॥ ब्रह्मोवाच ॥ ॥
प्रतिपद्यथ चाऽभ्यङ्गं कृत्वा नीराजनं ततः ॥
सुवेषः सत्कथागीतैर्दानैश्च दिवसं नयेत् ॥ १ ॥
शङ्करस्तु पुरा द्यूतं ससर्ज सुमनोहरम् ॥
कार्तिके शुक्लपक्षे तु प्रथमेऽहनि सत्यवत् ॥ २ ॥
बलिराज्यदिनस्याऽपि माहात्म्यं शृणु तत्त्वतः ॥
स्नातव्यं तिलतैलेन नरैर्नारीभिरेव च ॥ ३ ॥
यदि मोहान्न कुर्वीत स याति यमसादनम् ॥
पुरा कृतयुगस्यादौ दानवेन्द्रो बलिर्महान् ॥ ४ ॥
तेन दत्ता वामनाय भूमिः स्वमस्तकान्विता ॥
तदानीं भगवान्साक्षात्तुष्टो बलिमुवाच ह ॥ ५॥
कार्तिके मासि शुक्लायां प्रतिपद्यां यतो भवान् ॥
भूमिं मे दत्तवान्भक्त्या तेन तुष्टोऽस्मि तेऽनघ ॥ ६ ॥
वरं ददामि ते राजन्नित्युक्त्वाऽदाद्वरं तदा ॥
त्वन्नाम्नैव भवेद्राजन्कार्तिकी प्रतिपत्तिथिः॥ ७ ॥
एतस्यां ये करिष्यन्ति तैलस्नानादिकार्चनम् ॥
तदक्षयं भवेद्राजन्नात्र कार्या विचारणा ॥ ८ ॥
तदाप्रभृति लोकेऽस्मिन्प्रसिद्धा प्रतिपत्तिथिः ॥
प्रतिपत्पूर्वविद्धा नो कर्तव्या तु कथञ्चन ॥ ९ ॥
तत्राभ्यङ्गं न कुर्वीत अन्यथा मृतिमाप्नुयात् ॥
प्रतिपद्यां यदा दर्शो मुहूर्तप्रमितो भवेत् ॥ ॥ 2.4.10.१० ॥
माङ्गल्यं तद्दिने चेत्स्याद्वित्तादिस्तस्य नश्यति ॥
बलेश्च प्रतिपद्दर्शाद्यदि विद्धं भविष्यति ॥ ११ ॥
तस्यां यद्यथ चाऽऽर्तिक्यं नारी मोहात्करिष्यति ॥
नारीणां तत्र वैधव्यं प्रजानां मरणं ध्रुवम् ॥ १२ ॥
अविद्धा प्रतिपच्चेत्स्यान्मुहूर्तमपरेऽहनि ॥
उत्सवादिककृत्येषु सैव प्रोक्ता मनीषिभिः ॥ १३ ॥
प्रतिपत्स्वल्पमात्राऽपि यदि न स्यात्परेऽहनि ॥
पूर्वविद्धा तदा कार्या कृता नो दोषभाग्भवेत् ॥ १४ ॥
तद्दिने गृहमध्ये तु कुर्यान्मूर्तिं तदाङ्गणे ॥
गोमयेन च तत्राऽपि दधि तत्पुरतः क्षिपेत् ॥ १५ ॥
आर्तिक्यं तत्र संस्थाप्य एवं कुर्याद्विधानतः ॥
अभ्यङ्गं ये न कुर्वन्ति तस्यां तु मुनिपुङ्गव ॥ १६ ॥
न माङ्गल्यं भवेत्तेषां यावत्स्याद्वत्सरं ध्रुवम् ॥
यो यादृशेन रूपेण तस्यां तिष्ठेच्छुभे दिने ॥ १७ ॥
आवर्षं तद्भवेत्तस्य तस्मान्मङ्गलमाचरेत् ॥
यदीच्छेत्स्वशुभान्भोगान्भोक्तुं दिव्यान्मनोहरान् ॥ १८ ॥
कुरु दीपोत्सवं रम्यं त्रयोदश्यादिकेषु च ॥
शङ्करश्च भवानी च क्रीडया द्यूतमास्थिते ॥ १९ ॥
गौर्या जित्वा पुरा शम्भुर्नग्नो द्यूते विसर्जितः ॥
अतोऽर्थं शङ्करो दुःखी गौरी नित्यं सुखस्थिता ॥ 2.4.10.२० ॥
द्यूतं निषिद्धं सर्वत्र हित्वा प्रतिपदं बुधाः ॥
प्रथमं विजयो यस्य तस्य संवत्सरं सुखम् ॥ २१ ॥
भवान्याऽभ्यर्थिता लक्ष्मीर्धेनुरूपेण संस्थिता ॥
प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत् ॥ २२ ॥
भूषणीयास्तदा गावो वर्ज्या वहनदोहनात् ॥ २३ ॥
गोवर्द्धन धराऽऽधार गोकुलत्राणकारक ॥
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव ॥ २४ ॥
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ॥
घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ॥ २५ ॥
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ॥
गावो मे हृदयं सन्तु गवां मध्ये वसाम्यहम् ॥ २६ ॥
॥ इति गोवर्द्धनपूजा ॥ ॥
सद्भावेनैव सन्तोष्य देवान्सत्पुरुषान्नरान् ॥
इतरेषामन्नपानैर्वाक्यदानेन पण्डितान् ॥ २७ ॥
वस्त्रैस्ताम्बूलधूपैश्च पुष्पकर्पूरकुङ्कुमैः ॥
भक्ष्यैरुच्चावचैर्भोज्यैरन्तःपुरनिवासिनः ॥२८॥
ग्राम्यान्वृषभदानैश्च सामन्तान्नृपतिर्धनैः ॥
पदातिजनसङ्घांश्च ग्रैवेयैः कटकैः शुभैः ॥
स्वनामाङ्कैश्च तान्राजा तोषयेत्सज्जनान्पृथक् ॥ २९ ॥
यथार्थं तोषयित्वा तु ततो मल्लान्नरांस्तथा ॥
वृषभान्महिषांश्चैव युध्यमानान्परैः सह ॥ 2.4.10.३० ॥
राज्ञस्तथैव योधांश्च पदातीन्समलङ्कृतान् ॥
मञ्चाऽऽरूढः स्वयं पश्येन्नटनर्तकचारणान् ॥ ३१ ॥
युद्धापयेद्वासयेच्च गोमहिष्यादिकं च यत् ॥
वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्तिवादनात् ॥ ३२ ॥
ततोऽपराह्नसमये पूर्वस्यां दिशि सुव्रत ॥
मार्गपालीं प्रबध्नाति दुर्गस्तम्भेऽथ पादपे ॥३३॥
कुशकाशमयीं दिव्यां लम्बकैर्बहुभिः प्रिये ॥
वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत् ॥ ३४ ॥
गावो वृषांश्च महिषान्महिषीर्घटकोत्कटान् ॥
कृतहोमैर्द्विजेन्द्रैस्तु बध्नीयान्मार्गपालिकाम् ॥ ३५ ॥
नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत ॥
मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे ॥
तले तव सुखेनाश्वा गजा गावश्च सन्तु मे ॥ ३६ ॥
मार्गपालीतले पुत्र यान्ति गावो महावृषाः ॥
राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः ॥ ३७ ॥
मार्गपाली समुल्लङ्घ्य नीरुजः सुखिनो हि ते ॥
कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः ॥ ३८ ॥
पूजां कुर्यात्ततः साक्षाद्भूमौ मण्डलके कृते ॥
बलिमालिख्य दैत्येन्द्रं वर्णकैः पञ्चरङ्गकैः ॥ ३९ ॥
सर्वाभरणसम्पूर्णं विन्ध्यावलिसमन्वितम् ॥
कूष्माण्डमयजम्भोरुमधुदानवसंवृतम् ॥ 2.4.10.४० ॥
सम्पूर्णं कृष्टवदनं किरीटोत्कटकुण्डलम् ॥
द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः ॥ ४१ ॥
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ॥
मातृभ्रातृजनैः सार्द्धं सन्तुष्टो बन्धुभिः सह ॥ ४२ ॥
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ॥
गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः ॥ ४३ ॥
मद्यमांससुरालेह्यचोष्यभक्ष्योपहारकैः ॥
मन्त्रेणाऽनेन राजेन्द्र समन्त्री सपुरोहितः ॥
पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ॥ ४४ ॥
बलिराज नमतुभ्यं विरोचनसुत प्रभो ॥
भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥ ४५ ॥
एवं पूजाविधानेन रात्रौ जागरणं ततः ॥
कारयेद्वै क्षणं रात्रौ नटनृत्यकथानकैः ॥ ४६ ॥
लोकश्चापि गृहस्यान्ते सपर्यां शुक्लतन्दुलैः ॥
संस्थाप्य बलिराजानं फलैः पुष्पैः प्रपूजयेत् ॥ ४७ ॥
बलिमुद्दिश्य वै तत्र कार्यं सर्व च सुव्रत ॥
यानि यान्यक्षयाण्याहुर्मुनयस्तत्त्वदर्शिनः ॥ ४८ ॥
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु ॥
तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम् ॥ ॥ ४९ ॥
रात्रौ ये न करिष्यन्ति तव पूजां बले नराः ॥
तेषां च श्रोत्रियो धर्मः सर्वस्त्वामुपतिष्ठतु ॥ 2.4.10.५० ॥
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः ॥
उपकारकरं दत्तमसुराणां महोत्सवम् ॥५१॥
एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ॥
दत्तं दानवराजस्य आदर्शमिव भूतले ॥५२॥
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ॥
सुभिक्षं क्षेममारोग्यं तस्य सम्पदनुत्तमा ॥ ५३ ॥
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ॥ ॥ ५४ ॥
कौमुदी क्रियते यस्माद्भावं कर्तुं महीतले ॥
यो यादृशेन भावेन तिष्ठत्यस्यां च सुव्रत ॥
हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि ॥ ॥५५॥
रुदिते रोदितं वर्षं प्रहृष्टे तु प्रहर्षितम् ॥
भुक्तौ भोग्यं भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति ॥ ५६ ॥
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके ॥ ५७ ॥
दीपोत्सवं जनितसर्वजनप्रमोदं कुर्वन्ति ये शुभतया वलिराजपूजाम् ॥
दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रमुदा च वर्षम् ॥५८॥
बलिपूजां विधायैवं पश्चाद्गोक्रीडनं चरेत् ॥ ५९ ॥
गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ॥
सोमो राजा पशून्हन्ति सुरभीपूजकांस्तथा ॥ 2.4.10.६० ॥
प्रतिपद्दर्शसंयोगे क्रीडनं तु गवां मतम् ॥
परविद्धासु यः कुर्यात्पुत्रदारधनक्षयः ॥ ६१ ॥
अलङ्कार्यास्तदा गावो गोग्रासादिभिरर्चिताः ॥
गीतवादित्रनिर्घोषैर्नयेन्नगरबाह्यतः ॥
आनीय च ततः पश्चात्कुर्यान्नीराजनाविधिम् ॥ ६२ ॥
अथ चेत्प्रतिपत्स्वल्पा नारी नीराजनं चरेत् ॥
द्वितीयायां ततः कुर्यात्सायं मङ्गलमालिकाः ॥ ६३ ॥
एवं नीराजनं कृत्वा सर्वपापैः प्रमुच्यते ॥
प्रतिपत्पूर्वविद्धैव यष्टिकाकर्षणे भवेत् ॥ ६४ ॥
कुशकाशमयीं कुर्याद्यष्टिकां सुदृढां नवाम् ॥
देवद्वारे नृपद्वारेऽथवाऽऽनेया चतुष्पथे ॥ ६५ ॥
तामेकतो राजपुत्रा हीनवर्णास्तथैकतः ॥
गृहीत्वा कर्षयेयुस्ते यथासारं मुहुर्मुहुः ॥ ६६ ॥
समसङ्ख्या द्वयोः कार्या सर्वेऽपि बलवत्तराः ॥
जयोऽत्र हीनजातीनां जयो राज्ञस्तु वत्सरम् ॥ ६७ ॥
उभयोः पृष्ठतः कार्या रेखा तत्कर्षकोपरि ॥
रेखान्ते यो नयेत्तस्य जयो भवति नाऽन्यथा ॥ ६८ ॥
जयचिह्नमिदं राजा निदधीत प्रयत्नतः ॥ ६९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकशुक्लप्रतिपन्माहात्म्यवर्णनन्नाम दशमोऽध्यायः ॥ १० ॥