०१३ प्रयागतीर्थप्रशंसाप्रसङ्गवर्णनम्

॥ सूत उवाच ॥ ॥
श्रियः पतिमथामन्त्र्य गते देवर्षिसत्तमे ॥
हर्षोत्फुल्लाऽऽनना सत्या वासुदेवमथाऽब्रवीत् ॥ १ ॥
॥ सत्यभामोवाच ॥ ॥
धन्यास्मि कृतकृत्याऽस्मि सफलं जीवितं मम ॥
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया ॥ २॥
येनाऽहं मर्त्यजा देव तवाङ्गार्द्धहराऽभवम् ॥
भवान्तरे च किंशीला काचाऽहं कस्य कन्यका ॥
तवाऽहं वल्लभा जाता तद्वदस्व ममाऽखिलम् ॥ ३ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
शृणुष्वैकमना कान्ते यथा त्वं पूर्वजन्मनि ॥ ४ ॥
पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते ॥
आसीत्कृतयुगस्यान्ते मायापुर्यां द्विजोत्तमः ॥ ५ ॥
आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः ॥
तस्यातिवयसश्चाऽऽसीन्नाम्ना गुणवती सुता ॥ ६ ॥
अपुत्रः स स्वशिष्याय चन्द्रनाम्ने ददौ सुताम्॥
तमेव पुत्रवन्मेने स च तं पितृवद्वशी ॥ ७॥
तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ ॥
निहतौ रक्षसा तौ च कृतान्तसमरूपिणा ॥ ८ ॥
स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ ॥
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ ॥ ९ ॥
पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत् ॥
सा गृहोपस्करा न्सर्वान्विक्रीयाशु च कर्मं तत् ॥2.4.13.१० ॥
तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम् ॥
तस्मिन्नेव पुरे चक्रे वासं सा मृतजीविनी ॥ ११ ॥
व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम् ॥
एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च ॥ १२ ॥
इत्थं गुणवती सम्यक्प्रत्यब्द व्रतिनी ह्यभूत् ॥
कदाचित्सरुजा साऽथ कृशाङ्गी ज्वरपीडिता ॥ १३ ॥
स्नातुं गङ्गां गता कान्ते कथञ्चिच्छनकैस्तदा ॥
यावज्जलान्तरगता कम्पिता शीतपीडिता ॥ ॥ १४ ॥
तावत्सा विह्वलाऽपश्यद्विमानं यातमम्बरात् ॥
अथ सा तद्विमानस्था वैकुण्ठभुवनं ययौ ॥ १५ ॥
कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत् ॥
अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम् ॥ १६ ॥
आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह ॥
एते हि यादवाः सर्वे मद्गणा एव भामिनि ॥ १७ ॥
पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम् ॥
यश्चन्द्रनामाऽसोऽक्रूरस्त्वं सा गुणवती शुभा ॥ १८ ॥
कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी ॥
मद्द्वारि यत्त्वया पूर्वं तुलसीवाटिका कृता ॥ १९ ॥
तस्मादयं कल्पवृक्षस्तवाङ्गणगतः शुभे ॥
आजन्ममरणात्पूर्वं यत्कृतं कार्तिकव्रतम् ॥ 2.4.13.२० ॥
कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि ॥
॥ सत्योवाच ॥ ॥
मासानां तु कथं नाम स मासः कार्तिको वरः ॥ २१ ॥
प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम् ॥
॥ श्रीकृष्ण उवाच ॥ ॥
साधु पृष्टं त्वया कान्ते शृणुष्वैकाग्रमानसा ॥ २२ ॥
पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च ॥
एवमेव पुरा पृष्टो नारदः पृथुनाब्रवीत् ॥ २३ ॥
॥ नारद उवाच ॥ ॥
शङ्खनामाऽभवत्पूर्वमसुरः सागरात्मजः ॥
इन्द्रादिलोकपालानामधिकाराञ्जहार ह ॥ २४ ॥
सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः ॥
तद्वीक्षयाम्बभूवुस्ते तदा दैत्यो व्यचारयत् ॥ २५ ॥
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ॥
लक्ष्यन्ते बलयुक्तास्ते करणीयं मयाऽत्र किम् ॥ २६ ॥
ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः ॥
तान्हरिष्ये ततः सर्वे बलहीना भवन्ति वै ॥ २७ ॥
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्॥
सत्यलोकाज्जहाराशु वेदानादिस्वयम्भुवः ॥ २८ ॥
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ॥
तोयानि विविशुर्यज्ञमन्त्रबीजसमन्विताः ॥ २९ ॥
तान्मार्गमाणः शङ्खोऽपि समुद्रान्तर्गतो भ्रमन् ॥
न ददर्श तदा दैत्यः क्वचिदेकत्र संस्थितान् ॥
अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह ॥ ॥ 2.4.13.३० ॥
॥ विष्णुरुवाच ॥ ॥
वरदोऽहं सुरगणा गीतवाद्यादिमङ्गलैः ॥ ३१ ॥
ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः ॥
अतश्चैषा तिथिर्मान्या साऽतीव प्रीतिदा मम ॥ ३२ ॥
वेदाः शङ्खहृताः सर्वे तिष्ठन्त्युदकसंस्थिताः ॥
तानानयाम्यहं देवा हत्वा सागरनन्दनम् ॥ ३३ ॥
अद्यप्रभृति वेदास्तु मन्त्रबीजसमन्विताः ॥
प्रत्यब्दं कार्तिके मासि विश्रमन्त्वप्सु सर्वदा ॥ ३४ ॥
कालेऽस्मिन्ये प्रकुर्वन्ति प्रातःस्नानं नरोत्तमाः ॥
ते सर्वे यज्ञाऽवभृथैः सुस्नाताः स्युर्न संशयः ॥ ३५ ॥
अद्यप्रभृत्यहमपि भवामि जलमध्यगः ॥
भवन्तोऽपि मया सार्द्धमायान्तु समुनीश्वराः ॥ ३६ ॥
कातिकव्रतिनां चेन्द्र रक्षा कार्या त्वया सदा ॥
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ॥
खात्पपात जले विन्ध्यवासिनः कस्य पश्यतः ॥ ३७ ॥
हत्वा शङ्खासुरं विष्णुर्बदरीवनमागमत् ॥
तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयत्प्रभुः ॥ ३८ ॥
विष्णुरुवाच ॥ ॥
जलान्तरविशीर्णांस्तान्यूयं वेदान्प्रमार्गथ ॥
आनयध्वं च त्वरिताः सागरस्य जलान्तरात् ॥
तावत्प्रयागं तिष्ठामि देवतागणसंयुतः॥ ॥ ३९ ॥
॥ नारद उवाच ॥ ॥
ततस्तैस्सर्वमुनिभिस्तपोबलसमन्वितैः ॥ 2.4.13.४० ॥
उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः ॥
तेषु यावन्मितं येन लब्धं तावद्धि तस्य तत् ॥ ४१ ॥
स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव ॥
अथ सर्वेऽपि सङ्गम्य प्रयागं मुनयो ययुः ॥ ४२ ॥
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ॥
लब्ध्वा वेदान्समग्रांस्तु ब्रह्मा हर्षसमन्वितः ॥ ४३ ॥
अयजद्वाजिमेधेन देवर्षिगणसंयुतः ॥
यज्ञांऽते देवताः सर्वे विज्ञप्तिं चक्रुरञ्जसा ॥ ४४ ॥
॥ देवा ऊचुः ॥ ॥
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो ॥
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव ॥ ४५ ॥
स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान्प्राप पुनस्त्वयम् ॥
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते ॥ ४६ ॥
स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम् ॥
भुक्तिमुक्तिप्रदं चाऽस्तु प्रसादाद्भवतः सदा ॥ ४७ ॥
कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत्॥
दत्ताऽक्षयकरं चाऽस्तु वरमेवं ददस्व नः ॥ ४८ ॥
॥ विष्णुरुवाच ॥ ॥
ममाप्येतद्वृतं देवा यद्भवद्भिरुदाहृतम् ॥
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम् ॥ ४९ ॥
सूर्यवंशोद्भवो राजा गङ्गामत्रानयिष्यति ॥
सा सूर्यकन्यया चात्र कालिन्द्या योगमेष्यति ॥ 2.4.13.५० ॥
यूयं च सर्वे ब्रह्माद्या निवसन्तु मया सह ॥
तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति ॥ ५१ ॥
सर्वपापानि नश्यन्ति तीर्थराजस्य दर्शनात् ॥
सूर्ये मकरगे प्राप्ते स्नायिनां पापनाशनः ॥ ५२ ॥
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ॥
सालोक्यादिफलं स्नानैर्माघे मकरगे रवौ ॥ ५३ ॥ ॥
॥ नारद उवाच ॥ ॥
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवान्तर्धानमागात्सवेधाः ॥
देवाः सर्वेप्यंशकैस्तेऽप्यतिष्ठंश्चान्तर्धानं प्रापुरिन्द्रादयस्ते ॥५४॥

a
कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम् ॥
भुक्त्वेह निखिलान्भोगानन्ते विष्णुपुरं व्रजेत् ॥ ५५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये सत्यभामापूर्वजन्मवृत्तान्तकथनपूर्वक प्रयागतीर्थप्रशंसाप्रसङ्गवर्णनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ॥ छ ॥