॥ वालखिल्या ऊचुः ॥ ॥
कृष्णः प्रोवाच धर्माय द्वादशीं वत्ससञ्ज्ञिताम्॥
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने॥१॥
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि ॥
सवत्सां तुल्यवर्णां च शीलिनीं गां पयस्विनीम् ॥
चन्दनादिभिरालिप्य पुष्पमालाभिरर्चयेत् ॥ २ ॥
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर ॥
गोक्षीरं गोघृतं चैव दधिक्षीरं च वर्जयेत् ॥ ३ ॥
दिनान्ते सूर्यबिम्बार्धादुभयत्र घटीदलम् ॥
ततो नीराजनं कार्य्यं निरीक्षेच्च शुभाऽशुभम् ॥ ४ ॥
नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान् ॥
नीराजयेद्दीपपूर्वं निरीक्षेत शुभाऽशुभम् ॥५॥
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत् ॥
मुख्या दीपा नव प्रोक्ता अन्यानपि च कल्पयेत् ॥ ६ ॥
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता ॥
स्थिरा चेत्सौख्यदा प्रोक्ता विपरीता तु दुःखदा ॥ ७ ॥
कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पञ्चसु ॥
तिथिषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ॥ ८ ॥
पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च ॥
तृतीय ऋतुमेवेह चतुर्थस्त्वयनं तथा ॥
वर्षं तु पञ्चमो दीपः शुभाशुभं विनिर्णयेत् ॥ ९ ॥
सूर्यांशसम्भवा दीपा अन्धकारविनाशकाः ॥
त्रिकाले मां दीपयन्तु दिशन्तु च शुभाऽशुभम्॥ ॥ 2.4.9.१० ॥
अभिमन्त्र्य च मन्त्रेण ततो नीराजयेत्क्रमात् ॥ ११ ॥
आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरङ्गमान् ॥
ज्येष्ठाञ्च्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः ॥ १२ ॥
ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत् ॥
रूक्षैर्लक्ष्मीविनाशः स्याच्छ्वेतैरन्नक्षयो भवेत् ॥
अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च ॥ १३ ॥
एकाङ्गीनाम गोपाला तयैतच्च व्रतं कृतम् ॥
धनधान्यसमायुक्ता जाता वर्षत्रयेण सा ॥ १४ ॥ *
तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु ॥
एतद्गोव्रतमाहात्म्यं श्रुत्वा कुर्वन्ति ये नराः ॥ १५ ॥
ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि ॥
गोऽपराधः कृतो यः स्यात्स व्रताद्विलयं व्रजेत् ॥ १६ ॥
॥ वालखिल्या ऊचुः ॥ ॥
कृष्णपक्षे चतुर्दश्यां मासि चाऽऽश्वयुजे तथा ॥
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत् ॥ १७ ॥
प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दन्तधावनम्॥
त्रिरात्रनियमं कृत्वा गोविन्दे भक्तितत्परः ॥ १८ ॥
कार्य एतद्व्रतस्यान्ते तथा गोवर्द्धनोत्सवः ॥
त्रिमुहूर्ताऽधिका ग्राह्या परवेधो न दोषभाक् ॥ १९ ॥
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ॥
यमदीपं बलिं दद्यादपमृत्युर्विनश्यति ॥ 2.4.9.२० ॥
पुरा हेमनकस्यैव बालकश्चाऽपमृत्युतः ॥
मुक्तोभूदाश्विने कृष्णत्रयोदश्यां दयावशात् ॥ २१ ॥ ॥
॥ दूता ऊचुः ॥ ॥
यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे ॥
तथोपायं ब्रूहि यम कृपां कृत्वाऽस्मदग्रतः ॥ २२ ॥
॥ यम उवाच ॥
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ॥
प्रतिवर्षं तु यो दद्याद्गृहद्वारे सुदीपकम् ॥ २३ ॥
मन्त्रेणाऽनेन भो दूताः समानेयः स नोत्सवे ॥
प्राप्तेऽपमृत्यावपि च शासनं क्रियतां मम ॥ २४ ॥
मृत्युना पाशदण्डाभ्यां कालेन च मया सह ॥
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतामिति ॥ २५ ॥
मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति ॥
उत्सवे चाऽपमृत्योश्च भयं तस्य न जायते ॥ २६ ॥
॥ वालखिल्या ऊचुः ॥ ॥
पूर्वविद्धचतुर्दश्यामाश्विनस्य सितेतरे ॥
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ॥ २७ ॥
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ॥
तस्याऽब्दिकभवो धर्मो नश्यत्येव न संशयः ॥ २८ ॥
तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः ॥
यामिन्याः पश्चिमे यामे तैलाभ्यङ्गो विशिष्यते ॥ २९ ॥
यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये ॥
दिनद्वये भवेच्चाऽपि तदा पूर्वैव गृह्यते ॥ 2.4.9.३० ॥
बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत् ॥
तैलाभ्यङ्गं चतुर्दश्यां रौरवं नरकं व्रजेत् ॥३१॥
तैले लक्ष्मीर्जले गङ्गा दीपावल्याश्चतुर्दशीम् ॥
प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति ॥ ३२ ॥
अपामार्गमथो तुम्बीं प्रपुन्नाडमथाऽपरम् ॥
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ॥ ३३ ॥
वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम् ॥ ३४ ॥
सीतालोष्टसमायुक्त सकण्टकदलान्वित ॥
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥
अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि ॥ ३५ ॥
स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः ॥
शुनकौ श्यामशबलौ भ्रातरौ यमसेवकौ ॥
तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ ॥ ३६ ॥
इष्टवन्धुजनैः सार्द्धमेतत्स्नानं समाचरेत् ॥
स्नानाङ्गतर्पणं कृत्वा यमं सन्तर्पयेत्ततः॥ ३७ ॥
यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च ॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ ३८ ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ॥
वृकोदराय चित्राय चित्रगुप्ताय ते नमः ॥ ३९ ॥
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः ॥
एकैकेन तिलैर्मिश्रान्दद्यात्त्रीनुदकाञ्जलीन् ॥ 2.4.9.४० ॥
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा ॥
देवत्वं च पितृत्वं च यमस्याऽस्ति द्विरूपता ॥ ४१ ॥
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः ॥
नरकाय प्रदातव्यो दीपः सम्पूज्य देवताः ॥ ४२ ॥*
अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते ॥
इषे भूते च दर्शे च कार्तिके प्रथमे दिने ॥ ४३ ॥
यदा स्नाति तदाऽभ्यङ्गस्नानं कुर्याद्विधूदये।
ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे ॥ ४४ ॥
मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते ॥
दीपैर्नीराजनादत्र सैषा दीपावलिः स्मृता ॥ ४५ ॥
इन्दुक्षयेऽपि सङ्क्रातौ रवौ पाते दिनक्षये ॥
अत्राऽभ्यङ्गो न दोषाय प्रातः पापाऽपनुत्तये ॥ ४६ ॥
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः ॥
प्रेताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यते ॥४७॥
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि ॥
दर्शादौ स्वातिसंयुक्ते तदा दीपावलिर्भवेत् ॥ ४८ ॥
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ॥
महाराजो बलिः प्रोक्तस्तुष्टेन हरिणा तथा ॥ ४९ ॥
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते ॥
इति विष्णुवचः श्रुत्वा बलिर्वचनमब्रवीत् ॥ 2.4.9.५० ॥
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा ॥
लोकार्थं याचयिष्यामि शक्तश्चेद्देहि तच्च मे ॥ ५१ ॥
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे ॥
त्रिभिः पदैस्त्रिदिवसैः सा चाऽऽक्रान्ता यतस्त्वया ॥ ५२ ॥
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे ॥ ५३ ॥
मद्राज्ये ये दीपदानं भुवि कुर्वन्ति मानवाः ॥
तेषां गृहे तव स्त्रीयं सदा तिष्ठतु सुस्थिरा ॥ ५४ ॥
मम राज्ये गृहे यैषामन्धकारः पतिष्यति ॥
लक्ष्मीसन्तानान्धकारः सदा पततु तद्गृहे ॥ ५५ ॥
चतुर्दश्यां च ये दीपान्नरकाय ददन्ति च ॥
तेषां पितृगणाः सर्वे नरके न वसन्ति च ॥ ५६ ॥
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता ॥
तेषां गृहे कथं दीपाः प्रज्वलिष्यन्ति केशव ॥ ५७ ॥
बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः ॥
तेषां गृहे सदा शोकः पतेदिति न संशयः ॥ ५८ ॥
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ॥
पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम् ॥
ददावतिथयेन्द्राय बलिं पातालवासिनम् ॥ ५९ ॥
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् ॥
तस्मान्महोत्सवं चात्र सर्वथैव हि कारयेत् ॥ 2.4.9.६० ॥
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः ॥
अतस्तदुत्सवः कार्यः शक्तिपूजापरायणैः ॥ ६१ ॥
बलिराज्यं समासाद्य यक्षगन्धर्वकिन्नराः ॥
औषध्यश्च पिशाचाश्च मन्त्राश्च मणयस्तथा ॥ ६२ ॥
सर्व एव प्रहृष्यन्ति नृत्यन्ति च निशामुखे ॥
तत्तन्मन्त्राश्च सिद्ध्यन्ति बलिराज्ये न संशयः ॥ ६३ ॥
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः ॥
तथा तद्दिनमध्ये तु लोकाः स्युर्हर्षिता भृशम् ॥ ६४ ॥
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः ॥
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ॥ ६५ ॥
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा ॥
पश्यन्त्येव न सन्देहः कार्योऽत्र मुनिपुङ्गवैः ॥ ६६ ॥
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः॥
दीपदानादिकार्येषु ग्राह्या मध्याह्नकालिकाः ॥ ६७ ॥
यदि स्युः सङ्गवादर्वागेताश्च तिथयस्त्रयः ॥
दीपदानादिकार्येषु कर्तव्याः पूर्वसंयुताः ॥ ६८ ॥
॥ ऋषय ऊचुः ॥
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः ॥
तस्मिन्दिने तु किं भोज्यं कस्य पूजां तु कारयेत् ॥ ६९ ॥
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ॥
किं च तत्र भवेद्देयं किं न देयं विशेषतः॥2.4.9.७०॥
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता ॥
दीपावल्याः फलं सर्वं वदन्तु ऋषिसत्तमाः ॥ ७१ ॥
॥ वालखिल्या ऊचुः ॥ ॥
ततः प्रभात समये त्वमायां तु मुनीश्वराः ॥
स्नात्वा देवान्पितॄन्भक्त्या सम्पूज्याऽथ प्रणम्य च ॥ ७२ ॥
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः ॥
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥ ७३ ॥
ततः प्रदोषसमये पूजयेदिन्दिरां शुभाम् ॥
कुर्यान्नानाविधैर्वस्त्रैः स्वच्छं लक्ष्म्याश्च मण्डपम् ॥ ७४ ॥
नानापुष्पैः पल्लवैश्च चित्रैश्चाऽपि विचित्रितम् ॥
तत्र सम्पूजयेल्लक्ष्मीं देवांश्चाऽपि प्रपूजयेत् ॥ ७५ ॥
सम्पूज्या देवनार्योऽपि वहुभिश्चोपचारकैः ॥
पादसंवाहनं कुर्याल्लक्ष्म्यादीनां तु भक्तितः ॥ ७६ ॥
अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा ॥
बलिकारागृहाद्देवा लक्ष्मीश्चाऽपि विमोचिता ॥ ७७ ॥
लक्ष्म्या सार्द्धं ततो देवा जग्मुः क्षीरोदधौ पुनः ॥
प्रसुप्ता बहुकालं ते सुखं तस्मान्मुनीश्वराः॥७८॥
रचनीयाः सूत्रगर्भाः पर्यङ्काश्च सुतूलिकाः ॥
दुग्धफेनोपमैर्वस्त्रैरास्तृताश्च यथादिशम् ॥ ७९ ॥
स्थापयेत्तान्सुराल्ँलक्ष्मीं वेदघोषसमन्वितः ॥
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्ताम्बुजोदरे ॥2.4.9.८०॥
अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका ॥
तदह्नि पद्मशय्यां यः पद्मासौख्यविवृद्धये ॥ ८१ ॥
कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वाऽपि न व्रजेत् ॥
न कुर्वन्ति नरा इत्थं लक्ष्म्या ये सुखसुप्तिकाम् ॥ ८२ ॥
धनचिन्ता विहीनास्ते कथं रात्रौ स्वपन्ति हि ॥
तस्मात्सर्वप्रयत्नेन लक्ष्मीं सम्पूजयेन्नरः ॥ ८३ ॥
स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः ॥
जातिपत्रलंवगैलात्वक्कर्पूरसमन्वितम् ॥ ८४ ॥
पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम् ॥
लड्डुकांस्तस्य कुर्वीत तांश्च लक्ष्म्यै समर्पयेत् ॥ ८५ ॥
अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति ॥
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीं प्रबोधयेत् ॥ ८६ ॥
प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या ॥
पुमान्वा वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति ॥ ८७ ॥
अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः ॥
क्षीराब्धौ तुष्टुवुर्ज्ञात्वा सुप्तां पद्माश्रितां श्रियम् ॥ ८८ ॥
त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः ॥
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः ॥ ८९ ॥
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ॥
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम ॥ 2.4.9.९० ॥
दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम् ॥
भ्रामयेत्स्वस्य शिरसि सर्वाऽरिष्टनिवारणम् ॥ ९१ ॥
दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु ॥
चतुष्पथे श्मशाने च नदीपर्वतवेश्मसु ॥ ९२ ॥
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥
वस्त्रैः पुष्पैः शोभितव्या राजमार्गस्य भूमयः ॥ ९३ ॥
सर्वं पुरमलङ्कृत्य प्रदोषे तदनन्तरम् ॥
ब्राह्मणान्भोजयित्वाऽऽदौ सम्भोज्य च बुभुक्षितान्॥ ९४ ॥
अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना ॥
ततोऽपराह्नसमये घोषयेन्नगरं नृपः ॥ ९५॥
अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति ॥
यथेच्छं क्रीडतां बाला इत्याज्ञाप्य नृपेण तु ॥ ९६ ॥
तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभ्य ॥
बलिराज्ये प्रकर्तव्यं यद्यन्मनसि वर्तते ॥ ९७ ॥
जीवहिंसा सुरापानमगम्यागमनं तथा ॥
चौर्यं विश्वासघातश्च पञ्चैतानि मुनीश्वराः ॥
बलिराज्ये तु नरकद्वाराण्युक्तानि सन्त्यजेत् ॥ ९८ ॥
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ॥
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ॥
बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत् ॥ ९९ ॥
एवं गते निशीथे च जने निद्रार्द्धलोचने ॥
एवं नगरनारीभिः शूर्पडिण्डिमवादनैः ॥
निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात् ॥ 2.4.9.१०० ॥
दण्डैकरजनीयोगे दर्शः स्यात्तु परेऽहनि ॥
तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका ॥ १०१ ॥ *
ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः ॥
न कुर्वन्ति वृथा तेषां धर्माः स्युर्नात्र संशयः ॥ १०२ ॥
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः ॥
द्यूतेन वा हरेरग्रे गीतया वा तथैव च ॥१०३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनन्नाम नवमोऽध्यायः ॥ ९ ॥