॥ वालखिल्या ऊचुः ॥ ॥
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः ॥
एकादश्यां तु गृह्णीयाद्व्रतं पञ्चदिनात्मकम् ॥ १ ॥
शरपञ्जरसुप्तेन भीष्मेण तु महात्मना ॥
राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम् ॥
कथिता पाण्डुदायादैः कृष्णेनाऽपि श्रुतास्तदा ॥ २ ॥
ततः प्रीतेन मनसा वासुदेवेन भाषितम् ॥
धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया ॥ ३ ॥
एकादश्यां कार्तिकस्य याचितं च जलं त्वया ॥
अर्जुनेन समानीतं गाङ्गं बाणस्य वेगतः ॥ ४ ॥
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि ॥
पूर्णान्तं सर्वलोकास्त्वां तर्पयन्त्वर्घ्यदानतः ॥ ५ ॥
तस्मात्सर्वप्रयत्नेन मम सन्तुष्टिकारकम् ॥
एतद्व्रतं प्रकुर्वन्तु भीष्मपञ्चकसञ्ज्ञितम् ॥ ६ ॥
कार्तिकस्य व्रतं कृत्वा न कुर्याद्भीष्मपञ्चकम् ॥
समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति ॥ ७ ॥
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके ॥
भीष्मस्य पञ्चकं कृत्वा कार्तिकस्य फलं लभेत् ॥ ८ ॥
सत्यव्रताय शुचये गाङ्गेयाय महात्मने ॥
भीष्मायैतद्ददाम्यर्घ्यमाजन्मब्रह्मचारिणे ॥ ॥ ९ ॥
सव्येनाऽनेन मन्त्रेण तर्पणं सार्ववर्णिकम् ॥ 2.4.32.१० ॥
व्रताङ्गत्वात्पूर्णिमायां प्रदेयः पापपूरुषः ॥
अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम् ॥ ११ ॥
यः पुत्रार्थं व्रतं कुर्यात्सस्त्रीको भीष्मपञ्चकम् ॥
प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत् ॥ १२ ॥
अवश्यमेव कर्तव्यं तस्माद्भीष्मस्य पञ्चकम् ॥
विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम् ॥ १३ ॥
॥ सूत उवाच ॥ ॥
शृण्वन्तु ऋषयः सर्वे विशेषो भीष्मपञ्चके ॥
कार्तिकेयाय रुद्रेण पुरा प्रोक्तः सविस्तरात् ॥ १४ ॥
॥ ईश्वर उवाच ॥ ॥
प्रवक्ष्यामि महापुण्यं व्रतं व्रतवतां वर ॥
भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम् ॥ १५ ॥
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् ॥
व्रतस्याऽस्य गुणान्वक्तुं कः शक्तः केशवादृते ॥ ॥ १६ ॥
कार्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम् ॥
वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ॥ १७ ॥
अम्बरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु ॥
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ॥ १८ ॥
क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः ॥
दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ॥१९॥
दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः ॥
यस्मात्करोति विप्रेन्द्र तेन सर्वं कृतं भवेत् ॥ 2.4.32.२० ॥
व्रतं चैतन्महापुण्यं महापातकनाशनम् ॥
अतो नरैः प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ॥ २१ ॥
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्विधानतः ॥
एकादश्यां तु गृह्णीयाद्व्रतं पञ्चदिनात्मकम् ॥ २२ ॥
प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती ॥
नद्यां निर्झरतोये वा समालभ्य च गोमयम् ॥ २३ ॥
यवव्रीहितिलैः सम्यक्पितॄन्सन्तर्पयेत्क्रमात् ॥
स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ॥ २४ ॥
भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः ॥
पूजा भीष्मस्य कर्तव्या दानं दद्यात्प्रयत्नतः ॥ २५ ॥
पञ्चरत्नं विशेषेण दत्त्वा विप्राय यत्नतः ॥
वासुदेवोऽपि सम्पूज्यो लक्ष्मीयुक्तः सदा प्रभुः ॥ २६ ॥
पञ्चके पूजयित्वा तु कोटिजन्मानि तुष्यति ॥ २७ ॥
यत्किञ्चिद्ददते मर्त्यः पञ्चधातुप्रकल्पितम् ॥
संवत्सरव्रतानां स लभते सकलं फलम् ॥ ॥ २८ ॥
कृत्वा तूदकदानं तु तथाऽर्घ्यस्य च दापनम् ॥
मन्त्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ॥ २९ ॥
वैयाघ्रपादगोत्राय साङ्कृत्य प्रवराय च ॥
अनपत्याय भीष्माय उदकं भीष्मवर्मणे ॥ 2.4.32.३० ॥
वसूनामवताराय शन्तनोरात्मजाय च ॥
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ॥ ३१ ॥
॥ इत्यर्घ्यमन्त्रः ॥ ॥
अनेन विधिना यस्तु पञ्चकं तु समापयेत् ॥
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ॥ ३२ ॥
पञ्चाऽहमपि कर्तव्यं नियमं च प्रयत्नतः ॥
नियमेन विना यत्र न भाव्यं वरवर्णिना॥ ३३ ॥
उत्तरायणहीनाय भीष्माय प्रददौ हरिः ॥
उत्तरायणहीनेऽपि शुद्धलग्नं सुतोषितः ॥ ३४ ॥
ततः सम्पूजयेद्देवं सर्वपापहरं हरिम्॥
अनन्तरं प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ॥ ३५ ॥
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च ॥
तथैव पञ्चगव्येन गन्धचन्दनवारिणा ॥ ३६ ॥
चन्दनेन सुगन्धेन कुमकुमेनाऽथ केशवम्॥
कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ॥ ३७ ॥
अर्चयेद्रुचिरैः पुष्पैर्गन्धधूपसमन्वितैः ॥
गुग्गुलुं घृतसंयुक्तं ददेत्कृष्णाय भक्तिमान् ॥ ३८ ॥
दीपकं तु दिवा रात्रौ दद्यात्पञ्च दिनानि तु ॥
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्॥ ३९ ॥
एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ॥
ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ॥ 2.4.32.४० ॥
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ॥
षडक्षरेण मन्त्रेण स्वाहाकाराऽन्वितेन च ॥ ४१ ॥
उपास्य पश्चिमां सन्ध्यां प्रणम्य गरुडध्वजम् ॥
जपित्वा पूर्ववन्मन्त्रं क्षितिशायी भवेत्सदा ॥४२॥
सर्वमेतद्विधानं तु कार्यं पञ्च दिनानि तु ॥
विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ॥ ४३ ॥
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती ॥
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ॥४४॥
ततोऽनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः ॥
कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ॥ ४५ ॥
अर्चित्वा तं हृषीकेशमेकादश्यां समासतः ॥
निःप्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ॥ ४६ ॥
गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती ॥
क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ॥ ४७ ॥
सम्प्राश्य कायशुद्ध्यर्थं लङ्घयित्वा चतुर्दिनम् ॥
पञ्चमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ॥
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्॥ ४८ ॥
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ॥
मद्यं मांसं परित्याज्यं मैथुनं पापकारणम् ॥ ४९ ॥
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ॥
ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम् ॥ 2.4.32.५० ॥
एवं सम्यक्समाप्यं स्याद्यथोक्तं फलमाप्नुयात् ॥ ५१ ॥
मद्यपो यः पिबेन्मद्यं जन्मनो मरणांऽतिकम् ॥
एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ॥ ५२ ॥
स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं धर्मवर्धनम् ॥
विधवाभिश्च कर्तव्यं मोक्षसौख्याऽतिवृद्धये ॥ ५३ ॥
अयोध्यायां पुरा कश्चिदतिथिर्नाम वै नृपः ॥
वसिष्ठवचनात्कृत्वा व्रतमेतत्सुदुर्लभम् ॥
भुक्त्वेह निखिलान्भोगानन्ते विष्णुपुरं ययौ ॥ ५४ ॥
इत्थं कुर्याद्व्रतं नित्यं पञ्चकं भीष्मसञ्ज्ञितम् ॥
नियमेनोपवासेन पञ्चगव्येन वा पुनः ॥
पयोमूलफलाऽऽहारैर्हविष्यैर्व्रततत्परः ॥ ५५ ॥
पौर्णमासीदिने प्राप्ते पूजां कृत्वा तु पूर्ववत् ॥
ब्राह्मणान्भोजयेद्भक्त्या गां च दद्यात्सवत्सकाम् ॥ ५६ ॥
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृति पञ्चदशीनिरुद्धम् ॥
उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्म पञ्चकव्रतमाहात्म्यवर्णनन्नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥