॥ नारद उवाच ॥ ॥
स मां प्रोवाच विधिवत्सम्पूज्यातीव भक्तिमान् ॥
सम्प्रहस्य तदा वाक्यं स्नेहपूर्वं च वै नृप ॥ १ ॥
कुत आगम्यते ब्रह्मन्किचिद्दृष्टं त्वया प्रभो ॥
यदर्थमिह चाऽऽयातस्तदाऽऽज्ञापय मां मुने ॥२॥
॥ नारद उवाच ॥ ॥
गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ॥
तत्रोमया समासीनं दृष्टवानस्मि शङ्करम्॥३॥
योजनायुतविस्तीर्णे कल्पवृक्षमहावने ॥
कामधेनुशताकीर्णे चिन्तामणिसुदीपिते ॥४॥
तद्दृष्ट्वा महदाश्चर्यं विस्मयो मेऽभवत्तदा ॥
क्वाऽपीदृशी भवेदृद्धिस्त्रैलोक्ये वा न वेति च ॥५॥
तदा तवाऽपि दैत्येन्द्र समृद्धिः संस्मृता मया ॥
तद्विलोकनकामोऽस्मि त्वत्सान्निध्यमिहाऽऽगतः ॥ ६ ॥
त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां धुवम् ॥
तर्कयामि शिवादन्यस्त्रिलोक्यां न समृद्धिमान् ॥ ७ ॥
अप्सरोनागकन्याद्या यद्यपि त्वद्वशे स्थिताः ॥
तथाऽपि ता न पार्वत्या रूपेण सदृशा ध्रुवम् ॥ ८ ॥
यस्या लावण्यजलधौ निमग्नश्चतुराननः ॥
स्वधैर्यममुचत्पूर्वं तया काऽन्योपमीयते ॥ ९ ॥
वीतरागोऽपि हि यथा मदनारिः स्वलीलया ॥
सौन्दर्यगहनेऽभ्रामि शफरीरूपया पुरा ॥ 2.4.17.१० ॥
यस्याः पुनः पुनः पश्यन्रूपं धाताऽपि सर्जने ॥
ससर्जाऽप्सरसस्तासां तत्समैकाऽपि नाभवत् ॥ ११ ॥
अतः स्त्रीरत्नसम्भोक्तुः समृद्धिस्तस्य सा वरा ॥
तथा न तव दैत्येन्द्र सर्वरत्नाऽधिपस्य च ॥ १२ ॥
एवमुक्त्वा तमामन्त्र्य गते सति स दैत्यराट् ॥
तद्रूप श्रवणादासीदनङ्गज्वरपीडितः ॥ १३ ॥
अथ सम्प्रेषयामास स दूतं सिंहिकासुतम् ॥
त्र्यम्बकायाऽपि च तदा विष्णुमायाविमोहितः ॥ १४ ॥
कैलासमगमद्राहुः कुर्वञ्छुक्लेन्दुवर्चसम् ॥
कार्ष्ण्येन कृष्णपक्षेन्दुवर्चसं स्वाङ्गजेन तम् ॥ १५ ॥
निवेदितस्तदेशाय नन्दिना प्रविवेश सः ॥
त्र्यम्बकभ्रूलतासञ्ज्ञा प्रेरितो वाक्यमब्रवीत् ॥ १६ ॥
॥ राहुरुवाच ॥ ॥
देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः ॥
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ॥ १७ ॥
स्मशानवासिनो नित्यमस्थिभारवहस्य च ॥
दिगम्बरस्य ते भार्या कथं हैमवती शुभा ॥ १८ ॥
अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसञ्ज्ञिका ॥
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ॥ १९ ॥
॥ नारद उवाच ॥ ॥
वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः ॥
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ॥ 2.4.17.२० ॥
सिंहास्यः प्रललज्जिह्वः स ज्वलन्नयनो महान् ॥
ऊर्ध्वकेशः शुष्कतनुर्नृसिम्ह इव चाऽपरः ॥ २१ ॥
स तं खादितुमायान्तं दृष्ट्वा राहुर्भयातुरः ॥
अधावत स वेगेन बहिः स च दधार तम् ॥ २२ ॥
स च राहुर्महाबाहो मेघगम्भीरया गिरा ॥
उवाच देवदेव त्वं पाहि मां शरणागतम् ॥२३॥
ब्राह्मणं मां महादेव खादितुं समुपागतः ॥
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाऽब्रवीत् ॥२४॥
नैवाऽसौ वध्यतामेति दूतोऽयं परवान्यतः ॥
मुञ्चेति पुरुषः श्रुत्वा राहुं तत्याज्य सोंऽबरे ॥२५॥
राहुं त्यक्त्वाऽथ पुरुषस्तदा रुद्रं व्यजिज्ञपत् ॥
॥ पुरुष उवाच ॥ ॥
क्षुधा मां वाधतेऽत्यन्तं क्षुत्क्षामश्चाऽस्मि सर्वथा ॥ २६ ॥
किं भक्षयामि देवेश तदाज्ञापय मां प्रभो ॥
॥ ईश्वर उवाच ॥ ॥
भक्षयस्वात्मनः शीघ्रं मांसं त्वं हस्तपादयोः ॥ २७ ॥
॥ नारद उवाच ॥ ॥
स शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वकम्॥
हस्तपादोद्भवं मांसं शिरःशेषो यथाऽभवत् ॥ २८ ॥
दृष्ट्वा शिरोऽवशेषं तं सुप्रसन्नस्तदा शिवः ॥
उवाच भीमकर्माणं पुरुषं जातविस्मयः ॥ २९ ॥
॥ ईश्वर उवाच ॥ ॥
त्वं कीर्तिमुखसञ्ज्ञो हि भव मद्द्वारिगः सदा ॥
त्वदर्चां ये न कुर्वन्ति नैव ते मे प्रियङ्कराः ॥ 2.4.17.३० ॥ *
॥ नारद उवाच ॥ ॥
तदा प्रभृति देवस्य द्वारि कीर्तिमुखः स्थितः ॥
नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत् ॥३१॥
राहुर्विमुक्तो यस्तेन सोऽपि तद्बर्बरे स्थले ॥
अतः स बर्बरोद्भूत इति भूमौ प्रथां गतः ॥ ३२ ॥
ततः स राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः ॥
समेत्य सर्वं कथयाम्बभूव जलन्धरायैव विचेष्टितं तत् ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरोपाख्याने दूतवाक्यकथनन्नाम सप्तदशोऽध्यायः ॥ १७ ॥