०१४ जलन्धरोत्पत्तिवर्णनम्

॥ पृथुरुवाच ॥ ॥
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् ॥
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता ॥ १ ॥
तेनाऽहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् ॥
कथं साऽतिप्रिया तस्य देवदेवस्य शार्ङ्गिणः ॥ २ ॥
कथमेषा समुत्पन्ना कस्मिन्स्थाने च नारद ॥
एवं ब्रूहि समासेन सर्वज्ञोऽसि मतो मम ॥ ३ ॥
॥ नारद उवाच ॥ ॥
शृणु राजन्नवहितो माहात्म्यं तुलसीभवम् ॥
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते ॥ ४ ॥
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् ॥
सर्वदेवैः परिवृतो ह्यप्सरोगणसेवितः ॥ ५ ॥
यावद्गतः शिवगृहं तावत्तत्र स दृष्टवान् ॥
पुरुषं भीमकर्माणं दंष्ट्राऽऽननविभीषणम् ॥ ६ ॥
स पृष्टस्तेन कस्त्वं भोः क्व गतो जगदीश्वरः ॥
एवं पुनः पुनः पृष्टः स तदा नोक्तवान्नृप ॥ ७ ॥
ततः कुद्धो वज्रपाणिस्तं निर्भर्त्स्य वचोऽब्रवीत् ॥
रे मया पृच्छयमानोऽपि नोत्तरं दत्तवानसि ॥ ८ ॥
अतस्त्वां हन्मि वज्रेण कस्ते त्राताऽस्ति दुर्मते ॥
इत्युदीर्य ततो वज्री वज्रेणाऽभ्यहनद्दृढम् ॥ ९ ॥
तेनास्य कण्ठो नीलत्वमगाद्वज्रं च भस्मताम् ॥
ततो रुद्रः प्रजज्वाल तेजसा प्रदहन्निव ॥ 2.4.14.१० ॥
दृष्ट्वा बृहस्पतिस्तूर्णं कृताञ्जलिपुटोऽभवत् ॥
इन्द्रं च दण्डवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ॥ ११ ॥
॥ बृहस्पतिरुवाच ॥ ॥
नमो देवाधिपतये त्र्यम्बकाय कपर्दिने ॥
त्रिपुरघ्नाय शर्वाय नमोऽधङ्कनिषूदिने ॥ १२ ॥
विरूपायाऽतिरूपाय बहुरूपाय शम्भवे ॥
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ॥ १३ ॥
कालान्तकाय कालाय कालभोगिधराय च ॥
नमो ब्रह्मशिरोहन्त्रे ब्राह्मणाय नमो नमः ॥ १४ ॥
॥ नारद उवाच ॥ ॥
एवं स्तुतस्तदा शम्भुर्धिषणेन जगाद तम् ॥
संहरन्नयनज्वालां त्रिलोकीदहन क्षमाम्॥ १५ ॥
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्याऽनया तव ॥
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां वज्र ॥ १६ ॥
॥ बृहस्पतिरुवाच ॥ ॥
यदि तुष्टोऽसि देव त्वं पाहीन्द्रं शरणागतम् ॥
अग्निरेष शमं यातु भालनेत्रसमुद्भवः ॥ १७ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
पुनः प्रवेशमायाति भालनेत्रे कथं शिखी ॥
एनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ १८ ॥
॥ नारद उवाच ॥ ॥
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणार्णवे ॥
सोऽपतत्सिन्धुगङ्गायाः सागरस्य च सङ्गमे ॥ १९ ॥
तावत्स बालरूपत्वमगात्तत्र रुरोद च ॥
रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः ॥ 2.4.14.२० ॥
स्वर्गाद्याः सत्यलोकान्तास्तत्स्वनाद्बधिरीकृताः ॥
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः ॥ ॥ २१ ॥
तावत्समुद्रस्योत्सङ्गे तं बालं स ददर्श ह ॥
दृष्ट्वा ब्रह्माणमायातं समुद्रोऽपि कृताञ्जलिः ॥ २२ ॥
प्रणम्य शिरसा बालं तस्योत्सङ्गे न्यवेशयत् ॥
भो ब्रह्मन्सिन्धुगङ्गायां जातोऽयं मम पुत्रकः ॥
जातकर्माऽऽदिसंस्कारान्कुरुष्वाऽद्य जगद्गुरो ॥ २३ ॥
॥ नारद उवाच ॥ ॥
इत्थं वदति पाथोधौ स बालः सागरात्मजः ॥२४ ॥
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंस्तं मुहुर्मुहुः ॥
धुन्वतस्तस्य कूर्चे तु नेत्राभ्यामगमज्जलम् ॥
कथञ्चिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् ॥ २५ ॥
॥ ब्रह्मोवाच ॥ ॥
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम ॥
तस्माज्जलन्धर इति ख्यातो नाम्ना भविष्यति ॥ २६ ॥
अनेनैवैष तरुणः सर्वशस्त्रास्त्रपारगः ॥
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति ॥ २७ ॥
यत एष समुद्भूतस्तत्रैवान्तं गमिष्यति ॥ २८ ॥
॥ नारद उवाच ॥ ॥
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ॥
आमन्त्र्य सरितां नाथं ब्रह्मान्तर्धानमागमत् ॥ २९ ॥
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ॥
कालनेमिसुतां वृन्दां तद्भार्यार्थमयाचत ॥ 2.4.14.३० ॥
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः॥
स चाऽपि तां प्राप्य सुहृद्वरां वशां शशास गां शुक्रसहायवान्बली ॥ ३१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरोत्पत्तिवर्णनन्नाम चतुर्दशोऽध्यायः ॥ १४ ॥