०१९ वीरभद्रपतन

॥ नारद उवाच ॥ ॥
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान् ॥
अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः ॥ १ ॥
नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा ॥
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः ॥ २ ॥
निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः ॥
हृदि विव्याध वेगेन मूर्च्छितः स पपात च ॥ ३ ॥
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ॥
तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत् ॥ ४ ॥
नन्दीश्वरः शरव्रातैः कालनेमिमवध्यत ॥
सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत् ॥ ५ ॥
कालनेमिस्तु सङ्क्रुद्धो धनुश्चिच्छेद नन्दिनः ॥
तदपास्य स शूलेन तं वक्षस्यहनद्बली ॥ ६ ॥
स शूलभिन्नहृदयो हताश्वो हतसारथिः ॥
अद्रेः शिखरमामुच्य शैलादिं सोऽप्यपातयत् ॥७ ॥
अथ शुम्भो गणेशश्च रथमूषकवाहनौ ॥
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ ८ ॥
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ॥
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ ९ ॥
ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् ॥
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥ 2.4.19.१० ॥
मूषकः शरभिन्नाङ्गश्चचाल दृढवेदनः ॥
लम्बोदरश्च पतितः पदातिरभवन्नृप ॥ ११ ॥
ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि ॥
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ॥ १२ ॥
कालनेमिर्निशुम्भश्चाऽप्युभौ लम्बोदरं शरैः ॥
युगपज्जघ्नतुः क्रोधात्तोत्रैरिव महाद्विपम् ॥ १३ ॥
तं पीडयमानमालोक्य वीरभद्रो महाबलः ॥
अभ्यधावत वेगेन भूतकोटियुतस्तदा ॥ १४ ॥
कूष्माण्डभैरवाश्चाऽपि वेताला योगिनीगणाः ॥
पिशाचयोगिनीसङ्घा गणाश्चाऽपि तमन्वयुः ॥ १५ ॥
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः ॥
भेरीतालमृदङ्गैश्च पृथिवी समकम्पत ॥ १६ ॥
ततो भूतान्यधावन्त भक्षयन्तिस्म दानवान्॥
उत्पतन्त्यापतन्ति स्म ननृतुश्च रणाङ्गणे ॥ १७ ॥
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ ॥
निजघ्नतू रणे दैत्यान्निरन्तरशरव्रजैः ॥ १८ ॥
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा ॥
व्याकुला साऽभवत्सेना विषण्णवदना तदा ॥ १९ ॥
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनन्दनः ॥
रथेनाऽतिपताकेन गणानभिययौ बली ॥ 2.4.19.२० ॥
हस्त्यश्वरथसंह्रादाः शङ्खभेरीस्वनास्तथा ॥
अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा ॥ २१ ॥
जलन्धरशरव्रातैर्नीहारपटलैरिव ॥
द्यावापृथिव्योराच्छिन्नमन्तरं समपद्यत ॥ २२ ॥
गणेशं पञ्चभिर्विद्ध्वा शैलादिं नवभिः शरैः ॥
वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ २३ ॥
कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः ॥
युयुधे शक्तिनिर्भिन्नः किञ्चिद्व्याकुलमानसः ॥ २४ ॥
ततः क्रोधपरीताक्षः कार्तिकेयं जलन्धरः ॥
गदया ताडयामास स च भूमितलेऽपतत् ॥ २५ ॥
तथैव नन्दिनं वेगादपातयत भूतले ॥
ततो गणेश्वरः क्रुद्धो गदां परशुनाऽहनत् ॥ २६ ॥
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ॥
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥ २७ ॥
ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम् ॥
गणेशं पातयामास रथं चाऽन्यमथाऽऽरुहत् ॥२८॥
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ॥
ततस्तौ सूर्यसङ्काशौ युयुधाते परस्परम् ॥ २९ ॥
वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् ॥
धनुश्चिच्छेद दैत्येन्द्रः पुप्लुवे परिघायुधः ॥ 2.4.19.३० ॥
स वीरभद्रं त्वरयाऽभिगम्य जघान दैत्यः परिघेण मूर्ध्नि ॥
स चाऽपि वीरः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन्॥ ३१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरोपाख्याने वीरभद्रपतननामैकोनविंशोऽध्यायः ॥ १९ ॥