॥ धर्मदत्त उवाच ॥ ॥
विलयं यान्ति पापानि तीर्थे दानव्रतादिभिः ॥
प्रेतदेहस्थितायास्ते तेषु नैवाऽधिकारिता ॥ १ ॥
त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम् ॥
न वै निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् ॥ २ ॥
तस्मादाजन्मचरितं यन्मया कार्तिकव्रतम् ॥
तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि ॥ ३ ॥
॥ नारद उवाच ॥
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत् ॥
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ॥ ४ ॥
तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा ॥
दिव्यरूपधरा जाता लावण्येन यथेन्दिरा ॥ ५ ॥
ततः सा दण्डवद्भूमौ प्रणनामाथ तं द्विजम् ॥
उवाच सा तदा वाक्यैर्हर्षगद्गदभाषिणी ॥ ६ ॥
॥ ॥ कलहोवाच ॥ ॥
त्वत्प्रसादाद्द्विजश्रेष्ठ विमुक्ता निरयादहम् ॥
पापाब्धौ मज्जमानायास्त्वं नौभूतोऽसि मे ध्रुवम् ॥ ७ ॥
॥ नारद उवाच ॥ ॥
इत्थं वदन्ती सा विप्रं ददर्शाऽऽयातमम्बरात् ॥
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः ॥ ८ ॥
अथ सा तद्विमानाऽग्र्यं द्वाःस्थाभ्यामवरोपिता ॥
पुण्यशीलसुशीलाभ्यामप्सरोगणसेविता ॥ ९ ॥
तद्विमानं तदाऽपश्यद्धर्मदत्तः सविस्मयः॥
पपात दण्डवद्भूमौ दृष्ट्वा तौ विष्णुरूपिणौ ॥ 2.4.25.१० ॥
पुण्यशीलसुशीलौ च तमुत्थाप्याऽऽनतं द्विजम् ॥
अभिनन्द्य ततो वाक्यमूचतुर्धर्मसंयुतम् ॥ ११ ॥
॥ गणावूचतुः ॥ ॥
साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा ॥
दीनाऽनुकम्पी सर्वज्ञो विष्णुव्रतपरायणः ॥१२॥
आ बालत्वाच्छुभं त्वेतद्यत्त्वया कार्तिकव्रतम् ॥
कृतं तस्याऽर्द्धदानेन पुण्यं द्वैगुण्यमागमत्॥१३॥
जन्मान्तरशतोद्भूतं पापं तद्विलयं गतम्॥
स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम् ॥१४॥
हरिजागरणाद्यैश्च विमानमिदमास्थिता॥
वैकुण्ठे नीयते साधो नानाभोगयुता त्वियम् ॥१५॥
दीपदानभवैः पुण्यैस्तेजःसारूप्यमास्थिता ॥
तुलसीपूजनाद्यैश्च कार्तिकव्रतकैः शुभैः ॥
विष्णुसान्निध्यगा जाता त्वया दत्तैः कृपानिधे ॥१६॥
त्वमप्यस्य भवस्यान्ते भार्याभ्यां सह यास्यसि ॥
वैकुण्ठ भुवनं विष्णोः सान्निध्यं च सरूपताम् ॥ १७ ॥
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः॥
यैर्भक्त्याराधितो विष्णुर्धर्मदत्त यथा त्वया ॥ ॥ १८ ॥
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् ॥
औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा ॥ १९॥
यन्नामस्मरणादेव देहिनो यान्ति सद्गतिम् ॥ 2.4.25.२० ॥
ग्राहग्रस्तो हि नागेन्द्रो यन्नामस्मरणात्पुरा ॥
विमुक्तः सन्निधिं प्राप्तो जातोऽयं जयसञ्ज्ञकः ॥ २१ ॥
यतस्त्वयाऽर्चितो विष्णुस्तत्सान्निध्यं प्रयास्यसि ॥
बहून्यब्दसहस्राणि भार्याद्वययुतः किल ॥ २२ ॥
ततः पुण्यक्षयेजाते यदा यास्यसि भूतलम् ॥
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि ॥ २३ ॥
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः ॥
तृतीययाऽनया चाऽपि या ते पुण्यार्द्धभागिनी ॥ २४ ॥
तत्राऽपि तव सान्निध्यं विष्णुर्यास्यति भूतले ॥
आत्मानं तव पुत्रत्वे प्रकल्प्याऽमरकार्यकृत् ॥ २५ ॥
तव जन्मव्रतादस्माद्विष्णुसन्तुष्टिकारकात् ॥
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ॥ २६ ॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः॥
यदर्धभागात्सफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम्॥२७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तोपाख्याने कलहामोक्षकथनन्नाम पञ्चविंशोऽध्यायः ॥ २५ ॥