०२३ धात्रीतुलस्युत्पत्तिवर्णनम्

॥ नारद उवाच ॥ ॥
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ॥
धात्री च मालती चैव तुलसी च नृपोत्तम ॥ १ ॥
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ॥
गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः ॥ २ ॥
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ॥
उत्तस्थौ सम्भ्रमाद्वृन्दा रूपातिशयविभ्रमः ॥३॥
दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा ॥
तं चाऽपि तुलसीधात्र्यौ रागेणैव व्यलोकताम्॥४॥
यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम् ॥
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराऽभवत् ॥ ५ ॥
अतः सा बर्बरीत्याख्यामवापाऽध विगर्हिताम् ॥
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ॥ ६ ॥
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ॥
वैकुण्ठमगमद्धृष्टः सर्वदेव नमस्कृतः ॥ ७ ॥
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ॥
तुलसीमूलदेशेऽस्य प्रीतिदा सा यतः स्मृता ॥ ८ ॥
तुलसीकाननं राजन्गृहे यस्याऽवतिष्ठते ॥
तद्गृहं तीर्थरूपं तु नाऽऽयान्ति यमकिङ्कराः ॥ ९ ॥
सर्वपापहरं नित्यं कामदं तुलसीवनम् ॥
रोपयन्ति नराः श्रेष्ठास्ते न पश्यन्ति भास्करिम् ॥ 2.4.23.१० ॥
दर्शनं नर्मदायास्तु गङ्गास्नानं तथैव च ॥
तुलसीवनसंसर्गः सममेव त्रयं स्मृतम् ॥ ११ ॥
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ॥
तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ १२ ॥
तुलसीमञ्जरीभिर्यः कुर्याद्धरिहराऽर्चनम् ॥
न स गर्भगृहं याति मुक्तिभागी न संशयः ॥ १३ ॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥
वासुदेवादयो देवास्तिष्ठन्ति तुलसीदले ॥ १४ ॥
तुलसीमञ्जरीयुक्तो यस्तु प्राणान्विमुञ्चति ॥
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि ॥ १५ ॥
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम ॥
तुलसीकाष्ठजं यस्तु चन्दनं धारयेन्नरः ॥ १६ ॥
तद्देहं न स्पृशेत्पापं क्रियमाणमपीह यत् ॥
तुलसीविपिनच्छाया यत्रयत्र भवेन्नृप ॥ १७ ॥
तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम् ॥
धात्रीफलविमिश्रैश्च तुलसीपत्रमिश्रितैः ॥ १८ ॥
जलैः स्नाति नरस्तस्य गङ्गास्नानफलं स्मृतम् ॥
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैस्तथा ॥ १९ ॥
सुवर्णमणिमुक्तौघैरर्चनस्याप्नुयात्फलम् ॥
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ॥ ॥ 2.4.23.२० ॥
नित्यं धात्रीं समाश्रित्य तिष्ठन्त्यर्के तुलास्थिते ॥
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके ॥ २१ ॥
लुनाति स नरो गच्छेन्निरयानतिगर्हितान्॥
धात्रीतुलस्योर्माहात्म्यमपि देवश्चतुर्मुखः ॥
न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः ॥ २२ ॥
धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या ॥
विधूतपाप्मा सह पूर्वजैः स्वैः स्वर्गं व्रजत्यग्र्यविमानसंस्थैः ॥२३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीतुलस्युत्पत्तिवर्णनन्नाम त्रयोविंशोऽध्यायः॥ २३ ॥