॥ ॥ नारद उवाच ॥ ॥
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ॥
भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥
नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायाऽर्तिहन्त्रे ॥
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशङ्खपद्मारिहस्ताय तेस्तु ॥ २ ॥
रमा वल्लभायाऽसुराणां निहन्त्रे भुजङ्गारियानाय पीताम्बराय ॥
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥
नमो दैत्यसन्तापितामर्त्यदुःखाचलध्वंसदम्भोलये विष्णवे ते ॥
भुजङ्गेशतल्पेशयायार्कचन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४ ॥
॥ ॥ नारद उवाच ॥ ॥
सङ्कष्टनाशनन्नाम स्तोत्रमेतत्पठेन्नरः ॥
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥ ५ ॥
इति देवाः स्तुतिं यावत्कुर्वन्ति दनुजद्विषः ॥
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ॥ ६ ॥
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः ॥
आरूढो गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ॥ ७ ॥
॥ श्रीभगवानुवाच ॥ ॥
जलन्धरेण ते भ्रात्रा देवानां कदनं कृतम् ॥
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ॥ ८ ॥
॥ श्रीरुवाच ॥ ॥
अहं ते वल्लभा नाथ भक्त्या च यदि सर्वदा ॥
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ ९ ॥
श्रीभगवानुवाच ॥ ॥
रुद्रांशसम्भवत्वाच्च ब्रह्मणो वचनादपि ॥
प्रीत्या च तव नैवायं मम वध्यो जलन्धरः ॥ 2.4.16.१० ॥
॥ नारद उवाच ॥ ॥
इत्युक्त्वा गरुडारूढः शङ्खचक्रगदासिभृत् ॥
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवन्ति ते ॥ ११ ॥
अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः ॥
वात्या विमर्दिता दैत्या बभ्रमुः खे यथा घनाः ॥ १२॥
ततो जलन्धरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ॥
उद्वृत्तनयनः क्रोधात्ततोविष्णुं समभ्ययात्॥ १३ ॥
ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ॥
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥१४॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान् ॥
चिच्छेद तं च हृदये बाणेनैकेन ताडयत् ॥ १५ ॥
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ॥
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥ १६ ॥
विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव ॥
तावत्स हृदये विष्णुं जघान दृढमुष्टिना ॥ १७ ॥
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ॥
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥ १८ ॥
एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ॥
उवाच दैत्यराजानं मेघगम्भीरनिस्वनः ॥ १९ ॥
॥ विष्णुरुवाच ॥ ॥
वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ॥
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥ 2.4.16.२० ॥ ॥
॥ जलन्धर उवाच ॥ ॥
यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे ॥
मद्भगिन्या सहाऽद्य त्वं मद्गृहे सगणो वस ॥ २१ ॥
॥ नारद उवाच ॥ ॥
तथेत्युक्ता स भगवान्सर्वदेवगणैः सह ॥
तदा जलन्धरपुरमगमद्रमया सह ॥ २२ ॥
जलन्धरस्तु देवानामधिकारेषु दानवान् ॥
स्थापयित्वा महाबाहुः पुनरागान्महीतलम् ॥ २३ ॥
देवगन्धर्वसिद्धेषु यत्किञ्चिद्रत्नसंयुतम् ॥
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनन्दनः ॥ २४ ॥
पातालभुवने दैत्यं निशुम्भं स महाबलम् ॥
स्थापयित्वा स शेषादीनानयद्भूतलं बली ॥ २५ ॥
देवगन्धर्वसिद्धाऽऽद्यान्सर्पराक्षसमानुषान्॥
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥ २६ ॥
एवं जलन्धरः कृत्वा देवान्स्ववशवर्तिनः ॥
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्॥२७॥
न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा ॥
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥२८॥
एवं महीं शासति दानवेन्द्रे धर्मेण सम्यक्च दिदृक्षयाऽहम् ॥
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् ॥ २९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरसभायां नारदागमनन्नाम षोडशोऽध्यायः ॥ १६ ॥