॥ नारद उवाच ॥ ॥
व्रतानामपि सर्वेषां ब्रह्मन्नुद्यापनं श्रुतम् ॥
अभावे तूद्यापनस्य फलं नैवाऽऽप्नुयात्क्वचित् ॥ १ ॥
कृतव्रतफलाप्त्यर्थं कुर्यादुद्यापनं बुधः ॥
अन्यथा निष्फलं याति कृतं व्रतमनुत्तमम् ॥ २ ॥
कार्तिकेऽपि कृतं देव व्रतानामुत्तमं व्रतम् ॥
न तस्योद्यापनाऽभावे व्रतोक्तफलमाप्नुयात् ॥ ३ ॥
तस्मात्कार्तिकमासस्य चोद्यापनविधिं प्रभो ॥
वद मे शिष्यवर्याय प्रपन्नायाऽनुवर्तिने ॥ ४ ॥
॥ ब्रह्मोवाच ॥ ॥
अथोर्जोद्यापनं वक्ष्ये सर्वपापप्रणाशनम् ॥
तच्छृणुष्व महाभक्त्या सविधानं समासतः ॥ ५ ॥
ऊर्जे शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती॥
व्रतसम्पूरणार्थाय विष्णुप्रीत्यर्थहेतवे ॥ ६ ॥
तुलस्या उपरिष्टात्तु कुर्यान्मण्डपिकां शुभाम्॥
कदलीस्तम्भसंयुक्तां नानाधातुविचित्रिताम् ॥७॥
दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना ॥
सुतोरणाश्चतुर्द्वारः पुष्पचामरशोभिताः॥८॥
द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान्पृथक् ॥
जयश्च विजयश्चैव चण्डश्चैव प्रचण्डकः ॥ ९ ॥
नन्दश्चैव सुनन्दश्च कुमुदः कुमुदाक्षकः ॥
एतांश्चतुर्षु द्वारेषु पूजयेद्भक्तिसंयुतः ॥ 2.4.34.१० ॥
तुलसीमूलदेशे तु सर्वतोभद्रसञ्ज्ञितम् ॥
चतुर्भिर्वर्णकैः सम्यक्छोभाढ्यं समलङ्कृतम् ॥ ११ ॥
तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम् ॥
तत्र सम्पूजयेद्देवं शङ्खचक्रगदाधरम् ॥ १२ ॥
कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत् ॥
इन्द्रादिलोकपालांश्च मण्डपे पूजयेद्व्रती ॥ ॥ १३ ॥
तस्यामुपवसेद्भक्त्या शान्तः प्रणतमानसः ॥
रात्रौ जागरणं कुर्याद्गीतवाद्यादिमङ्गलैः ॥ १४ ॥
गीतं कुर्वन्ति ये भक्त्या जागरे चक्रपाणिनः ॥
जन्मान्तरशतोद्भूतैस्ते मुक्ताः पापसञ्चयैः ॥१५॥
ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान् ॥
त्रिंशन्मितानथैकं वा ब्राह्मणांश्च निमन्त्रयेत् ॥ १६ ॥
प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च ॥
स्थण्डिले च ततः कृत्वा समाधायाऽग्निमत्र हि ॥ १७ ॥
अतो देवेति मन्त्रेण जुहुयात्तिलपायसम् ॥
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् ॥ १८ ॥
होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः ॥
ब्राह्मणेभ्यो यथाशक्त्या प्रदद्याद्दक्षिणां नरः ॥ १९ ॥
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ॥
सवत्सां गां तथा दद्याद्विप्राय च कुटुम्बिने ॥ 2.4.34.२० ॥
गुरुं व्रतोपदेष्टारं वस्त्रालङ्कारभूषणैः ॥
सपत्नीकं समभ्यर्च्य तांश्च विप्रान्क्षमापयेत् ॥ २१ ॥
युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम ॥
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ॥ २२ ॥
तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु सन्ततिः ॥
मनोरथास्तु सफलाः सन्तु भक्तिर्हरौ भवेत् ॥ २३ ॥
सतां समागमो भूयान्मम जन्मनिजन्मनि ॥
इति क्षमाप्य तान्विप्रान्प्रसाद्य च विसर्जयेत् ॥ २४ ॥
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुङ्गव ॥
ततः सुहृद्गुरुयुतः स्वयं भुञ्जीत भक्तिमान् ॥ २५ ॥
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः ॥
दृष्टोर्च्चितश्चतुर्दश्यां तस्मात्पूज्यस्तिथाविह ॥ २६ ॥
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ॥
पराऽत्र पौर्णमास्यां तु यात्रा स्यात्पुष्करस्य तु ॥ २७ ॥
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः ॥
तस्यां दत्तं हुतं जप्तं तदक्षय्यफलं भवेत् ॥ २८ ॥
कार्तिके मासि कर्तव्यो विधिरेष हि नारद ॥
एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः ॥ २९ ॥
यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके ॥
ते धन्यास्ते सदा पूज्यास्तेषां वै सफलोदयः ॥ 2.4.34.३० ॥
विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः ॥
देहस्थितानि पापानि विलयं यान्ति तत्क्षणात् ॥ ३१ ॥
क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः ॥
इति सर्वाणि पापानि रटन्तीह पुनःपुनः ॥ ३२ ॥
तस्मात्कार्तिकमासस्य सदृशं नहि विद्यते ॥
सर्वपापस्य दहने अग्नेः सदृश उच्यते ॥३३॥
ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयाऽन्वितः ॥
श्रावयेद्वा पुमान्यस्तु विष्णुसायुज्यमाप्नुयात् ॥ ३४ ॥
॥ नारद उवाच ॥ ॥
ऊर्जे व्रतोद्यापनादावशक्तः सिद्धिभाक्कथम् ॥
कथं विमुच्यते जन्तुर्दुःखसंसारसागरात् ॥ ३५ ॥
॥ ॥ ब्रह्मोवाच ॥ ॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ॥
उद्यापनफलं प्राप्य विष्णुलोके वसेच्च सः ॥ ३६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये व्रतोद्यापनविधिकथनन्नाम चतुऽस्त्रिंशोऽध्यायः ॥ ३४ ॥ ॥