॥ नारद उवाच ॥ ॥
कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विज ॥
स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः ॥ १ ॥
तमदृष्ट्वाऽप्यसौ पाकं पुनर्नैवाऽकरोत्तदा ॥
सायङ्कालाऽर्चनस्याऽसौ व्रतभङ्गभयाद्द्विजः ॥ २ ॥
द्वितीयेऽह्नि पुनः पाकं कृत्वा यावत्स विष्णवे ॥
उपहारार्पणं कर्तुं गतः कोऽप्यहरत्पुनः ॥ ३ ॥
एवं सप्तदिनं तस्य पाकं कोऽप्यहरन्नृप ॥
ततः सविस्मयश्चाथ मनस्येवमधारयत् ॥ ४ ॥
अहो नित्यं समभ्येत्य कः पाकं हरते मम ॥
क्षेत्रसन्न्यासिनः स्थानं न त्याज्यं मम सर्वथा ॥ ५ ॥
पुनः पाकं विधायाऽत्र भुज्यते यदि चेन्मया ॥
सायङ्कालाऽर्चनं चैव परित्याज्यं कथं भवेत्॥६॥
यदि पाकं विधायैवं भोक्तव्यं तु मया न तत्॥
अनिवेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते॥ ७ ॥
उपोषितोऽहं सप्ताऽहं तिष्ठाम्यत्र व्रतस्थितः ॥
अद्यसंरक्षणं सम्यक्पाकस्याऽत्र करोम्यहम् ॥ ८ ॥
इति पाकं विधायाऽसौ तत्रैवाऽलक्षितः स्थितः ॥
तावद्ददर्श चण्डालं पाकान्नहरणे स्थितम् ॥९॥
क्षुत्क्षामं दीनवदनमस्थिचर्माऽवशेषितम् ॥
तमालोक्य द्विजाग्र्योऽभूत्कृपयाऽन्वितमानसः ॥2.4.27.१०॥
विलोक्याऽन्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत॥
कथमश्नासि तद्रूक्षं घृतमेतद्गृहाण भोः॥११॥
इत्थं वदन्तं विप्राग्र्यमायान्तं स विलोक्य च ॥
वेगादधावत्तद्भीत्या मृर्च्छितश्च पपात ह ॥१२॥
भीतं सम्मूर्च्छितं दृष्ट्वा चण्डालं स द्विजाग्रणीः ॥
वेगादभ्येत्य कृपया स्ववस्त्रान्तैरवीजयत् ॥ १३ ॥
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् ॥
साक्षान्नारायणं देवं शङ्खचक्रगदाधरम् ॥॥ १४ ॥
तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः ॥
स्तोतुं चैव नमस्कर्तुं तदा नाऽलं बभूव सः ॥ १५ ॥
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा ॥
गन्धर्वाप्सरसश्चाऽपि जगुश्च ननृतुर्मुदा ॥ १६ ॥
विमानशतसङ्कीर्णं देवर्षिशतसङ्कुलम् ॥
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ॥ ॥ १७ ॥
ततो विष्णुः समालिङ्ग्य स्वभक्तं सात्त्विकव्रतम् ॥
सारूप्यमात्मनो दत्त्वाऽनयद्वैकुण्ठमन्दिरम् ॥ १८ ॥
विमानवरसंस्थं तं गच्छन्तं विष्णुसन्निधिम् ॥
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श सः ॥ १९ ॥
वैकुण्ठभुवनं यान्तं विष्णुदासं विलोक्य सः ॥
स्वगुरुं मुद्गलं वेगादाहूयेत्थं वचोऽब्रवीत् ॥ 2.4.27.२० ॥
॥ चोल उवाच ॥ ॥
यत्स्पर्द्धया मया चैव यज्ञदानादिकं कृतम् ॥
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमन्दिरम् ॥ ॥ २१ ॥
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया ॥
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः ॥ २२ ॥
नैवाऽद्यापि स मे देवः प्रसन्नो जायते ध्रुवम् ॥
विष्णुदासस्य भक्त्यैव साक्षात्कारं ददौ हरिः ॥ २३ ॥
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ॥
भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥ २४ ॥
॥ गणावूचतुः ॥ ॥
इत्युक्त्वा भागिनेयं स्वमभ्यषिञ्चन्नृपासने ॥
आबाल्याद्दीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः॥ २५ ॥
तस्मादद्याऽपि तद्देशे सदा राज्यांऽशभागिनः ॥
स्वस्रेया एव जायन्ते तत्कृतावधिवर्तिनः ॥ २६ ॥
यज्ञवाटं ततोऽभ्येत्य यज्ञकुण्डाग्रतः स्थितः ॥
त्रिरुच्चैर्व्याजहाराऽऽशु विष्णुं सम्बोधयंस्तदा ॥ २७ ॥
विष्णो भक्तिं स्थिरां देहि मनोवाक्काय कर्मभिः ॥
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥ २८ ॥
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम् ॥
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखा बभुः ॥ २९ ॥
तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः ॥
तमालिङ्ग्य विमानाग्र्यं समारोहयदच्युतः ॥ 2.4.27.३० ॥
तमालिङ्ग्याऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमन्दिरम्॥
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ॥ ३१ ॥
॥ नारद उवाच ॥ ॥
यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा ॥
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥ ३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलविष्णुदासमुक्तिकथनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥