॥ ॥ नारद उवाच ॥ ॥
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ॥
अगमंस्ते रणं हित्वा क्रोशमाना महेश्वरम् ॥ १ ॥
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ॥
अभ्ययाद्वृषभारूढः सङ्ग्रामं प्रहसन्निव ॥ २ ॥
रुद्रमायान्तमालोक्य सिंहनादैर्गणाः पुनः ॥
निवृत्ताः सङ्गरे दैत्यान्निर्जघ्नुः शरवृष्टिभिः ॥ ३ ॥
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः ॥
कार्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात् ॥४॥
जलन्धरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य सङ्गरे ॥
रोषादधावच्चण्डीशं मुञ्चन्बाणान्सहस्रशः ॥ ५ ॥
शुम्भो निशुम्भोऽश्वमुखः कालनेमिर्बलाहकः ॥
खड्गरोमा प्रचण्डश्च घस्मराद्याः शिवं ययुः ॥ ६ ॥
बाणान्धकारसञ्छन्नं दृष्ट्वा गणबलं शिवः ॥
बाणजालमवाच्छिद्य स्वबाणैरावृणोन्नभः ॥ ७ ॥
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥
प्रचण्डबाणजालौघैरपातयत भूतले ॥ ८ ॥
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत् ॥
बलाहकस्य च शिरः खट्वाङ्गेनाऽकरोद्द्विधा ॥ ९ ॥
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ॥
वृषभेण हताः केचित्केचिद्बाणैर्निपातिताः ॥ 2.4.20.१० ॥
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव ॥
ततः क्रोधपरीतात्मा वेगाद्रुद्रं जलन्धरः ॥११॥
आह्वयामास समरे तीव्राशनिसमस्वनः ॥
॥ जलन्धर उवाच ॥ ॥
युध्यस्व च मया सार्द्धं किमेभिर्निहितैस्तव ॥ १२ ॥
यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम् ॥ १३ ॥
तान्प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव॥
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद शक्तिभिः॥१४॥
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ॥
अभ्यधावच्छिवस्तावद्गदां बाणैर्द्विधाऽच्छिनत् ॥१५॥
तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया ॥
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः॥१६॥
ततो जलन्धरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥
ससर्ज मायां गान्धर्वीमद्भुतां रुद्रमोहिनीम् ॥ १७ ॥
ततो जगुश्च ननृतुर्गन्धर्वाप्सरसां गणाः ॥
तालवेणुमृदङ्गाद्यान्वादयन्ति स्म चाऽपरे ॥ १८ ॥
तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ॥
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ॥ ॥१९॥
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलन्धरः ॥
कामार्तः स जगामाशु यत्र गौरी स्थिताऽभवत् ॥2.4.20.२०॥
युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबली ॥
दशदोर्दण्डपचास्यस्त्रिनेत्रश्च जटाधरः ॥२१॥
महावृषभमारूढः स बभूव जलन्धरः ॥
अथो रुद्रं समायान्तमालोक्य भववल्लभा॥२२॥
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥
यावद्ददर्श चार्वङ्गी पार्वती दनुजेश्वरः ॥ २३ ॥
तावत्स्ववीर्यं मुमुचे जडाङ्गश्चाऽभवत्तदा ॥
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ॥ २४ ॥
जगामाऽन्तर्हिता वेगात्सा तदोत्तरमानसे ॥
तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव ॥ २५ ॥
जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः ॥
पार्वत्यपि भयाद्विष्णुं सस्मार मनसा तदा ॥ २६ ॥
तावद्ददर्श तं देवं सूपविष्टं समीपगम् ॥
॥ पार्वत्युवाच॥ ॥
विष्णो जलन्धरो दैत्यः कृतवान्परमाद्भुतम् ॥२७॥
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥
॥ विष्णुरुवाच ॥ ॥
तेनैव दर्शितः पन्था वयमप्यन्वयामहे ॥ २८ ॥
नाऽन्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षित्ः ॥
॥ नारद उवाच ॥ ॥
जगाम विष्णुरित्युक्त्वा पुनर्जालन्धरं पुरम् ॥ २९ ॥
अथ रुद्रश्च गन्धर्वाऽनुगतः सङ्गरे स्थितः ॥
अन्तर्धानं गतां मायां दृष्ट्वा स बुबुधे तदा ॥ 2.4.20.३० ॥
ततो भवो विस्मितमानसः पुनर्जगाम युद्धाय जलन्धरं रुषा ॥
स चाऽपि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ॥ ३१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरोपाख्याने शिवजलन्धरयुद्धवर्णनन्नाम विंशोऽध्यायः ॥२०॥