०३६ श्रवणमहिमवर्णनम्

॥ ॥ ब्रह्मोवाच ॥ ॥
यास्तिस्रस्तिथयः पुण्या अन्तिके शुक्लपक्षके ॥
कार्तिके मासि विप्रेन्द्र पूर्णिमान्ताः शुभवहाः ॥ १ ॥
अन्तिपुष्करिणी सञ्ज्ञा सर्वपापक्षयावहा ॥
कार्त्तिके मासि सम्पूर्णं यो वै स्नानं करोति ह ॥ २ ॥
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत् ॥
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून्पुनन्ति हि ॥ ३ ॥
चतुर्दश्यां सयज्ञाश्च देवा जन्तून्पुनन्ति हि ॥
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि ॥ ४ ॥
ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जन्तून्पुनन्ति हि ॥
उष्णोदकेन यः स्नायात्कार्त्तिक्यादिदिनत्रये ॥ ५ ॥
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश ॥
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये ॥ ६ ॥
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे ॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः ॥ ७ ॥
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम् ॥
कुटुम्बभोजन यस्तु गृहस्थस्तु दिनत्रये ॥ ॥ ८ ॥
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम् ॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये ॥ ९ ॥
दिनेदिनेऽश्वमेधानां फलमेति न संशयः ॥
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये ॥ 2.4.36.१० ॥
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा ॥
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च ॥ ११ ॥
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम् ॥ १२ ॥
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ॥
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा ॥ १३ ॥
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात् ॥
कार्त्तिके हरिपूजां तु यः करोति दिनत्रये ॥ १४ ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥
कार्त्तिके मासि विप्रेन्द्र सर्वमन्त्यदिनत्रये ॥ १५ ॥
पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ॥
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत् ॥ १६ ॥
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत् ॥
उद्याने वा गृहे वाऽपि कार्त्तिक्यां विष्णुतत्परः ॥ १७ ॥
मण्डपं तत्र कुर्वीत कदलीस्तम्भमण्डितम् ॥
चूतपल्लवसंवीतमिक्षुदण्डैः सुमण्डितम्॥ १८ ॥
चित्रवस्त्रैः स्वलङ्कृत्य तत्र देवं प्रपूजयेत् ॥
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम् ॥ १९ ॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ॥
सम्पूर्णमथ वाऽध्यायमेकश्लोकमथाऽपि वा ॥ 2.4.36.२० ॥
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने ॥
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः ॥ २१ ॥
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि ॥
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः ॥ २२ ॥
पुराणज्ञः शुचिर्दक्षः शान्तो विगतमत्सरः ॥
साधुः कारुणिको वाग्ग्मी वदेत्पुण्यां कथां सुधीः ॥ २३॥
व्यासासनं समारूढो यदा पौराणिको भवेत् ॥
आसमाप्तेः प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥ २४ ॥
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ॥२५॥
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा ॥
वाग्यताः शुचयो दक्षाः श्रोतारः पुण्यभागिनः ॥ २६ ॥
अभक्ता ये कथां पुण्यां शृण्वन्ति मनुजाऽधमाः ॥
तेषां पुण्यफलं नाऽस्ति दुःखं स्याजन्मजन्मनि ॥ २७ ॥
पौराणिकं च मासान्ते पूजयेद्भक्तितत्परः ॥
गन्धमाल्यैस्तथा वस्त्रैरलङ्कारैर्धनेन च ॥ २८ ॥
शृण्वन्ति च कथां भक्त्या न दरिद्रा न पापिनः ॥ २९ ॥
कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः ॥
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ॥ 2.4.36.३० ॥
उच्चासनसमारूढो न नरः प्रणतो भवेत् ॥
विषवृक्षस्तथा स्वापे वने चाऽजगरो भवेत् ॥ ३१ ॥
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये नराः ॥
कोट्यब्दनरकान्भुक्त्वा भवन्ति ग्रामसूकराः ॥ ३२ ॥
ये श्रावयन्ति मनुजाः कथां पौराणिकीं शुभाम् ॥
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे ॥ ३३ ॥
आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः ॥
कम्बलाजिनवासांसि मञ्चं फलकमेव वा ॥ ३४ ॥
परिधानीयवस्त्राणि प्रयच्छन्ति च ये नराः ॥
भूषणादि प्रयच्छन्ति वसेयुर्ब्रह्मसद्मनि ॥ ३५ ॥
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥
अतः सन्तोषयेद्भक्त्या भक्तिश्रद्धान्वितः पुमान् ॥
तस्य पुण्यफलं पूर्णं भवत्येव न संशयः ॥ ३६ ॥
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥
सकृत्पुराणश्रवणात्तत्फलं विन्दते नरः ॥३७॥
कलौ युगे विशेषेण पुराणश्रवणादृते ॥
नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ॥
पुराणश्रवणाद्विष्णोर्नास्ति सङ्कीर्तनात्परम् ॥ ३८ ॥
य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि ॥
स तीर्थराज बदरीगमनस्य फलं लभेत् ॥ ३९ ॥
सर्वरोगापहं सर्वपापनाशकरं शुभम् ॥ 2.4.36.४० ॥
श्रुत्वा चैकपदे यो वै अगम्यागमने रतः ॥
कन्यास्वस्रोर्विक्रयिणमुभयं तु विमोचयेत् ॥ ४१ ॥
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ॥
गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः ॥ ४२ ॥
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ॥
पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ॥
पुराणविद्यादातारो ह्यनन्तफलभोगिनः ॥ ॥ ४३ ॥
इदं यः पठते भक्त्या श्रुत्वा चैवाऽवधारयेत् ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ४४ ॥
न कस्याऽपीदमाख्येयं श्रद्धाहीनाय दुर्मतेः ॥ ४५ ॥
अपूजयित्वा गुरुमग्रबुद्ध्या धर्मप्रवक्तारमनन्यबुद्धिः ॥
भुक्त्वा तु भोगान्नरकेषु चैव ततो हि जन्मान्तर दुःखभोगी ॥ ४६ ॥
तस्मात्सम्पूजयेद्भक्त्या गुरुं तत्त्वावबोधकम् ॥
माहात्म्यस्य च लेशोऽयं तव चोक्तो मयाऽनघ ॥ ४७ ॥
न शक्यते हि सम्पूर्णं वक्तुं वर्षशतैरपि ॥
पुरा कैलासशिखरे पार्वत्यै प्रोक्तवाञ्च्छिवः ॥ ४८ ॥
कार्तिकस्य तु माहात्म्यं यावद्वर्षशतं वदन् ॥
तथापि नान्तमगमदशक्तो विरराम ह ॥ ४९ ॥
पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत् ॥
किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात् ॥ 2.4.36.५० ॥
॥ सूत उवाच ॥ ॥
इत्युक्तो ब्रह्मणा चैव नारदः प्रेमनिर्भरः ॥
भूयोभूयो नमस्कृत्य ययौ यादृच्छिको मुनिः ॥ ५१ ॥
कथितं शङ्करेणाऽपि पुत्राय हितकाम्यया ॥
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ॥ ५२ ॥
कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः ॥
कथितस्तेन सन्तुष्टा सत्या व्रतमथाऽकरोत् ॥५३॥
ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम् ॥
ऊर्जव्रतपरा जातास्तस्मादूर्जोऽतिवल्लभः ॥ ५४ ॥
अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम् ॥
नाऽनेन सदृशं शास्त्रं विष्णुप्रीतिकरं शुभम् ॥ ५५ ॥
॥ व्यास उवाच ॥ ॥
इत्युक्त्वा तानृषीन्सर्वान्सूतो वै धर्मवित्तमः ॥
विरराम ततस्ते तु पूजां चक्रुस्तदास्य च ॥ ५६ ॥
ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः ॥
यथा सूतेनोपदिष्टं तथा चक्रुर्व्रतं शुभम् ॥ ५७ ॥
अनेन विधिना ये वै कुर्वन्ति कार्तिकव्रतम् ॥
ते सर्वपापनिर्मुक्ता गच्छन्ति विष्णुमन्दिरम् ॥ ५८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये पुष्करिणीसञ्ज्ञिकान्तिमतिथित्रयमाहात्म्यकथनपूर्वकपुराण श्रवणमहिमवर्णनन्नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥