॥ नारद उवाच ॥ ॥
भगवन्प्रष्टुमिच्छामि त्वामहं विनयान्वितः ॥
तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति ॥ १ ॥
॥ ब्रह्मोवाच ॥ ॥
यदि पृच्छसि विप्रेन्द्र व्रतानामुत्तमं व्रतम् ॥
व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम् ॥ २ ॥
कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर ॥
कर्तव्यं तद्विधानेन सर्वमृत्युनिवारणम् ॥ ३ ॥
ब्राह्मे मुहूर्ते चोप्थाय द्वितीयायां मुनीश्वर ॥
मनसा चिन्तयेदात्महितं नैवाऽहितं स्मरेत् ॥ ४ ॥
प्रातःस्नानं ततः कुर्याद्दन्तधावनपूर्वकम् ॥ ततः
शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ ५॥
कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ॥
औदुम्बर तरुं गत्वा कृत्वा मण्डलमुत्तमम् ॥ ६ ॥
पद्ममष्टदलं कृत्वा तस्मिन्नौदुम्बरे शुभे॥ ॥
विधिं विष्णुं च रुद्रं च वरदां च सरस्वतीम् ॥ ७ ॥
वीणापुस्तकसंयुक्तां पूजयेत्स्वस्थमानसः ॥
चन्दनागरुकस्तूरीकुङ्कुमैर्द्विजसत्तम ॥ ८ ॥
पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलफलादिभिः ॥
ततो मृत्युविनाशाथ सालङ्कारां पयस्विनीम् ॥ ९ ॥
विप्राय वेदविदुषे गां दद्याच्च सवत्सकाम् ॥
अपमृत्युविनाशार्थं संसारार्णवतारकाम् ॥ 2.4.11.१० ॥
हे विप्र ते त्विमां सौम्यां धेनुं सम्प्रददाम्यहम् ॥
इति मन्त्रेण गां दद्याद्विप्राय ब्रह्मवादिने ॥ ११ ॥
तदलाभे तु विप्राय भक्त्या दद्यादुपानहौ ॥
ततः पूजां समाप्याथ भक्तिमान्पुरुषोत्तमे ॥ १२ ॥
ज्ञातिश्रेष्ठान्वयोवृद्धान्सम्यग्भक्त्याऽभिवादयेत् ॥
नानाविधैः फलै रम्यैस्तर्प्पयेत्स्वजनानपि ॥१३॥
ततः सोदरसम्पन्ना भगिनी या भवेन्मुने ॥
तस्या गृहं समागत्य सम्यग्भक्त्याऽभिवादयेत् ॥ १४ ॥
भगिनि सुभगे भद्रे त्वदङ्घ्रिसरसीरुहम् ॥
श्रेयसेऽथ नमस्कर्तुमागतोऽस्मि तवालयम् ॥ १९ ॥
इत्युक्त्वा भगिनीं तां तु विष्णुबुद्ध्याऽभिवादयेत् ॥
तदा तु भगिनी श्रुत्वा भ्रातुर्वचनमुत्तमम् ॥ १६ ॥
भगिन्या भ्रातरं वाक्यं वक्तव्यं प्रति नारद ॥
अद्य भ्रातरहं जाता त्वत्तो धन्याऽस्मि मङ्गला ॥ १७ ॥
भोक्तव्यं तेऽद्य मद्गेहे स्वायुषे कुलदीपक ॥
कार्तिके शुक्लपक्षस्य द्वितीयायां सहोदर ॥ १८ ॥
यमो यमुनया पूर्वं भोजितः स्वगृहेर्चितः ॥
अस्मिन्दिने यमेनाऽपि नारकीयाश्च मोचिताः ॥
अपि बद्धाः कर्मपाशैः स्वेच्छया पर्यटन्ति ते ॥ १९ ॥
स्वसुर्नरो वेश्मनि यो न भुङ्क्ते यमद्वितीयादिनमत्र लब्ध्वा ॥
तं पापिनं प्राप्य वयं सुहृष्टाः प्रभक्षयामोऽद्य च भक्ष्यहीनाः॥ 2.4.11.२० ॥
इति पापा रटन्तीह ब्रह्महत्यादयस्तथा ॥
तस्माद्भ्रातर्मद्गृहे तु भोजनं कुरु कार्तिके ॥ २१ ॥
शुक्लायां तु द्वितीयायां विश्रुतायां जगत्त्रये ॥
अस्यां निजगृहे पुत्र भुज्यते न बुधैरपि ॥ २२ ॥
इत्युक्तः स तथेत्युक्ता भगिनीं पूजयेद्व्रती ॥
प्रहर्षास्तुमहाभाग वस्त्रालङ्कारभूषणैः ॥ २३ ॥
अग्रजामभिवन्द्याऽथ आशिषं च प्रगृह्य च ॥
सर्वा भगिन्यः सन्तोष्या वस्त्रालङ्कारदानतः ॥ २४ ॥
अभावे स्वस्य तु स्वसुः पितृव्याः स्वपितुः स्वसा ॥
तस्या गृहं समागत्य कुर्याद्भोजनमादरात् ॥ २५ ॥
एवं यः कुरुते पुत्र द्वितीयां यमनामिकाम् ॥
अपमृत्युविनिर्मुक्तः पुत्रपौत्रादिभिर्वृतः ॥ २६ ॥
इह भुक्त्वा तु विपुलान्भोगानन्यान्यथेप्सितान् ॥
अन्ते मोक्षमवाप्नोति नान्यथा मद्वचो भवेत् ॥ २७ ॥
व्रतान्येतानि सर्वाणि दानानि विविधानि च ॥
गृहस्थस्यैव युज्यन्ते तस्माद्गार्हस्थ्यमाश्रयेत् ॥ २८ ॥
कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः ॥
तस्य सर्वाणि पापानि नश्यन्तीत्याह माधवः ॥ २९ ॥
॥ सूत उवाच ॥ ॥
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् ॥
भानुजायां नरः स्नात्वा यमलोकं न पश्यति ॥ ॥ 2.4.11.३० ॥
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक ॥
यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः ॥ ३१ ॥
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ॥
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वे निबन्धनात् ॥ ३२ ॥
अत्राऽऽशिताश्च सन्तुष्टाः स्थिताः सर्वे यदृच्छया ॥
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ॥ ३३॥
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ॥
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ॥ ३४ ॥
स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम् ॥
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ॥ ३९ ॥
महिषासनमारूढो दण्डमुद्गरभृत्प्रभुः ॥
वेष्टितः किङ्करैर्हृष्टैस्तस्मै याम्यात्मने नमः ॥ ३६ ॥
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः ॥
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् ॥ ३७ ॥
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्॥
व्याख्यातं सकलं पुत्र सरहस्यं मयाऽनघ ॥ ३८ ॥
यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितः प्रतितिथौ स्वसृसौहृदेन ॥
तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसम्पदमुत्तमां सः ॥ ३९ ॥
॥ सूत उवाच ॥ ॥
विशेषश्चात्र सम्प्रोक्तो वालखिल्यैर्महर्षिभिः ॥
तदहं सम्प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ॥ 2.4.11.४० ॥
॥ वालखिल्या ऊचुः ॥ ॥
कार्तिकस्य सिते पक्षे द्वितीया यमसञ्ज्ञिता ॥
तत्राऽपराह्ने कर्तव्यं सर्वथैव यमार्चनम् ॥ ४१ ॥
प्रत्यहं यमुनाऽऽगत्य यमं सम्प्रार्थयत्पुरा ॥
भ्रातर्मम गृहे याहि भोजनार्थं गणावृतः ॥ ४२ ॥
अद्यश्वो वा परश्वो वा प्रत्यहं वदते यमः ॥
कार्यव्याकुलचित्तानामवकाशो न जायते ॥ ४३ ॥
तदैकदा यमुनया बलात्कारान्निमन्त्रितः ॥
स गतः कार्तिके मासि द्वितीयायां मुनीश्वराः ॥ ४४ ॥
नारकीयजनान्मुक्त्वा गणैः सह रवेः सुतः ॥
कृताऽऽतिथ्यो यमुनया नानापाकाः कृताः खग ॥ ४५ ॥
कृताभ्यङ्गो यमुनया तैलैर्गन्धमनोहरैः ॥
उद्वर्तनं लापयित्वा स्नापितः सूर्यनन्दनः ॥ ४६ ॥
ततोऽलङ्कारकं दत्तं नानावस्त्राणि चन्दनम् ॥
माल्यानि च प्रदत्तानि मञ्चोपरि उपाविशत् ॥ ४७ ॥
पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने ॥
यमायाभोजयद्देवी यमुना प्रीतमानसा ॥४८॥
भुक्त्वा यमोऽपि भगिनीमलङ्कारैः समर्चयत् ॥
नानावस्त्रैस्ततः प्राह वरं वरय भामिनि ॥
इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत् ॥ ४९ ॥
॥यमुनोवाच ॥ ॥
प्रतिवर्षं समागच्छ भोजनार्थं तु मद्गृहे ॥ 2.4.11.५० ॥
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम ॥
येऽद्यैव भगिनीहस्तात्करिष्यन्ति च भोजनम् ॥
तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम् ॥ ५१ ॥
॥ यम उवाच ॥ ॥
यमुनायां तु यः स्नात्वा सन्तर्प्य पितृदेवताः ॥ ५२ ॥
भुङ्क्ते च भगिनीगेहे भगिनीं पूजयेदपि ॥
कदाचिदपि मद्वारं न स पश्यति भानुजे ॥ ५३ ॥
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम् ॥
तत्र स्नात्वा च विधिवत्सन्तर्प्य पितृदेवताः ॥ ५४ ॥
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः ॥
सूर्यस्याभिमुखो मौनी हृतचित्तः स्थिरासनः ॥ ५५ ॥
यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः ॥
भूताधिपो दत्तकृतानुसारी कृतान्तमेतद्दशभिर्जपन्ति ॥५६॥
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत् ॥
मन्त्रेणाऽनेन च तया भोजितः पूर्वमादरात् ॥५७॥
भ्रातस्तवानुजाताऽहं भुङ्क्ष्व भक्तमिदं शुभम् ॥
प्रीतये यमराजस्य यमुनाया विशेषतः ॥ ५८ ॥
ततः सन्तोष्य भगिनीं वस्त्रालङ्करणादिभिः ॥
स्वप्नेऽपि यमलोकस्य भविष्यति न दर्शनम्॥ ५९॥
नृपैः कारागृहे ये च स्थापिता मम वासरे ॥
अवश्यं ते प्रेषणीया भोजनार्थं स्वसुर्गृहे ॥ 2.4.11.६० ॥
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे ॥
येऽद्य बन्दी करिष्यन्ति ते ताड्या मम सर्वथा ॥ ६१ ॥
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्॥
तदभावे सपत्यायाः पितृव्यजागृहे ततः ॥ ६२॥
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा ॥
सापत्नगोत्रसम्बन्धैः कल्पयेदथवा क्रमम्॥ ६३ ॥
सर्वाऽभावे माननीया भगिनी काचिदेव हि ॥
गोनद्याद्यथवा तस्या अभावे सति कारयेत् ॥ ६४ ॥
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम् ॥
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन ॥ ६५ ॥
ये भुञ्जते दुराचारा नरके ते पतन्ति च ॥
एवमुक्त्वा धर्मराजो ययौ संयमिनीं ततः ॥ ६६ ॥
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः ॥
भुञ्जते भगिनीहस्तात्सत्यं सत्यं न संशयः ॥ ६७ ॥
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम् ॥
न कुर्याद्वर्षजं पुण्यं नश्यतीति रवेः श्रुतिः ॥ ६८ ॥
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ ॥
अर्चयेच्चाऽपि ताम्बूलैर्न सा वैधव्यमाप्नुयात् ॥ ६९ ॥
भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित् ॥
अपराह्नव्यापिनी सा द्वितीया भ्रातृभोजने ॥ 2.4.11.७० ॥
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे ॥
प्रवासिना ह्यभावाद्वा ज्वरितेनाऽथ बन्दिना ॥ ॥ ७१ ॥
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत् ॥
कार्तिके तु विशेषेण धात्रीछायां समाश्रितः ॥७२॥
भोजनं कुरुते यस्तु स वैकुण्ठमवाप्नुयात् ॥ ७३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये यमद्वितीयामाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥ छ ॥
टीका
अथ यमद्वितीयाविधानमाह-यदीति ।
यमद्वितीयाख्यायाः प्रयोजनं वक्तुमन्यासामप्याह पाद्मे-
‘स्कन्दैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः ॥
मासैश्चतुर्भिश्च ततः प्रावृट्काले सुखावहाः ॥
प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा ॥
तृतीयाऽश्वयुजे मासि चतुर्थी कार्तिके भवेत् ॥
कलुषा श्रावणे मासि तथा भाद्रपदेऽमला ॥
आश्विने प्रेतसञ्चारा कार्तिके याम्यका मता ॥
पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरन्दरे ॥
ब्रह्महत्यापनोदार्थमश्वमेधः प्रकीर्तितः ॥
क्रोधादिन्द्रेण वज्रेण ब्रह्महत्या निषूदिता ॥
षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ॥
नार्या भ्रूणहने वह्नौ संविभज्य यथाक्रमम् ॥
तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेऽनघ ॥
नारीवृक्षनदीभूमिवह्निभूणहनस्तथा ॥
कलुषीभवनं जाता ह्यतोऽर्थ कलुषा स्मृता ॥
मधुकैटभयो रक्ते पुरा मग्ना तु मेदिनी ॥
अष्टांऽगुला पवित्रा सा नारीणां तु रजो मलम् ॥
नद्यः प्रावृण्मलाः सर्वा वह्नेरूर्ध्वं मषी मलः ॥
निर्यासमलिनो वृक्षाः सङ्गाद्भ्रूणहनो मलाः ॥
कलुषाणि चरन्त्यस्यां तेनैषा कलुषा मता ॥
देवर्षिपितृधर्माणां निन्दका नास्तिकाः शठाः ॥
तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला ॥
अनध्यायेषु शास्त्राणि पाठयन्ति पठन्ति च ॥
साङ्ख्यकास्तार्किकाः श्रौतास्तेषां शब्दाऽपशब्दजात् ॥
मलात्पूता द्वितीयायां ततोऽर्थे निर्मला च सा ॥
कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत् ॥
नभस्येतेन निर्दिष्टा निर्मला सा तिथिर्बुधैः ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥
पितॄन्पितामहान्प्रेतसञ्चरात्प्रेतसञ्चरा ॥
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु सञ्चरः ॥
पुत्रपौत्रैस्तु दौहित्रैः स्वधामन्त्रैस्तु पूजिताः ॥
श्राद्धदानमखैस्तृप्ता यान्त्यतः प्रेतसञ्चरा ॥
महालये तु प्रेतानां सञ्चारो भुवि दृश्यते ॥
तेनैषा प्रेतसञ्चारा कीर्तिता शिखिवाहन ॥
यमस्य क्रियते पूजा यतोऽस्यां पावके नरैः ॥
तेनैषा याम्यका प्रोक्ता सत्यंसत्यं मयोदितम् ॥ इति ।
सनत्कुमारसंहितायाम्-
अस्यां निजगृहे देवि न भोक्तव्यं कदाचन ॥
ये भुञ्जते दुराचारा नरके ते पतन्ति च ॥
श्रावणे तु पितृव्यस्य कन्याहस्तेन भोजनम् ॥
मातुलस्य सुताहस्ताद्भोक्तव्यं भाद्रमासके ॥
पितुर्भ्रातुः स्वसुः कन्ये आश्विने तु तयोः क्रमात् ॥
अवश्यं कार्तिके मासि भोक्तव्यं भगिनीकरात् ॥।७ इति ॥