०१८ रुद्रसेनापराभवः

॥ नारद उवाच ॥ ॥
जलन्धरस्तु तच्छुत्वा कोपाकुलितविग्रहः ॥
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः ॥ १ ॥
गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत् ॥
मुकुटश्चाऽपतद्भूमौ वेगात्प्रस्खलितस्तदा ॥ २॥
दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा ॥
व्यराजत नभःपूर्णं प्रावृषीव यथा घनैः ॥ ॥ ३ ॥
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ॥
अलक्षितास्तदा जग्मुः शूलिनं तं व्यजिज्ञपुः ॥ ४ ॥
॥ देवा ऊचुः ॥ ॥
न जानासि कथं स्वामिन्देवापत्तिमिमां विभो ॥
तदस्मद्रक्षणार्थाय जहि सागरनन्दनम् ॥ ५ ॥
॥ नारद उवाच ॥
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः॥
महाविष्णुं समाहूय वचनं चेदमब्रवीत्॥ ६ ॥
॥ ईश्वर उवाच ॥
जलन्धरः कथं विष्णो न हतः सङ्गरे त्वया ॥
तद्गृहं चाऽपि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ॥ ७ ॥
॥ विष्णुरुवाच ॥ ॥
तवांशसम्भवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ॥
न मया निहतः सङ्ख्ये त्वमेनं जहि दानवम् ॥ ८ ॥
॥ ईश्वर उवाच ॥
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ॥
देवैः सह स्वतेजोंशं शस्त्रार्थं दीयतां मम ॥ ९ ॥
॥ नारद उवाच ॥ ॥
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ॥
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः ॥ 2.4.18.१० ॥
तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम् ॥
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ॥ ११ ॥
ततः शेषेण च तदा वज्रं च कृतवान्हरिः ॥
तावज्जलन्धरो दृष्टः कैलासतलभूमिषु ॥ १२ ॥
हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः ॥
तं दृष्ट्वा लक्षिता जग्मुर्देवाः सर्वे यथागताः ॥१३॥
गणाश्च समसज्जन्त युद्धायाऽतित्वरान्विताः ॥
नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया ॥ १४ ॥
अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः ॥
ततः समभवद्युद्धं कैलासोपत्यकाभुवि ॥ १५ ॥
प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसङ्कुलम् ॥
भेरीमृदङ्गशङ्खौघ निःस्वनैर्वीरहर्षणैः ॥ १६ ॥
गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत ॥
शक्तितोमरबाणौघमुसलप्रासपट्टिशैः ॥१७॥
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ॥
निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत ॥ १८ ॥
वज्राहताचलशिरःशकलैरिव संवृता ॥
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥ १९ ॥
वसासृङ्मांसपङ्काढ्या भूरगम्याऽभवत्तदा ॥
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् ॥2.4.18.२०॥
युद्धे पुनः पुनस्तत्र मृतसञ्जीविनीबलात् ॥
तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयान्विताः ॥
शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम् ॥ २१ ॥
अथ रुद्रमुखात्कृत्या बभूवाऽतीवभीषणा ॥
तालजङ्घा दरीवक्त्रा स्तनापीडितभूरुहा ॥२२॥
सा युद्धभूमिमासाद्य भक्षयन्ती महासुरान् ॥
भार्गवं स्वभगे धृत्वा जगामान्तर्हिता नभः ॥२३॥
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा ॥
अम्लानवदना हर्षान्निजघ्नुर्युद्धदुर्मदाः ॥ २४ ॥
अथाभज्यत दैत्यानां सेना गणभयार्दिता ॥
वायुवेगेनाहतेव प्रकीर्णा तृणसन्ततिः ॥
भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः ॥
निशुम्भशुम्भौ सेनान्यौ कालनेमिश्च वीर्यवान् ॥२६ ॥
त्रयस्ते वारयामासुर्गणसेनां महाबलाः ॥
मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः ॥ २७ ॥
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥
रुरुधुः खं दिशः सर्वा गणसेनामकम्पयन् ॥ २८ ॥
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥
वसन्ते किंशुकाभासा न प्राज्ञायत किञ्चन ॥ ॥ २९ ॥
पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः ॥
त्यक्त्वा सङ्ग्रामभूमिं ते सर्वेपि विमुखाऽभवन् ॥ 2.4.18.३० ॥
ततः प्रभग्नं स्वबलं विलोक्य शैलादिलम्बोदरकार्तिकेयाः ॥
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षिणस्ते ॥ ३१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरोपाख्याने रुद्रसेनापराभवोनामाऽष्टादशोऽध्यायः ॥ १८ ॥