजन्मभिः ॥
तत्फलं लभते शङ्खे प्रत्यहं दक्षिणे भुजे ॥ ३१ ॥
यत्फलं पुष्करे प्रोक्तं पुण्डरीकाक्षदर्शनात् ॥
शङ्खोपरि कृते पद्मे तत्फलं कोटिसम्मितम् ॥३२ ॥
वामे भुजे गदा यस्य लिखिता दृश्यते कलौ॥
गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति॥ ३३॥
यच्चानन्दपुरे प्रोक्तं चक्रस्वामिसमीपतः ॥
गदाचक्रे च लिखिते तत्फलं लिङ्गदर्शने ॥ ३४ ॥
ममायुधांऽकितं देहं गोपीचन्दनमृत्स्नया ॥
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥ ३५ ॥
यदायदा प्रपश्येत देहं शङ्खादिचिह्नितम् ॥
तदातदा प्रसन्नोहं पापं तस्य दहामि वै ॥ ३६ ॥
तिष्ठते यस्य देहे तु अहोरात्रं दिने दिने ॥
शङ्खचक्रगदापद्मलिखितं स मदात्मकः ॥३७॥
नारायणायुधैर्युक्तं कृत्वात्मानं कलौ युगे ॥
यत्पुण्यं कर्म कुरुते मेरुतुल्यं न संशयः॥३८॥
शङ्खायुधांऽकितो भक्त्या यः श्राद्धं कुरुते सुत ॥
विधिहीनं तु सम्पूर्णं पितॄणां दत्तमक्षयम् ॥३९॥
यथाऽग्निर्दहते काष्ठं वायुना प्रेषितो भृशम् ॥
तथा दह्यन्ति पापानि दृष्ट्वा म आयुधानि वै ॥ 2.5.3.४० ॥
मम नामाङ्कितां मुद्रामष्टाक्षरसमन्विताम् ॥
शङ्खादिस्वायुधैर्युक्तां स्वर्णरौप्यमयीमपि ॥४१॥
धत्ते भगवतो यस्तु कलिकाले विशेषतः ॥
प्रह्रादस्य समो ज्ञेयो नान्यथा मम वल्लभः ॥४२॥
यस्य नारायणी मुद्रा देहं शङ्खादिचिह्नितम् ॥
धात्रीफलैः कृता माला तुलसीकाष्ठसम्भवा ॥४३॥
द्वादशाक्षरमन्त्रस्तु नियुक्तानि कलेवरे ॥
आयुधानि च विप्रस्य मत्समः स च वैष्णवः ॥४४॥
शङ्खाङ्किततनुर्विप्रो भुङ्क्ते वै यस्य वेश्मनि ॥
तदन्नं स्वयमश्नामि पितृभिः सह पुत्रक ॥४५॥
कृष्णायुधांऽकितं दृष्ट्वा सन्मानं न करोति यः ॥
द्वादशाब्दार्जितं पुण्यं बाष्कलेयाय गच्छति ॥ ४६ ॥
कृष्णायुधांऽकितो यस्तु श्मशाने म्रियते यदि ॥
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य मानद ॥४७॥
ममाऽऽयुधैः कलौ नित्यं मण्डितो यस्य विग्रहः ॥
तत्राऽऽश्रमं प्रकुर्वन्ति विबुधा वासवादयः ॥ ४८ ॥
यः करोति च मे पूजां मम शस्त्राङ्कितो नरः ॥
अपराधसहस्राणि नित्यं तस्य हराम्यहम् ॥ ४९ ॥
कृत्वा काष्ठमयं बिम्बं मम शस्त्रैः सुचिह्नितम् ॥
यो वा अङ्कयते देहं तत्समो नास्ति वैष्णवः ॥ 2.5.3.५० ॥
अष्टाक्षरांऽकिता मुद्रा यस्य धातुमयी करे ॥
शङ्खपद्मादिभिर्युक्ता पूज्यतेऽसौ सुरासुरैः ॥५१॥
धृता नारायणी मुद्रा प्रह्रादेन पुरा करे ॥
विभीषणेन बलिना ध्रुवेण च शुकेन च ॥
मान्धात्रा ह्यम्बरीषेण मार्कण्डेयमुखैर्द्विजैः ॥ ५२ ॥
शङ्खादिचिह्नितैः शस्त्रैर्देहं कृत्वा च मानद ॥
एवमाराध्य मां प्राप्तं समीहितफलं महत् ॥ ५३ ॥
गोपीचन्दनमृत्स्नया लिखितो यस्य विग्रहः ॥
शङ्खचक्रादिपद्मांऽको देहे तस्य वसाम्यहम् ॥ ५४ ॥
सौवर्णं राजतं ताम्रं कांस्यमायसमेव च ॥
चक्रं कृत्वा तु मेधावी धारयीत विचक्षणः ॥
द्वादशारं तु षट्कोणं वलित्रयविभूषितम् ॥ ५५ ॥
एवं सुदर्शनं चक्रं कारयीत विचक्षणः ॥
उपवीतादिवद्धार्याः शङ्खचक्रगदाः सदा ॥ ५६ ॥
ब्राह्मणैश्च विशेषेण वैष्णवैश्च विशेषतः ॥
उपवीतं शिखा यद्वच्चक्रं लाञ्छन संयुतम् ॥ ५७ ॥
चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् ॥
मम चक्रांऽकितो देहः पवित्र इति वै श्रुतिः ॥ ५८ ॥
चक्रांऽकिताय दातव्यं हव्यं कव्यं विचक्षणैः ॥
मम चक्रांऽककवचमभेद्यं देवदानवैः ॥
अजेयः सर्वभूतानां शत्रूणां रक्षसामपि ॥ ५९ ॥
मम चक्रांऽककवचं शरीरे यस्य तिष्ठति ॥
नाऽशुभं विद्यते तस्य गृहपुत्रादिकस्य हि ॥ 2.5.3.६० ॥
दक्षिणे च भुजे विप्रो बिभृयाद्वै सुदर्शनम् ॥
सव्ये च शङ्खं बिभृयादिति वेदविदो विदुः ॥ ६१ ॥
तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठाप्य पृथक्पृथक् ॥ ६२ ॥
ललाटे च गदा धार्या मूर्ध्नि चापं शरस्तथा ॥
नन्दकं चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥ ६३ ॥
तस्मात्सर्वप्रयत्नेन चक्रादीन्धारयेत्सदा ॥
धारणानन्तरं ब्रूयात्तत्र चैवं द्विजोत्तमः ॥ ६४ ॥
पुत्रमित्रकलत्रादिर्यः कश्चिन्मत्परिग्रहः ॥
सह देहेन सर्वोऽसौ विष्णुप्रीत्यै मयाऽर्पितः ॥ ६५ ॥
पश्चात्स्वधर्ममास्थाय तिष्ठेदाजीवनं मम ॥
भक्त्या चाव्यभिचारिण्या सर्वदाऽऽप्तमनोरथः ॥ ६६ ॥
शङ्खचक्राङ्कितं दृष्ट्वा ये निन्दन्ति नराधमाः ॥
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥
श्रीकृष्णनाम चोच्चार्य शुद्धो भवति नान्यथा ॥ ६७ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे गोपीचन्दनादिशङ्ख चक्राद्यायुधधारणतत्तन्मुद्राधारणप्रकारकथनन्नाम तृतीयोऽध्यायः ॥ ३ ॥