०३० मासोपवासव्रतविधिकथनम्

॥ नारद उवाच ॥ ॥
अद्भुतोऽयं त्वया प्रोक्तो महिमा कार्तिकस्य तु ॥
स्वस्य कर्तुमसामर्थ्यं कथमेतत्कृतं भवेत् ॥ १ ॥
॥ ब्रह्मोवाच ॥ ॥
नास्ति कर्तुं स्वसामर्थ्यमुपायात्प्राप्यते फलम् ॥
द्रव्यं दत्त्वा ब्राह्मणाय गृह्णीयात्फलमुत्तमम् ॥ २ ॥
शिष्याद्वा भृत्यवर्गाद्वा स्त्रीभ्यो वाऽऽप्ताच्च कारयेत् ॥
तस्मादपि फलं गृह्णन्फलभाग्जायते नरः ॥ ३ ॥
॥ नारद उवाच ॥ ॥
अदत्तान्यपि पुण्यानि प्राप्यन्ते केनचित्क्वचित् ॥
एतदिच्छाम्यहं श्रोतुं कौतुकं मम वर्तते ॥ ४ ॥
॥ ब्रह्मोवाच ॥ ॥
अदत्तान्यपि पुण्यानि लभन्ते पातकान्यपि ॥
येनोपायेन तद्वच्मि शृणुष्वैकमना द्विज ॥ ५ ॥
सुकृतं वा दुष्कृतं वा कृतमेकेन यत्कृते ॥
जायते तस्य तद्राष्ट्रे त्रेतायां तु पुरो भवेत् ॥ ६ ॥
द्वापरे वंशमध्ये तु कलौ कर्तैव केवलम्॥
आज्ञानाद्यत्कृतं कर्म बाल्ये स्वप्ने तु तत्फलम् ॥ ७ ॥
अज्ञानाद्यच्च तारुण्ये बाल्ये तस्य फलं भवेत् ॥
ज्ञानपूर्वं कृतं कर्म आजन्मान्तं च तत्फलम् ॥ ८ ॥
षण्मासं पापिसङ्गेन नरः पापी प्रजायते ॥
पापिनां वा धर्मिणां वा संसर्गाद्दशमासिकम् ॥ ९ ॥
भोजनादेकपङ्क्तौ च विंशांशः पुण्यपापयोः ॥
एकासने द्वयोर्वासात्सहस्रांशेन लिप्यते ॥ 2.4.30.१० ॥
यो वै यस्यान्नमश्नाति स भुङ्क्ते तस्य किल्बिषम् ॥
जपादौ पापिसंसर्गात्षोडशांऽशो विनश्यति ॥ ११ ॥
परस्य स्तवनाद्यानादेकपात्रस्थभोजनात् ॥
एकशय्याप्रावरणात्षष्ठांशः पुण्यपापयोः ॥ १२ ॥
पुरुषो हरते सर्वं भार्याया औरसस्य च ॥
अर्द्धं शिष्याच्चतुर्थांशं पापं पुण्यं तथैव च ॥ १३ ॥
भर्तुराज्ञाकरी नारी भर्तुरर्द्धं वृषं हरेत् ॥
यद्धस्तपक्वं भुजीयाद्दशांशं तदघं हरेत् ॥ १४ ॥
वर्षाऽशनं तु यो दत्ते तदर्द्धाघस्य भागयम् ॥
वर्षाशनार्द्धं पुण्यं तु भुङ्क्ते वर्षाशनी नरः ॥ १५ ॥
पुरोहितस्य षष्ठांशं पापं वा पुण्यमेव वा ॥
यजमानो भुनक्त्येव तद्दशांशं पुरोहितः ॥ १६ ॥
उद्योगी चानुमन्ता च यश्चोपकरणप्रदः ॥
षष्ठांशं पुण्यपापानामुपद्रष्टा दशांशकम् ॥ १७ ॥
यद्धस्तात्कार्यते कर्म नान्नमस्मै प्रयच्छति ॥
विना भृतकशिष्याभ्यां षष्ठांशं पुण्यमाहरेत्॥ १८ ॥
व्यवहारात्तथा प्रीत्या नित्यं सम्भाषणादिभिः ॥
दशांशं पुण्यपापानां लभते नात्र संशयः ॥ १९ ॥
संसर्गपुण्ययोगेन एकदन्तो द्विजाधमः ॥
नरकान्विविधान्दृष्ट्वा स्वर्गं प्राप तदैव हि ॥ 2.4.30.२० ॥
॥ ॥ नारद उवाच ॥ ॥
ईदृशं कार्तिकव्रतमल्पायासं महत्फलम् ॥
न कुर्वन्ति जनाः केचित्किमर्थं वै पितामह ॥ २१ ॥
॥ ब्रह्मोवाच ॥ ॥
स्वसृष्टिवृद्धये वेधा धर्माऽधर्मौ ससर्ज ह ॥
धर्ममेवाऽनुतिष्ठन्तः प्राप्नुवन्ति शुभां गतिम् ॥ २२ ॥
अधर्ममनुतिष्ठन्तो यान्ति तेऽधोगतिं नराः ॥
पुण्यकर्मफलं नाको नरकस्तद्विपर्ययः ॥ २३ ॥
तयोः पालनकर्तारौ द्वावेव विधिना कृतौ ॥
शतक्रतुयमौ तौ च पुण्यपापानुसारिणौ ॥ २४ ॥
गुरुतल्पादयः पुत्राः कामस्य प्रथिता भुवि ॥
क्रोधस्य पितृघाताद्या लोभस्य तनयाञ्छृणु ॥ २५ ॥
ब्रह्मस्वहरणाद्याश्च एते नरकनायकाः ॥
कृता यमेन तैर्व्याप्ता मनुजा न हि कुर्वते ॥ २६ ॥
व्रतादिधर्मकृत्यं यैस्तैर्मुक्तास्ते हि कुर्वते ॥ २७ ॥
श्रद्धा मेधा विघातिन्यौ वर्तेते भुवि सर्वदा ॥
ताभ्यां व्याप्तस्तु मनुजः श्रीविष्णोः श्रवणादिकम् ॥ २८ ॥
न करोति सुदुर्मेधा येनान्धं याति वै तमः ॥
कृष्णेन सत्यभामायै यदुक्तं तद्वदामि ते ॥ २९ ॥
अध्यापनाद्याजनाद्वाऽप्येकपङ्क्त्यशनादपि ॥
तुर्याम्श पुण्यपापानां परोक्षं लभते नरः ॥ 2.4.30.३० ॥
एकासनादेकयानान्निश्वासस्याङ्गसङ्गतः ॥
षडंशं फलभागी स्यान्नियतं पुण्यपापयोः ॥ ३१ ॥
स्पर्शनाद्भाषणाद्वाऽपि परस्य स्तवनादपि ॥
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः ॥ ३२ ॥
दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च ॥
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः ॥ ३३ ॥
परस्य निन्दां पैशुन्यं धिक्कारं च करोति यः ॥
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः ॥ ३४ ॥
कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः ॥
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः ॥ ३५ ॥
तस्य सेवाऽनुरूपं च द्रव्यं किञ्चिन्न दीयते ॥
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत् ॥ ३६ ॥
एकपङ्क्तिस्थितं यस्तु लङ्घयेत्परिवेषणम् ॥
तत्पुण्यस्य षडंशं च लभेद्यस्तु विलङ्घितः ॥ ३७ ॥
स्नानसन्ध्यादिकं कुर्वन्यः स्पृशेद्वाऽथ भाषते ॥
स कर्मपुण्यषष्ठांशं दद्यात्तस्मै विनिश्चितम् ॥ ३८ ॥
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः ॥
तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम् ॥ ३९ ॥
अपहृत्य परद्रव्यं पुण्यकर्म करोति यः ॥
कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम् ॥ 2.4.30.४० ॥
नापकृत्य ऋणं यस्तु परस्य म्रियते नरः ॥
धनी तत्पुण्यमादत्ते तद्धनस्याऽनुरूपतः ॥ ४१ ॥
बुद्धिदाताऽनुमन्ता च यश्चोपकरणप्रदः ॥
बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः ॥ ४२ ॥
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ॥
शिष्याद्गुरुः स्त्रियो भर्ता पिता पुत्रात्तथैव च ॥ ४३ ॥
स्वपतेरपि पुण्यस्य योषिदर्धमवाप्नुयात् ॥
चित्तस्याऽनुव्रता शश्वद्वर्तते तुष्टिकारिणी ॥ ४४ ॥
परहस्तेन दानादि कुर्वतः पुण्यकर्मणः ॥
विना भृतकपुत्राभ्यां कर्ता षष्ठांशमुद्धरेत् ॥४५॥
वृत्तिदो वृत्तिसम्भोक्तुः पुण्यं षष्ठांशमुद्धरेत् ॥
आत्मनो वा परस्याऽपि यदि सेवां न कारयेत् ॥ ॥ ४६ ॥
इत्थं ह्यदत्तान्यपि पुण्यपापान्यायान्ति नित्यं परसञ्चितानि ॥
कलौ त्वयं वै नियमो न कार्यः कर्तैव भोक्ता खलु पुण्यपापयोः ॥ ॥ ४७ ॥
कलौ ज्ञानं दृढं नास्ति कलौ गर्वेण सत्क्रिया ॥
कलौ दम्भाऽन्वितो योगो नश्यत्येव न संशयः ॥४८॥
तपोनिष्ठः पुरा दम्भी सती शुद्धप्रभावतः ॥
पित्रोः पूजादर्शनेन चोर्जसेवी परं गतः ॥ ४९ ॥**
॥ ॥ नारद उवाच ॥ ॥
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ॥
विधिं मासोपवासस्य फलं चास्य यथोचितम् ॥2.4.30.५० ॥
॥ ॥ ब्रह्मोवाच ॥ ॥
साधु नारद सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ॥
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥ ५१ ॥
सुराणां च यथा विष्णुस्तपतां च यथा रविः ॥
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥ ५२ ॥
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ॥ ५३ ॥
सर्वदानोद्भवं चैव यज्ञैश्च भूरिदक्षिणैः ॥
न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनात् ॥ ५४ ॥
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥
अतिकृच्छ्रं च पाराकं कृत्वा चान्द्रायणं ततः ॥ ५५ ॥
मासोपवासं कुर्वीत ज्ञात्वा देहबलाऽबलम् ॥
वानप्रस्थो यतिर्वापि नारी वा विधवा मुने ॥ ५६ ॥
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ॥
आश्विनस्याऽमले पक्षे एकादश्यामुपोषितः ॥ ५७ ॥
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥
अच्युतस्याऽऽलये भक्त्या त्रिकालं पूजयेद्धरिम् ॥ ५८ ॥
नैवेद्यधूपदीपाद्यैः पुष्पैर्नानाविधैरपि ॥
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ॥ ५९ ॥
नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया ॥
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥ 2.4.30.६० ॥
वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम् ॥
अन्यस्य वर्जयेद्वासं ग्रासानां सम्प्रमोक्षणम् ॥६१॥
गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनम् ॥
व्रतस्थो वर्जयेत्सर्वं यच्चाऽन्यच्च निराकृतम् ॥ ६२ ॥
न व्रतस्थः स्पृशेत्कञ्चिद्विकर्मस्थं न चालपेत्॥
देवतायतने तिष्ठन्गृहस्थश्चाऽऽचरेद्व्रतम् ॥६३॥
कृत्वा मासोपवासं तु यथोक्तविधिना नरः ॥
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति ॥ ॥ ६४ ॥
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ॥
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥६५॥
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्॥
विप्रान्क्षमापयित्वा तुविसृज्याऽभ्यर्च्य पूज्य च ॥ ६६ ॥
एवं मासोपवासान्ते वृत्वा विप्रांस्त्रयोदश ॥
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥ ६७ ॥
ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ॥
ताम्बूलवस्त्रयुग्मानि भोजनाऽऽच्छादनानि च ॥ ६८ ॥
योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा ॥
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा विसर्जयेत् ॥ ६९ ॥
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥
अतःपरं प्रवक्ष्यामि नवम्यादितिथौ विधि ॥ 2.4.30.७० ॥
ऋषिभ्यो वालखिल्यैश्च प्रोक्तं तं शृणु नारद ॥ ७१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये दत्तपुण्यपापफलप्राप्तिवर्णनपूर्वक मासोपवासव्रतविधिकथनन्नाम त्रिंशोऽध्यायः ॥ ३० ॥