॥ धर्मदत्त उवाच ॥ ॥
जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया ॥
किं नु ताभ्यां पुरा चीर्णं तस्मात्तद्रूपधारिणौ ॥ १ ॥
॥ ॥ गणावूचतुः ॥ ॥
तृणबिन्दोस्तु कन्यायां देवहूत्यां पुरा द्विज ॥
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ सम्बभूवतुः ॥ २ ॥
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः ॥
तस्यामेवाऽभवत्पश्चात्कपिलो योगधर्मवित् ॥ ३ ॥
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ॥
तौ तन्निष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः ॥ ४ ॥
नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ ॥
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ॥ ५ ॥
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ॥
जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ ॥ ६ ॥
जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत् ॥
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ॥ ७ ॥
मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ॥
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ॥ ८ ॥
यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी ॥
तद्धनं विभजन्तौ तु पस्पर्धाते परस्परम् ॥ ९ ॥
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ॥
विजयश्चाब्रवीन्नैतद्यल्लब्धं येन तस्य तत् ॥ 2.4.28.१० ॥
ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम् ॥
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ॥ ॥ ११ ॥
विजयस्तस्य तं शापं श्रुत्वा सोप्यशपच्च तम् ॥
मदभ्रान्तोऽशपस्त्वं मां तस्मान्मातङ्गतां व्रज ॥ १२ ॥
तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ॥
शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम् ॥ १३ ॥
॥ जयविजयावूचतुः ॥ ॥
भक्तावावां कथं देव ग्राहमातङ्गयोनिगौ ॥
भविष्यावः कृपासिन्धो तच्छापो विनिवर्त्यताम् ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ॥
मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन ॥ १५ ॥
प्रह्लादवचसा स्तम्भेऽप्याविर्भूतो ह्यहं पुरा ॥
तथांऽबरीषवाक्येन जातो गर्भे स्वयं किल ॥ १६ ॥
तस्माद्युवामिमौ शापावनुऽभूय स्वयङ्कृतौ ॥
लभेथां मत्पदं नित्यमित्युक्त्वांऽतर्दधे हरिः ॥ १७ ॥ ॥
॥ गणावूचतुः ॥ ॥
ततस्तौ ग्राहमातङ्गावभूतां गण्डकीतटे ॥
जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ ॥ १८ ॥
कदाचित्स गजः स्नातुं कार्तिके गण्डकीं गतः ॥
तावज्जग्राह तं ग्राहः संस्मरञ्च्छापकारणम् ॥ १९ ॥
ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा ॥
तावदाविरभूद्विष्णुश्चक्रशङ्खगदाधरः ॥ 2.4.28.२० ॥
ततस्तौ ग्राहमातङ्गौ चक्रं क्षिप्त्वा समुद्धृतौ ॥
दत्त्वैव निजसारूप्यं वैकुण्ठमनयद्विभुः ॥ २१ ॥
ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम् ॥
चक्रसङ्घर्षणाद्यस्मिन्ग्रावाणोऽपि हि लाञ्छिताः ॥ २२ ॥
तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा ॥
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज ॥ २३ ॥
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ॥
त्यक्तमात्सर्यदम्भोऽपि भवस्व समदर्शनः ॥ ॥ २४ ॥
तुलामकरमेषेषु प्रातःस्नायी सदा भव ॥
एकादशीव्रते तिष्ठ तुलसीवनपालकः ॥ २५ ॥
ब्राह्मणानथ गाश्चाऽपि वैष्णवांश्च सदा भज ॥
मसूरिकामारनालं वृन्ताकान्यपि खाद मा ॥ २६ ॥
एवं त्वमपि देहान्ते तद्विष्णोः परमं पदम् ॥
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ॥ २७ ॥
तावज्जन्म व्रतादस्माद्विष्णुसन्तुष्टिकारकात् ॥
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ॥ २८ ॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ॥
यदर्धभागाऽऽप्तफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् ॥ २९ ॥
॥ नारद उवाच ॥ ॥
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ॥
तया कलहया सार्द्धं वैकुण्ठभवनं गतौ ॥ 2.4.28.३० ॥
धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः ॥
देहांऽते तद्विभोः स्थानं भार्याभ्यां संयुतोऽभ्ययात् ॥ ३१ ॥
इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान् ॥
हरिसन्निधिकारणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ॥ ३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तमोक्षप्राप्तिकथनन्नामाऽष्टाविंशोऽध्यायः ॥ २८ ॥