०१२ धात्रीमाहात्म्यवर्णनम्

॥ शौनक उवाच ॥ ॥
कार्तिकस्य च माहात्म्यं महत्पुण्यफलप्रदम् ॥
कदा धात्री समुत्पन्ना कथं सा ख्यातिमागता ॥ १ ॥
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी ॥
आमर्दकी कृता केन कथयस्वात्र विस्तरात् ॥ २ ॥
॥ सूत उवाच ॥ ॥
कथयामि द्विजश्रेष्ठ यथा चेयं हि पुण्यदा ॥
ऊर्जशुक्लचतुर्दश्यां धात्रीपूजां समाचरेत् ॥ ३ ॥
आमर्दकीमहावृक्षः सर्वपापप्रणाशनः ॥
वैकुण्ठाख्यचतुर्दश्यां धात्रीछायां गतो नरः ॥ ४ ॥
पूजयेत्तत्र देवेशं राधया सहितं हरिम् ॥
प्रदक्षिणां ततः कुर्याच्छतमष्टोत्तरं तथा ॥ ५ ॥
सुवर्णरजतैर्वापि फलैरामलकैस्तथा ॥
शतमष्टोत्तरं कुर्यादेकैकेन प्रदक्षिणाम् ॥ ६ ॥
साष्टाङ्गं प्रणतो भूत्वा प्रार्थयेत्परमेश्वरम् ॥
धात्रीछायां समाश्रित्य शृणुयाच्च कथामिमाम् ॥ ७ ॥
ब्राह्मणान्भोजयेत्पश्चाद्यथाशक्त्या च दक्षिणाम् ॥
ब्राह्मणेषु च तुष्टेषु तुष्टो मोक्षप्रदो हरिः ॥ ॥
अत्र ते कथयिष्यामि कथां पुण्यफलप्रदाम् ॥
आमर्दकीफलं वक्तुं ब्रह्मा चाऽपि न पार्यते ॥ ९ ॥
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे ॥
नष्टे देवाऽसुरगणे प्रणष्टोरगराक्षसे ॥ 2.4.12.१० ॥
तत्र देवाधिदेवेशः परमात्मा सनातनः ॥
जजाप ब्रह्म परममात्मनः परमाव्ययम् ॥ ११ ॥
ततोऽस्य ब्रह्म जपतो निरगाच्छ्वसितं पुरः ॥
तद्दर्शनाऽनुरागेण नेत्राभ्यामगमज्जलम् ॥ १२ ॥
प्रेमाश्रुभरनिर्भिन्नो भूमौ बिन्दुः पपात सः ॥
तस्माद्बिन्दो समुत्पन्नः स्वयं धात्री नगो महान् ॥ १३ ॥
शाखाप्रशाखाबहुलः फलभारेण पीडितः ॥
सर्वेषामेव वृक्षाणामादिरोहः प्रकीर्तितः ॥ १४ ॥
ब्रह्मा तमसृजत्पूर्वं तत्पश्चाच्चाऽसृजत्प्रजाः ॥
देवदानवगन्धर्वयक्षराक्षसपन्नगान् ॥ १५ ॥
असृजद्भगवान्देवो मानुषांश्च तथामलान् ॥
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया ॥ १६ ॥
तां दृष्ट्वा ते महाभागाः परमं विस्मयं गताः ॥
न जानीम इमं वृक्षं चिन्तयन्तो मुहुर्मुहुः ॥ १७ ॥
एवं चिन्तयतां तेषां वागुवाचाऽशरीरिणी ॥
आमर्दकी नगो ह्येष प्रवरो वैष्णवो यतः ॥ १८ ॥
अस्य वै स्मरणादेव लभेद्गोदानजं फलम् ॥
दर्शनाद्द्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा ॥ १९ ॥
तस्मात्सर्वप्रयत्नेन सेव्या आमर्दकी सदा ॥
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी ॥ 2.4.12.२० ॥
तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः ॥
स्कन्धे च भगवान्रुद्रः संस्थितः परमेश्वरः ॥ २१ ॥
शाखासु सवितारश्च प्रशाखासु च देवताः ॥
पर्णेषु देवताः सन्ति पुष्पेषु मरुतस्तथा ॥ २२ ॥
प्रजानां पतयः सर्वे फलेष्वेवं व्यवस्थिताः ॥
सर्वदेवमयी ह्येषा धात्री वै कथिता मया ॥ २३ ॥
अतः सा पूजनीया च सर्वकामार्थसिद्धये ॥
एकदा नारदो योगी ब्रह्मणः पुरतः स्थितः ॥
नमस्कृत्वा जगन्नाथं पप्रच्छातीव विस्मितः ॥ २४ ॥
॥ श्रीनारद उवाच ॥ ॥
यथा प्रियं सुतुलसीकाननं सर्वदा हरेः ॥
तथा धात्रीवनं मासे कार्तिके श्रीहरिप्रियम् ॥ २५ ॥
॥ ब्रह्मोवाच ॥ ॥
धात्रीवने हरेः पूजा धात्री छायासु भोजनम् ॥
कार्तिके मासि यः कुर्यात्तस्य पापं विनश्यति ॥ २६ ॥
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ॥
नित्यं धात्रीं समाश्रित्य तिष्ठन्त्यर्के तुलास्थिते ॥ २७ ॥
यत्किञ्चित्कुरुते पुण्यं धात्रीछायासु मानवः ॥
तत्कोटिगुणितं भूयान्नाऽत्र कार्या विचारणा ॥ २८ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥ ॥ २९ ॥
अयोध्यानगरे कश्चिद्वैश्यश्चासीद्विजोत्तम ॥
पुत्रदारविहीनश्च दैवाद्दारिद्र्यपीडितः ॥ 2.4.12.३० ॥
भिक्षया चोदराग्निं स शमयामास नारद ॥
कदाचिद्वणिजो वैश्यो ययाचे क्षुत्प्रपीडितः ॥ ३१ ॥
भिक्षाप्तचणकान्गृह्य धात्रीछायामगात्किल ॥
तत्र तान्भक्षयामास कार्तिके मासि नारद ॥ ३२ ॥
केचिदुर्वरितास्तेपु चणकास्तत्र नारद ॥
वैश्येन तेन दत्ता हि क्षुत्क्षामाय द्विजातये ॥ ३३ ॥
तेन पुण्यप्रभावेन राजाऽऽसीद्धनिकः क्षितौ ॥
तस्माद्दानं प्रकर्तव्यं कार्तिके मासि सर्वदा ॥ ३४ ॥
धात्रीवने मुनिश्रेष्ठ सर्वकामार्थसिद्धये ॥
धात्रीछायां समाश्रित्य कार्तिके च हरेः कथाम् ॥
यः शृणोति स पापेभ्यो मुच्यते द्विजसूनुवत् ॥ ३५ ॥ ॥
॥ नारद उवाच ॥ ॥
कोऽभूद्द्विजसुतो ब्रह्मन्किं पापं कृतवान्पुरा ॥
तस्य जाता कथं मुक्तिरेतद्विस्तरतो वद ॥ ३६ ॥
॥ ब्रह्मोवाच ॥ ॥
पुरा द्विजवरश्चासीत्कावेर्या उत्तरे तटे ॥ ३७ ॥
देवशर्मेति विख्यातो वेदवेदाङ्गपारगः ॥
तस्य पुत्रो दुराचारस्तमाह च पिता हितम् ॥ ३८ ॥
इदानीं कार्तिको मासो वर्तते हरिवल्लभः ॥
तत्र स्नानं च दानं च व्रतानि नियमान्कुरु ॥ ३९ ॥
तुलसीपुष्पसहितां कुरुपूजां हरेः सुत ॥
दीपदानं च विविधं नमस्कारं प्रदक्षिणाम् ॥ 2.4.12.४० ॥
एवं पितुर्वचः श्रुत्वा पुत्रः क्रोधसमन्वितः॥
पितरं प्राह दुष्टात्मा चलदोष्ठो विनिन्दयन् ॥ ४१ ॥
॥ पुत्र उवाच ॥ ॥
न करिष्याम्यहं तात कार्तिके पुण्यसङ्ग्रहम् ॥
इति पुत्रवचः श्रुत्वा सक्रोधः प्राह तं सुतम् ॥ ४२ ॥
मूषको भव दुर्बुद्धे वने वृक्षस्य कोटरे ॥
इति शापभयाद्भीतो नत्वा पितरमब्रवीत् ॥ ४३ ॥
दुर्योनेर्मम मुक्तिः स्यात्कथं तद्वद मे गुरो ॥
इति प्रसादितो विप्रः प्राह निष्कृतिकारणम् ॥ ४४ ॥
यदोर्ज्जव्रतजं पुण्यं शृणोषि हरिवल्लभम् ॥
तदा ते भविता मुक्तिस्तत्कथाश्रवणात्सुत ॥ ४५ ॥
स पित्रा चैवमुक्तस्तु तत्क्षणान्मूषकोऽभवत् ॥
बहुवर्षसहस्राणि गह्वरे विपिने वसन् ॥ ४६ ॥
एकदा कार्तिके मासि विश्वामित्रः सशिष्यकः ॥
स्नात्वा नद्यां हरिं चार्च्य धात्रीछायां समाश्रितः ॥ ४७ ॥
कथयामास माहात्म्यं शिष्येभ्यश्चोर्ज्जसम्भवम् ॥
तदा कश्चिद्दुराचारो व्याधोऽगान्मृगयां चरन् ॥ ४८ ॥
दृष्ट्वा ऋषिगणान्हन्तुं कृतेच्छः प्राणिघातकः ॥
तेषां दर्शनमात्रेण सुबुद्धिरभवत्तदा ॥ ४९ ॥
अथोवाच द्विजान्नत्वा भवद्भिः क्रियतेऽत्र किम् ॥
तेनैवमुक्तो विप्रेन्द्रो विश्वामित्रस्तमब्रवीत् ॥ 2.4.12.५० ॥
॥ ॥ विश्वामित्र उवाच ॥ ॥
सर्वेषामेव मासानां कार्तिकः श्रेष्ठ उच्यते ॥
तस्मिन्यत्क्रियते कर्म वर्धते वटबीजवत् ॥ ५१ ॥
कार्तिके मासि यः कुर्यात्स्नानं दानं च पूजनम् ॥
विप्राणां भोजनं चैव तदक्षय्यफलं भवेत् ॥ ५२ ॥
व्याधप्रयुक्तमाकर्ण्य धर्मं च ऋषिणा द्विजः ॥
मौषकं देहमुत्सृज्य दिव्यदेहोऽभवत्तदा ॥ ५३ ॥
विश्वामित्रं प्रणम्याथ स्ववृत्तान्तं निवेद्य च ॥
अनुज्ञातोऽथ ऋषिणा विमानस्थो दिवं ययौ ॥ ५४ ॥
विस्मितो गाधिपुत्रस्तु व्याधश्चैव विशेषतः ॥
व्याधोऽप्यूर्जव्रतं कृत्वा जगाम हरिमन्दिरम् ॥ ५५ ॥
तस्मात्सर्वप्रयत्नेन कार्तिके केशवाऽग्रतः ॥
धात्रीछायां समाश्रित्य कथाश्रवणमाचरेत् ॥ ५६ ॥
मूषकोऽपि च दुर्योनेर्मुक्त ऊर्जकथाश्रुतेः ॥
शृणुयाच्छ्रावयेद्यो वा मुक्तिभागी न संशयः ॥ ॥ ५७ ॥
धात्रीछायां समाश्रित्य वनभोजनमाचरेत् ॥
आदौ कृत्वा तथा स्नानमुदके वनसंस्थिते ॥
कृत्वा कर्माणि नित्यानि माधवं पूजयेत्ततः ॥ ५८ ॥
धात्रीछायां समाश्रित्य हरौ भक्तिसमन्वितः ॥
शृणुयाच्च कथां दिव्यां मासमाहात्म्यशंसनीम् ॥ ५९ ॥
ततस्तु ब्राह्मणान्भक्त्या भोजयेद्ब्रह्मवित्तमान् ॥
ततो भुञ्जीत विप्रेन्द्र स्वयं हरिमनुस्मरन् ॥ 2.4.12.६० ॥
एवङ्कृते व्रते विप्र कार्तिके हरिवल्लभे ॥
यत्पापं नश्यते पुत्र सावधानमना शृणु ॥ ६१ ॥
हरेर्नार्पितभोगाच्च भोजने सूर्यदर्शनात् ॥
रजस्वलावाक्छ्रवणपापाद्भोजनके तथा ॥ ६२ ॥
भोजनावसरे चान्यस्पर्शदोषस्तु यद्भवेत् ॥
निषिद्धभोजनात्तस्माद्भोजने चाऽन्नदूषणात् ॥ ६३ ॥
शुद्धस्यापि तथा त्यागात्पुण्यकाले हरिप्रिये ॥
एतैर्यत्साधितं पापं तत्सर्वं नश्यति धुवम् ॥ ६४ ॥
तस्मात्सर्वप्रयत्नेन धात्र्यां भोजनमाचरेत् ॥ ६५ ॥
कार्तिके मासि वै विप्रो धात्रीमालां तु यो वहेत् ॥
तथैव तुलसीमालां तस्य पुण्यमनन्तकम् ॥ ६६ ॥
धात्रीछायां समाश्रित्य दीपमालार्पणं नरः ॥
करिष्यति विशेषेण तस्य पुण्यमनन्तकम् ॥ ६७ ॥
राधादामोदरौ पूज्यौ तुलस्यधो विशेषतः ॥
तुलस्यभावे कर्तव्या पूजा धात्रीतले शुभा ॥ ६८ ॥
धात्रीछायातले येन सकृद्भुक्तं तु कार्तिके ॥
दम्पत्योर्भोजनं दत्तमन्नदोषात्प्रमुच्यते ॥ ६९ ॥
सम्पूर्णे कार्तिके यस्तु सम्पूज्यामलकीं शुभाम् ॥
राधादामोदरप्रीत्यै भोजयित्वा च दम्पती ॥
पश्चात्स्वयं तु भुञ्जीत न श्रीस्तस्य क्षयं व्रजेत् ॥ 2.4.12.७० ॥
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने ॥
प्रियो भवति देवानां मनुष्याणां च का कथा ॥ ७१ ॥
धात्रीफलविलिप्ताङ्गो धात्रीफलसमन्वितः॥
धात्रीफलकृताहारो नरो नारायणो भवेत् ॥ ७२ ॥
धात्रीफलानि यो नित्यं वहते करसम्पुटे ॥
तस्य नारायणो देवो वरमिष्टं प्रयच्छति ॥ ७३ ॥
श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः ॥
तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः ॥ ७४ ॥
नवम्यां दर्शे सप्तम्यां सङ्क्रान्तौ रविवासरे ॥
चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजेत् ॥ ७५ ॥
धात्रीछायां समाश्रित्य कुर्य्यात्पिण्डं त यो नरः ॥
प्रयान्ति पितरो मुक्तिं प्रसादान्माधवस्य तु ॥ ॥ ७६ ॥
मूर्ध्नि पाणौ मुखे चैव बाह्वोः कण्ठे तु यो नरः ॥
धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः ॥७७ ॥
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ॥
तावत्तस्य शरीरे तु प्रीत्या लुण्ठति केशवः। ७८ ॥
धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा ॥
सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ॥ ७९ ॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः ॥
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥ 2.4.12.८० ॥
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसम्भवम् ॥
यो नरः कण्ठदेशे तु कल्पकोटिं दिवं वसेत् ॥ ८१ ॥
धात्रीछायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् ॥
तत्रैव भोजनं यस्तु ब्राह्मणानां च कारयेत् ॥ ८२ ॥
स्वयं च तत्र भुङ्क्ते यः सूपभक्षादिकं तथा ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ८३ ॥
तुलस्याश्चैव धात्र्याश्च फलैः पत्रैर्हरिं यजेत् ॥ ८४ ॥
तुलसी धात्रीयुक्ता हि सिक्ते सति च कार्तिके ॥
विलयं यान्ति पापानि ब्रह्महत्यादिकानि च ॥ ८५ ॥
धर्मदत्तो द्विजः पूर्वं यथा मुक्तिमवाप ह ॥ ८६ ॥
॥ नारद उवाच ॥ ॥
कार्तिके मासि सा सेव्या पूजनीया सदा नरैः ॥
चातुर्मास्ये न सेव्या सा इत्युक्तं भवता पुरा ॥
तस्मात्सर्वमशेषेण कथयस्व ममाग्रतः ॥ ८७ ॥
॥ ब्रह्मोवाच ॥ ॥
कार्तिके मासि विप्रर्षे शुक्ला या दशमी शुभा ॥
तद्दिनाऽऽरभ्य सा सेव्या दैवे पित्र्ये च कर्मणि ॥
दशम्यारभ्य तत्पत्रैः फलकैर्मधुसूदनम् ॥ ८८ ॥
पूजयन्ति नरा ये वै ते वै वैकुण्ठगामिनः ॥
समाप्ते कार्तिकव्रते वनभोजनमाचरेत् ॥ ८९ ॥
दशम्यां वाऽथ द्वादश्यां पौर्णमास्यामथाऽपि वा ॥
पञ्चम्यां वा महाभाग वनभोजनमाचरेत् ॥॥ 2.4.12.९० ॥
सर्वोपस्करसंयुक्तो वृद्धबालैश्च संयुतः ॥
वनं प्रवेशयेद्धीमान्धात्रीवृक्षैः सुशोभितम् ॥ ९१ ॥
चूतैर्बकैस्तथाऽश्वत्थैः पिचुमन्दैः कदम्बकैः ॥
न्यग्रोधतिन्तिणीवृक्षैः समन्तात्परिशोभितम्॥ ९२॥
तत्र गत्वा महाप्राज्ञ पुण्याऽहं कारयेत्पुरा॥
वास्तुपीठं तथा पूज्यं धात्रीमूले तु कारयेत् ॥ ९३ ॥
वेदिकां चतुरस्रां च हस्तमात्रायतां शुभाम् ॥
तथोपवेदिकां कृत्वा वेदिकाग्रे महामते ॥ ९४ ॥
उपवेशाय देवस्य ह्यलं कार्यं तु धातुभिः ॥
वेदिकापश्चिमेभागे कारयेत्कुण्डमण्डपम् ॥ ९५ ॥
मेखलात्रयसंयुक्तं पिप्पलच्छदसंयुतम् ॥
हस्तमात्रायतं सौम्य एवं कुण्डं तु कारयेत् ॥ ९६ ॥
पश्चात्स्नात्वा ततो जप्त्वा देवपूजां समाचरेत् ॥
पश्चादग्निं समाधाय होमं कुर्याद्यथाविधि ॥ ९७ ॥
पायसाऽऽज्यगुडसूपपालाशसमिधा तथा ॥
ग्रहाणां वास्तुदेवेभ्यश्चरुं कृत्वा प्रयत्नतः ॥ ९८ ॥
धात्री शान्तिस्तथा कान्तिर्माया प्रकृतिरेव च ॥
विष्णुपत्नी महालक्ष्मी रमा मा कमला तथा ॥ ९९ ॥
इन्दिरा लोकमाता च कल्याणी कमला तथा ॥
सावित्री च जगद्धात्री गायत्री सुधृतिस्तथा ॥ 2.4.12.१०० ॥
अन्तज्ञा विश्वरूपा च सुकृपा ह्यब्धिसम्भवा ॥
प्रधानदेवताभिस्तु रक्षाहोमं समारभेत् ॥१॥
संसृष्टेति च मन्त्रेण ऋषभं मेति मन्त्रतः ॥
अपूपं गुडसूपाभ्यां संयुतं जुहुयाद्धविः ॥ २ ॥
अष्टोत्तरशतं हुत्वा मूलमन्त्रेण पायसम् ॥
ततो ग्रहादि देवांस्तु यथासङ्ख्येन होमयेत् ॥ ३ ॥
धात्रीहोमे महाप्राज्ञ रक्षाहोमे तु पायसम् ॥
ततः स्विष्टकृतं हुत्वा बलिदानं समाचरेत् ॥ ४ ॥
इन्द्रादि लोकपालांश्च रक्षा पूज्या प्रयत्नतः ॥
धात्रीवृक्षस्य सर्वत्र वेदिकासंयुतस्य च ॥ ५ ॥
सूपेन गुडमिश्रेण बलिं पश्चान्निवेदयेत् ॥
देवि धात्रि नमस्तुभ्यं गृहाण बलिमुत्तमम्॥ ६ ॥
मिश्रितं गुडसूपाभ्यां सर्वमङ्गलदायिनि ॥
पुत्रान्देहि महाप्राज्ञान्यशो देहि शुभप्रदम् ॥ ७ ॥
प्रज्ञां मेधां च सौभाग्यं विष्णुभक्तिं च देहि मे ॥
नीरोगं कुरु मे नित्यं निष्पापं कुरु सर्वदा ॥ ८ ॥
वर्चस्कं कुरु मां देवि धनवन्तं तथा कुरु ॥
इति तां प्रार्थयेद्देवीं प्रादक्षिण्याद्बलिं न्यसेत् ॥ ९ ॥
बलिप्रदानकाले तु ये कुर्वन्ति प्रदक्षिणम् ॥
ते यान्ति विष्णुसालोक्यं पितृभिः सार्द्धमेव च ॥2.4.12.११०॥
ततः पूर्णाहुतिं कृत्वा होमशेषं समापयेत् ॥ ११ ॥
धात्रीवृक्षस्य मूलस्थं मन्दस्मितरमापतिम् ॥
ते यान्ति विष्णुसायुज्यं ये पश्यन्तीह चक्षुषा ॥ १२ ॥
वैश्वदेवं ततः कृत्वा पूजयेद्वनदेवताः ॥
गन्धाक्षतांस्ततो दत्त्वा विप्रेभ्यः पद्मसम्भव ॥ १३ ॥
ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः ॥
गृहं प्रवेशयेत्पश्चाद्वृद्धान्बालादिकैः सह ॥ १४ ॥
ब्रह्मचारी भवेद्रात्रौ क्षितिशायी भवेत्ततः ॥
ग्रामस्थैश्च मिलित्वा च स्वयं वा कारयेद्बुधः ॥ १५ ॥
सर्वपापविमुक्त्यर्थं वनभोजनमुत्तमम् ॥
कृत्वैवं सकलं कर्म कृष्णाय च समर्पयेत् ॥ १६ ॥
अश्वमेधसहस्रस्य राजसूयशतस्य च ॥
यत्फलं समवाप्नोति तत्फलं वनभोजने ॥ १७ ॥
अतो धात्री महाभाग पवित्रा पापनाशनी ॥
धात्री चैव नृणां धात्री धात्रीवत्कुरुते क्रियाम् ॥ १८ ॥
ददात्यायुः पयःपानात्स्नानाद्वै धर्मसञ्चयम् ॥
अलक्ष्मीनाशनं स्नानमात्रैर्निर्वाणमाप्नुयात् ॥
विघ्नानि नैव जायन्ते धात्रीस्नानेन वै नृणाम् ॥ १९ ॥
तस्मात्त्वं कुरु विप्रेन्द्र धात्रीस्नानं हि यत्नतः ॥
प्रयास्यसि हरेर्द्धाम देवत्वं प्राप्य नारद ॥ 2.4.12.१२० ॥
यत्रयत्र मुनिश्रेष्ठ धात्रीस्नानं समाचरेत् ॥
तीर्थे वाऽपि गृहे वाऽपि तत्रतत्र हरिः स्थितः ॥ २१ ॥
धात्रीस्नानेन विप्रर्षे यस्यास्थीनि कलेवरे ॥
प्रक्षाल्यन्ते मुनिश्रेष्ठ न स गर्भगृहं वसेत् ॥ २२ ॥
धात्रीजलेन विप्रेन्द्र येषां केशाश्च रञ्जिताः ॥
ते नराः केशवं यान्ति नाशयित्वा कलेर्मलम् ॥ २३ ॥
धात्रीफलं महापुण्यं स्नानं पुण्यतमं स्मृतम् ॥
पुण्यात्पुण्यतरं वत्स भक्षणे मुनिसत्तम ॥ ॥ २४ ॥
न गङ्गा न गया काशी न वेणी न च पुष्करम् ॥
एकैव हि यथा पुण्या धात्री माधववासरे ॥ २५ ॥
धात्रीस्नानं हरेर्नाम तथैवैकादशी सुत ॥
गयाश्राद्धं तथा वत्स समानि मुनयो विदुः ॥ २६ ॥
संस्पृशन्यस्तु वै धात्रीमहन्यहनि मानवः ॥
मुच्यते पातकैः सर्वैर्मनोवाक्कायसम्भवैः ॥ २७ ॥
धात्रीफलैरमावास्यासप्तमीनवमीषु च ॥
रविवारे च सङ्क्रान्तौ न स्नायान्मुनिसत्तम ॥ २८ ॥
यस्मिन्गृहेमुनिवर धात्री तिष्ठति सर्वदा ॥
तस्मिन्गृहे न गच्छन्ति प्रेतकूष्माण्डराक्षसाः ॥ २९ ॥
धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्नहि ॥
स वैष्णवो न विज्ञेयो विष्णोर्भक्तिपरो यदि ॥ 2.4.12.१३० ॥
न त्याज्या तुलसीमाला धात्रीमाला विशेषतः ॥
तथा पद्माक्षमालाऽपि धर्मकामार्थमीप्सुभिः ॥ ३१ ॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः ॥
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥ ३२ ॥
सर्वदेवमयी धात्री वासुदेवमनःप्रिया ॥
आरोपणीया सेव्या च पूजनीया सदा नरैः ॥ ३३ ॥
एतत्ते सर्वमाख्यातं धात्रीमाहात्म्यमुत्तमम् ॥
श्रोतव्यं च सदा भक्तैश्चतुर्वर्गफलप्रदम् ॥ ३४ ॥
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः ॥
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति ॥ १३५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीमाहात्म्यवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥ ॥ छ ॥