०१५ जलन्धरविजयप्राप्तिः

॥ नारद उवाच ॥ ॥
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ॥
तेऽपि भूमण्डलं याता निर्भयास्तमुपाश्रिताः ॥१॥
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ॥
पप्रच्छ भार्गवं तत्र तच्छिरश्छेदकारणम् ॥ २ ॥
स शशम्स समुद्रस्य मथनं देवकारितम् ॥
रत्नापहरणं चैव दैत्यानां च पराभवम् ॥ ३ ॥
स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ॥
दूतं सम्प्रेषयामास घस्मरं शक्रसन्निधौ ॥४॥
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद्वराम्॥
जगादाखर्वमौलिस्तु देवेन्द्रं वाक्यमद्भुतम् ॥ ५ ॥
॥ घस्मर उवाच ॥ ॥
जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः ॥
दूतोऽहम्प्रेषितस्तेन स यदाह शृणुष्व तत् ॥ ६ ॥
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ॥
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे ॥ ७ ॥
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः॥
उवाच घस्मरं रौद्रं भयरोषसमन्वितः ॥ ८ ॥
॥ इन्द्र उवाच ॥ ॥
शृणु दूत मया पूर्वं मथितः सागरो यथा ॥
अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा ॥९॥
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ॥
तस्माद्यत्तत्प्रजातं तु मयाऽप्यपहृतं किल ॥2.4.15.१०॥
शङ्खोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ॥
ममाऽनुजेन निहतः प्रविष्टः सागरोदरम् ॥ ११ ॥
तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् ॥
॥ नारद उवाच ॥ ॥
इत्थं विसर्जितो दूतस्तदेन्द्रेणाऽगमद्भुवम् ॥१२॥
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा ॥
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताऽधरः॥ १३ ॥
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम् ॥
ततो युद्धे महाञ्जातो देवदानवसङ्क्षयः ॥ १४ ॥
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत् ॥
विद्यया मृतजीविन्या मन्त्रितैस्तोयबिन्दुभिः ॥ १५ ॥
देवानपि तथा युद्धे तत्राऽजीवयदङ्गिराः ॥
दिव्यौषधी समानीय द्रोणाद्रेः स पुनःपुनः ॥१६॥
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ॥
जलन्धरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥१७॥
॥ जलन्धर उवाच ॥ ॥
मया युद्धे हता देवा उत्तिष्ठन्ति कथं पुनः ॥
तव सञ्जीविनीविद्या न वाऽन्यत्रेति विश्रुतम् ॥१८॥
॥ शुक्र उवाच ॥ ॥
दिव्यौषधीः समानीय द्रोणाद्रेरङ्गिराः सुरान्॥
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर ॥ १९ ॥
॥ नारद उवाच ॥ ॥
इत्युक्तः स तु दैत्येन्द्रो नीत्वा द्रोणाचलं तदा ॥
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् ॥ 2.4.15.२० ॥
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ॥
तावत्तत्र गिरीन्द्रं तु न ददर्श सुरार्चितः ॥ २१ ॥
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ॥
आगत्य दूराद्व्याजह्रे श्वासाऽऽकुलितविग्रहः ॥ २२ ॥
पलायध्वं हवाद्देवा नाऽयं जेतुं क्षमो यतः ॥
रुद्रांशसम्भवो ह्येष स्मरध्वं शक्रचेष्टितम् ॥ २३ ॥
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ॥
दैत्येन वध्यमानास्ते पलायन्ते दिशो दश ॥ २४ ॥
देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनन्दनः ॥
शङ्खभेरीजयरवैः प्रविवेशाऽमरावतीम् ॥ २५ ॥
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ॥
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः॥ २६ ॥
ततश्च सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां विनिवेशयत्तदा ॥
शुम्भादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ॥ २७ ॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरविजयप्राप्तिर्नाम पञ्चदशोऽध्यायः ॥१५॥