॥ ब्रह्मोवाच ॥ ॥
वैकुण्ठाख्यचतुर्दश्या माहात्म्यं ते वदाम्यहम् ॥
वालखिल्यैः पुरा प्रोक्तं सङ्क्षेपेण शृणुष्व तत् ॥ १ ॥
॥ वालखिल्या ऊचुः ॥ ॥
कार्तिकस्य सिते पक्षे चतुर्दश्यां समागमत् ॥
वैकुण्ठेशस्तु वैकुण्ठाद्वाराणस्यां कृते युगे ॥ २ ॥
रात्र्यां तुर्यांशशेषायां स्नात्वाऽसौ मणिकर्णिके ॥
गृहीत्वा हेमपद्मानां सहस्रं वै ततोऽव्रजत् ॥ ३ ॥
अतिभक्त्या पूजयितुं शिवया सहितं शिवम् ॥
विधाय पूजां वैश्वेशीं ततः पद्मैरपूजयत् ॥ ४ ॥
सहस्रसङ्ख्यां कृत्वादावेकनाम्ना ततः परम् ॥
आरब्धं पूजनं तेन शिवस्तद्भक्तिमैक्षत ॥ ५ ॥
एकं पद्मं पद्ममध्यान्निलीयाऽऽत्तं हरेण तु ॥
ततः पूजितवान्विष्णुरेकोनं कमलं त्वभूत् ॥ ६ ॥
इतस्ततस्तेन दृष्टं पद्मं तिष्ठति न क्वचित् ॥
कमलेषु भ्रमो जातोऽथवा नामसु मे भ्रमः ॥ ७ ॥
क्षणं विचार्य स हरिर्न मे नामभ्रमोऽभवत् ॥
पद्मे चैव भ्रमो जातो विचार्यैवं पुनःपुनः ॥ ८ ॥
सहस्रपद्मसङ्कल्पः पूजार्थं तु कृतो मया ॥
अर्च्यः कथं महादेव एकोनकमलैर्मया ॥ ९ ॥
यद्यानेतुं गमिष्यामि भङ्गः स्यादासनस्य तु ॥
अतः परं किं विधेयं चिन्तोद्विग्नो हरिस्तदा ॥ 2.4.35.१० ॥
एकः प्रकार उत्पन्नो हृदयेऽस्य मुनीश्वराः ॥
पुण्डरीकाक्ष इत्येवं मां वदन्ति मुनीश्वराः ॥ ११ ॥
नेत्रं मे पद्मसदृशे पद्मार्थे त्वर्पयाम्यहम् ॥
इति निश्चित्य मनसा दत्त्वा तर्जनिकां स तु ॥ १२ ॥
नेत्रमध्यात्तदुत्पाट्य महादेवस्तु पूजितः ॥
ततो महेश्वरस्तुष्टो वाक्यमेतदुवाच ह ॥ १३ ॥
॥ महादेव उवाच ॥ ॥
त्वत्समो नास्ति मद्भक्तस्त्रैलोक्ये सचराचरे ॥
राज्यं दत्तं त्रिलोक्यास्ते भव त्वं लोकपालकः ॥ १४ ॥
अन्यं वरय भद्रं ते वरं यन्मनसेप्सितम् ॥
अवश्यमेव दास्यामि नात्र कार्या विचारणा ॥ १५ ॥
मद्भक्तिं तु समालम्ब्य ये द्विषन्ति जनार्दनम् ॥
ते मद्द्वेष्या नरा विष्णो व्रजेयुर्नरकं ध्रुवम् ॥ १६ ॥
॥ ॥ विष्णुरुवाच ॥ ॥
त्रैलोक्यरक्षाकरणं ममादिष्टं महेश्वर ॥
दुमर्दाश्च महासत्त्वा दैत्या मार्याः कथं मया ॥१७॥।
॥ शिव उवाच ॥ ॥
एतत्सुदर्शनं चक्रं महादैत्यनिकृन्तनम् ॥
गृहाण भगवन्विष्णो मया तुभ्य निवेदितम् ॥१८॥
अनेन सर्वदैत्यानां भगवन्कदनं कुरु ॥
एवं चक्रं हरेर्दत्त्वा ततो वचनमब्रवीत् ॥ १९ ॥
॥ शिव उवाच ॥ ॥
वर्षे च हेमलम्बाख्ये मासे श्रीमति कार्तिके ॥
शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति ॥2.4.35.२०॥
महादेवतिथौ ब्राह्मे मुहूर्ते मणिकर्णिके ॥
स्नात्वा वैश्वेश्वरं लिङ्गं वैकुण्ठादेत्य पूजितम्॥२१॥
सहस्रकमलैस्तस्माद्भविष्यति मम प्रिया ॥
विख्याता सर्वलोकेषु वैकुण्ठाख्या चतुर्दशी ॥२२॥
अन्यं वरं प्रयच्छामि शृणु विष्णो वचो मम ॥
पूर्वरात्रेषु ते पूजा कर्तव्या सर्वजातिभिः ॥२३॥
उपवासं दिवा कुर्यात्सायङ्काले तवार्चनम् ॥
पश्चान्ममार्चनं कार्यमन्यथा निष्फलं भवेत् ॥ २४ ॥
ग्राह्या तु हरिपूजायां रात्रिव्याप्ता चतुर्दशी ॥
अरुणोदयवेलायां शिवपूजां समाचरेत् ॥ २५ ॥
सहस्रकमलैर्विष्णुरादौ यैः पूजितो नरैः॥
पश्चाच्छिवः पूजितश्चेज्जीवन्मुक्तास्त एव हि ॥ २६ ॥
सायं स्नात्वा पञ्चनदे बिन्दुमाधवमर्चयेत् ॥
स्नात्वा यो विष्णुकाञ्च्यां वाऽनन्तसेनं समर्चयेत् ॥ २७ ॥
रुद्रकाञ्च्यां ततः स्नात्वा प्रणवेशं समर्चयेत् ॥
आदौ स्नात्वा वह्नितीर्थे यजेन्नारायणं ततः ॥ २८ ॥
रेतोदके ततः स्नात्वा केदारेशं समर्चयेत् ॥
आदौ स्नात्वा सूर्यपुत्र्यां वेणीमाधवमर्चयेत् ॥ २९ ॥
जाह्नव्यां च ततः स्नात्वा सङ्गमेशं प्रपूजयेत् ॥
सर्वाः श्रियस्तस्य वश्याः सत्यं विष्णो मयोदितम् ॥ 2.4.35.३० ॥
एवं तस्मै वरान्दत्त्वा ह्यन्तर्धानं ययौ शिवः ॥
तस्मात्सर्वप्रयत्नेन पूज्यौ हरिहरावुभौ ॥ ३१ ॥
कलौ दशसहस्राणि विष्णुस्त्यजति मेदिनीम् ॥
तदर्द्धं जाह्नवीतोयं तदर्द्धं ग्रामदेवताः ॥ ३२ ॥
कार्तिक्यां पूर्णिमायां तु कुर्यात्त्रैपुरमुत्सवम् ॥
दीपो देयोऽवश्यमेव सायङ्काले शिवालये ॥ ३३ ॥ *
त्रिपुरो नाम दैत्येन्द्रः प्रयागे तप आस्थितः ॥
तपसा तस्य सन्तुष्टो ददौ ब्रह्मा वरं परम्॥ ३४ ॥
देवासुरमनुष्येभ्यो न ते मृत्युर्भविष्यति ॥
इति लब्धवरो दैत्यो विश्वकर्मविनिर्मितम् ॥ ३५ ॥
त्रिपुराख्यं विमानं तमारुह्य भुवनत्रयम् ॥
यदा वै पीडयामास तदा देवैः स्तुतो हरः ॥ ३६ ॥
त्रिपुरं घातयामास बाणेनैकेन शत्रुहा ॥
कार्तिक्यां पूर्णिमायां तु सर्वे देवाः प्रतुष्टुवुः ॥ ३७ ॥
तस्मिन्दिने सर्वदेवैर्दीपा दत्ता हराय च ॥
सर्वथैव प्रदेयाश्च दीपास्तु हरतुष्टये ॥ ३८ ॥
विंशतिः सप्तशतकाः सहिता दीपवर्तयः ॥
ददद्दीपं पूर्णिमायां सर्वपापैः प्रमुच्यते ॥ ३९ ॥
पौर्णमास्यां तु सन्ध्यायां कर्तव्यस्त्रिपुरोत्सवः ॥
दद्यादनेन मन्त्रेण प्रदीपांश्च सुरालये ॥ 2.4.35.४० ॥
कीटाः पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः ॥
दृष्ट्वा प्रदीपं न च जन्मभागिनो भवन्तु नित्यं श्वपचा हि विप्राः ॥ ४१ ॥
कार्यस्तस्मात्पौर्णमास्यां त्रिपुराय महोत्सवः ॥
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ॥ ॥ ४२ ॥
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥
अत्र कृत्वा वृषोत्सर्गं नक्ताच्छैवपुरं व्रजेत् ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वैकुण्ठचतुर्दशी त्रिपुरीपूर्णिमाव्रतविधानकथनन्नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥