००२ त्रिपुण्ड्रधारणविधिकथनम्

॥ ब्रह्मोवाच ॥ ॥
त्वयोक्तो विधिसंयुक्तो मार्गशीर्षो मदापनः ॥
को विधिस्तस्य देवेश सर्वं मे ब्रूहि केशव ॥ १ ॥
॥ ॥ श्रीभगवानुवाच ॥ ॥
रात्रावन्ते समुत्थाय उपस्पृश्य यथाविधि ॥
नमस्कृत्या गुरुं स्वीयं संस्मरेन्मामतन्द्रितः ॥ २॥
सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ॥
बहिर्ग्रामात्समुत्सृज्य मलमूत्रं यथाविधि ॥ ३ ॥
शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ॥
दन्तधावनपूर्वं च स्नानं कृत्वा यथाविधि ॥ ४ ॥
आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ॥
मूलमन्त्रेणाऽभिमन्त्र्य गायत्र्या वा महामते ॥ ५ ॥
मन्त्रेणैवाऽनुलिप्ताङ्गः स्नायादप्स्वघमर्षणम् ॥
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं विधीयते ॥ ६ ॥
तीर्थं प्रकल्पयेद्विद्वान्मन्त्रेणाऽनेन मन्त्रवित् ॥
ॐनमो नारायणायेति मूलमन्त्र उदाहृतः ॥ ७ ॥
दर्भपाणिस्तु विधिना आचान्तः पुरतः शुचिः ॥
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥
प्रकल्प्याऽऽवाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः ॥ ८ ॥
विष्णुपादप्रसूताऽसि वैष्णवी विष्णुदेवता ॥
त्राहि नस्त्वमघादस्मादाजन्ममरणान्तिकात् ॥ ९ ॥
तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् ॥
दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥ 2.5.2.१० ॥
नन्दिनीत्येव ते नाम देवेषु नलिनीति च ॥
दक्षपुत्री च विहगा विश्वगा योगिनां मता ॥ ११ ॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ॥
क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥१२॥
एतानि पुण्यनामानि स्नानकाले सदा पठेत् ॥
सदा सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥ १३ ॥
सप्तवाराभिजप्तेन करसम्पुटयोजितम् ॥
मूर्ध्ना कृताञ्जलिर्भूयस्त्रिचतुः पञ्च सप्त वा ॥
स्नानं कुर्यान्मृदा तद्वदामन्त्र्याऽनुविधानतः ॥ १४ ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ १५ ॥
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ॥
नमस्ते सर्वभूतानां प्रभवाऽरणि सुव्रते ॥ १६ ॥
एवं स्नात्वा ततः पश्चादाचम्य च विधानतः॥
उत्थाय वाससी शुक्ले कूले वै परिधाय च ॥ १७ ॥
आचम्य तपयेद्देवान्पितॄंश्चैव ऋषींस्तथा ॥
निष्पीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ॥ १८ ॥
विमलां मृत्तिकां रम्यामादाय द्विजसत्तम ॥
मन्त्रेणैवाऽभिमन्त्र्याऽथ ललाटादिषु वैष्णवः ॥
धारयेदूर्ध्वपुण्ड्राणि यथासङ्ख्यमतन्द्रितः ॥ १९ ॥
ब्रह्मन्द्वादशपुण्ड्राणि ब्राह्मणः सततं वहेत् ॥
चत्वारि भूभृतां पुत्र पुण्ड्राणि द्वे विशां स्मृते ॥
एकं पुण्ड्रं च नारीणां शूद्राणां च विधीयते ॥ 2.5.2.२० ॥
ललाट उदरे चैव वक्षो वै कण्ठकूबरे ॥
कुक्ष्योर्बाह्वोः कर्णयोश्च पृष्ठे त्रिके च वै शिरः ॥
तिलका द्वादश प्रोक्ता ब्राह्मणस्य सदाऽनघ ॥२१॥
ललाटे हृदि बाह्वोश्च क्षात्रः पुण्ड्राणि धारयेत्॥
ललाटे हृदये वैश्यो भाले वै शूद्रयोषिताम्॥२२॥
ललाटे केशवं ध्यायेन्नारायणमथोदरे॥
वक्षःस्थले माधवं च गोविन्दं कण्ठकूबरे॥२३॥
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ॥
त्रिविक्रमं कर्णमूले वामनं वामपार्श्वके ॥२४॥
श्रीधरं वामबाहौ च हृषीकेशं च कर्णके ॥
पृष्ठे तु पद्मनाभः स्यात्त्रिके दामोदरं न्यसेत्॥२५॥
तत्प्रक्षालनतोयेन वासुदेवं तु मूर्धनि॥
एवं कार्यं ब्राह्मणस्य क्षत्रियस्योपधारयेत्॥२६॥
ललाटे केशवं ध्यायेद्धृदये माधवं तथा ॥
बाह्वोश्च उभयोर्वत्स स्मरेद्वै मधुसूदनम् ॥२७॥
क्षत्रियस्य विधिः प्रोक्तो वैश्यकृत्यं निशामय ॥
ललाटे केशवं ध्यायेद्धृदये माधवं तथा ॥ २८ ॥
योषिच्छूद्रौ स्मरेतां च केशवं भालदेशके ॥
अनेन विधिना कुर्यात्पुण्ड्राणि मम तुष्टये ॥ २९ ॥
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा ॥
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम्॥2.5.2.३०॥
एकान्तिनो महाभागाः सर्वलोकहिते रताः ॥
सांऽतरालं प्रकुर्वन्ति पुण्ड्रं हरिपदाकृतिम् ॥३१॥
मध्ये छिद्रेण संयुक्तमेतद्धि हरिमन्दिरम् ॥
ऊर्ध्वं सौम्यमृजुं सूक्ष्मं सुपार्श्वं सुमनोहरम्॥ ३२ ॥
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाऽधमः ॥
स हि तत्र स्थितं लक्ष्म्या सह मां च व्यपोहति ॥ ३३ ॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः ॥
तैर्ललाटे शुनः पादं निक्षिप्तं वै न संशयः ॥ ३४ ॥
तस्माच्छिद्रान्वितं पुण्ड्रं महच्छिद्रं शुभान्वितम् ॥
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये ॥ ३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये त्रिपुण्ड्रधारणविधिकथनन्नाम द्वितीयोऽध्यायः ॥ २ ॥