॥ नारद उवाच ॥ ॥
विष्णुर्जलन्धरं गत्वा तद्दैत्यपुटभेदनम् ॥
पातिव्रत्यस्य भङ्गाय वृन्दायाश्चाऽकरोन्मतिम् ॥ १ ॥
अथ वृन्दारका देवी स्वप्नमध्ये ददर्श ह ॥
भर्तारं महिषाऽऽरूढं तैलाभ्यक्तं दिगम्म्बरम् ॥ २॥
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ॥
दक्षिणाशागतं मुण्डं तमसाप्याऽऽवृतं तदा ॥ ३ ॥
स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह ॥
ततः प्रबुद्धा सा बाला तत्स्वप्नं प्रविचिन्वती ॥ ४ ॥
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ॥
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ॥ ५ ॥
कुत्रचिन्नाऽलभच्छर्म गोपुराट्टालभूमिषु ॥
ततः सखीद्वययुता नगरोद्यानमागमत् ॥ ६ ॥
तत्राऽपि साऽभ्रमद्बाला नाऽलभत्कुत्रचित्सुखम् ॥
वनाद्वनान्तरं याता नैव वेदात्मनस्तदा ॥ ७ ॥
ततः सा भ्रमती बाला ददर्शाऽतीवभीषणौ ॥
राक्षसौ सिंहवदनौ दंष्ट्राऽऽननविभीषणौ ॥ ८ ॥
तौ दृष्ट्वा विह्वलाऽतीव पलायनपराऽभवत् ॥
ददर्श तापसं शान्तं सशिष्यं मौनमास्थितम् ॥ ९ ॥
ततस्तत्कण्ठमावृत्य निजां बाहुलतां भयात् ॥
मुने मां रक्ष शरणमागताऽस्मीत्यभाषत ॥ 2.4.21.१० ॥
मुनिस्तां विह्वलां दृष्ट्वा राक्षसाऽनुगतां तदा ॥
हुङ्कारेणैव तौ घोरौ चकार विमुखौ रुषा ॥ ११ ॥
तौ हुङ्कारभयत्रस्तौ दृष्ट्वा च विमुखौ गतौ ॥
प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत् ॥ १२ ॥
॥ वृन्दोवाच ॥ ॥
रक्षिताहं त्वया घोराद्भयादस्मात्कृपानिधे ॥
किञ्चिद्विप्तुमिच्छामि कृपया तन्निशामय ॥ १३ ॥
जलन्धरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ॥
स तत्राऽस्ते कथं युद्धे तन्मे कथय सुव्रत ॥ १४ ॥
॥ नारद उवाच ॥ ॥
मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ॥
तावत्कपी समायातौ प्रणम्य चाग्रतः स्थितौ ॥ १५ ॥
ततस्तद्भ्रूलतासञ्ज्ञानियुक्तौ गगनं गतौ ॥
गत्वा क्षणार्द्धादागत्य प्रणतावग्रतः स्थितौ ॥
शिरःकबन्धे हस्तौ च गृहीत्वा समुपस्थितौ ॥ १६ ॥
शिरःकबन्धे हस्तौ च दृष्ट्वाऽब्धितनयस्य सा ॥
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ॥ १७ ॥
कमण्डलूदकैः सिक्त्वा मुनिनाऽऽश्वासिता तदा ॥
स्वभर्तृभाले सा भालं कृत्वा दीना रुरोद ह ॥ १८ ॥
॥ वृन्दोवाच ॥ ॥
यः पुरा सुखसंवादे विनोदयसि मां प्रभो ॥
स कथं न वदस्यद्य वल्लभा मामनागसम् ॥ १९ ॥
येन देवाः सगन्धर्वा निर्जिता विष्णुना सह ॥
स कथं तापसेनाऽद्य त्रैलोक्यविजयी हतः ॥ 2.4.21.२० ॥
॥ नारद उवाच ॥ ॥
रुदित्वेति तदा वृन्दा तं मुनिं वाक्यमब्रवीत् ॥
॥ वृन्दोवाच ॥ ॥
कृपानिधे मुनिश्रेष्ठ जीवयैनं मम प्रियम् ॥२१॥
त्वमेवास्य मुने शक्तो जीवनाय मतो मम
॥ नारद उवाच ॥ ॥
इति तद्वाक्यमाकर्ण्य प्रहसन्मुनिरब्रवीत् ॥ २२ ॥
॥ मुनिरुवाच ॥ ॥
नाऽयं जीवयितुं शक्तो रुद्रेण निहतो युधि ॥
तथाऽपि त्वत्कृपाविष्ट एनं सञ्जीवयाम्यहम् ॥ २३ ॥
॥ नारद उवाच ॥ ॥
इत्युक्त्वान्तर्दधे विप्रस्तावत्सागरनन्दनः ॥
वृन्दामालिङ्ग्य तद्वक्त्रं चुचुम्ब प्रीतमानसः ॥ २४ ॥
अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा ॥
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् ॥ २५ ॥
कदाचित्सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव च ॥
निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥ २६ ॥
॥ वृन्दोवाच ॥ ॥
धिक्त्वदीयं हरे शीलं परदाराभिगामिनः ॥
ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः ॥ २७ ॥
यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम ॥
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः ॥२८॥
त्वं चाऽपि भार्यादुःखार्तो वने कपिसहायवान् ॥
भ्रम सर्पेश्वरेणाऽयं यस्ते शिष्यत्वमागतः ॥ २९॥
इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् ॥
विष्णुना वार्यमाणाऽपि तस्यामासक्तचेतसा ॥2.4.21.३०॥
ततो हरिस्तामनुसंस्मरन्मुहुर्वृन्दान्वितोभस्मरजोवगुण्ठितः ॥
तत्रैव तस्थौ सुरसिद्धसङ्घैः प्रबोध्यमानोऽपि ययौ न शान्तिम् ॥३१॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरोपाख्याने वृन्दाग्निप्रवेशवर्णनन्नामैकविंशोऽध्यायः ॥ २१ ॥*