०२९ धनेश्वरयक्षजन्मप्राप्तिवर्णनम्

॥ श्रीकृष्ण उवाच ॥
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः ॥
सम्पूज्य नारदं सम्यग्विससर्ज तदा प्रिये ॥१॥
पुराऽवन्तीपुरे कश्चिद्विप्र आसीद्धनेश्वरः ॥
ब्रह्मकर्मपरिभ्रष्टः पापकर्मा सुदुर्मतिः ॥२॥
देशाद्देशातरं गच्छन्क्रयविक्रयकारणात् ॥
माहिष्मतीपुरीमागात्कदाचित्स धनेश्वरः॥३॥
महिषेण कृता पूर्वं तस्मान्माहिष्मतीति सा ॥
यस्या वप्रगता भाति नर्मदा पापनाशिनी ॥ ४ ॥
कार्तिकव्रतिनस्तत्र नानादेशाऽऽगतान्नरान् ॥
स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास सः ॥ ५ ॥
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् ॥
ददर्श ब्राह्मणान्स्नानजपदेवार्चने स्थितान् ॥ ॥ ६ ॥
कांश्चित्पुराणं पठतः कांश्चिच्च श्रवणे रतान् ॥
नृत्यगायनवादित्रविष्णुश्रवणतत्परान् ॥७॥
उद्यापनविधौ सक्तान्कांश्चिज्जागरणे रतान् ॥
विप्रगोपूजनरतान्दीपदानरतांस्तथा ॥ ८ ॥
ददर्श कौतुकाविष्टस्तत्रतत्र धनेश्वरः ॥
नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात् ॥ ९ ॥
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ॥
एवं मासं स्थितस्तस्या नर्मदायास्तटे द्विजः ॥ 2.4.29.१० ॥
तावत्कृष्णाऽहिना दष्टो विह्वलः स पपात ह ॥
अथ देहपरित्यक्तं तं वद्ध्वा यमकिङ्कराः ॥ ११ ॥
यमाज्ञया कुम्भिपाके चिक्षिपुस्तं धनेश्वरम् ॥
यावत्क्षिप्तश्च तत्रासौ तावच्छीतलतां ययौ ॥ ॥ १२ ॥
कुम्भीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा ॥
यमस्तु कौतुकं दृष्ट्वा पप्रच्छानीय तं ततः ॥ १३ ॥
तावदभ्यागतस्तत्र नारदः प्राह सत्वरम् ॥
॥ नारद उवाच ॥ ॥
नैवाऽयं निरयान्भोक्तुमर्हो ह्यरुणनन्दन ॥ १४ ॥
यस्मादन्तेऽस्य सञ्जातं कर्म यन्निरयापहम् ॥
यः पुण्यकर्मिणां कुर्याद्दर्शनस्पर्शभाषणम् ॥ १५ ॥
ततः षडंशमाप्नोति पुण्यस्य नियतं नरः ॥
सख्यं तु तैस्तु संसर्गं कृतवान्वै धनेश्वरः ॥ १६ ॥
कार्तिकव्रतिभिर्मासं तेषां पुण्यांशभागयम् ॥ १७ ॥
तस्मादकामपुण्यो हि यक्षयोनिस्थितो ह्ययम् ॥
विलोक्य निरयान्सर्वान्पापभोगप्रदर्शकान् ॥ १८ ॥
॥ ॥ श्रीकृष्ण उवाच॥ ॥
इत्युक्त्वा गतवति नारदे स सौरिस्तद्वाक्यश्रवणविबुद्धतत्सुकर्मा॥
तं विप्रं पुनरनयत्स्वकिङ्करेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ॥ १९ ॥
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् ॥
दर्शयिष्यंस्तु तान्सर्वान्यमानुज्ञाकरस्तदा ॥ 2.4.29.२० ॥
॥ प्रेतप उवाच ॥ ॥
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् ॥
एषु पापकरा नित्यं पच्यन्ते यमकिङ्करैः ॥२१॥
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ॥
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् ॥ २२ ॥
चतुराशीतिसङ्ख्याकैः पृथग्भेदैरवस्थितान् ॥
यत्प्रकीर्णमपाङ्क्तेयं मलिनीकरणं तथा ॥ २३ ॥
जातिभ्रंशकरं तद्वदुपपातकसञ्ज्ञकम् ॥
अतिपापं महापापं सप्तधा पातकं स्मृतम् ॥ २४ ॥
एभिः सप्तसु पच्यन्ते निरयेषु यथाक्रमम् ॥
कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव ॥ २५ ॥
तत्पुण्योपचयादेते निर्हृता निरयाः खलु ॥
श्रीकृष्ण उवाच ॥ ॥
दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत् ॥ २६ ॥
धनेश्वरं यक्षलोकं यक्षश्चाऽभूत्स तत्र हि ॥
धनदस्याऽनुगः सोऽयं धनयक्षेति विश्रुतः ॥ २७ ॥
॥ सूत उवाच ॥ ॥
इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियम् ॥
सायंसन्ध्याविधिं कर्तुं जगाम जननीगृहम् ॥ २८ ॥
॥ ब्रह्मोवाच ॥ ॥
एवम्प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो भुक्तिकरश्च यस्मात् ॥
प्रयान्त्यनेकाऽर्जितपातकानि व्रतस्य सन्दर्शयतोऽपि मुक्तिम् ॥ २९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धनेश्वरयक्षजन्मप्राप्तिवर्णनन्नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥