॥ नारद उवाच ॥ ॥
भूयः कथय तृप्तिर्हि नास्ति मे कमलासन ॥
त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते ॥ १ ॥
॥ ब्रह्मोवाच ॥ ॥
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके विष्णुतत्परः ॥
देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः ॥
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ॥ २ ॥
भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत् ॥
तस्य पूजां न गृह्णाति नाऽत्र कार्या विचारणा ॥ ३ ॥
सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता ॥
भक्त्या विरहितं कर्म न विष्णोः प्रियकारणम् ॥ ४ ॥
भक्त्या सम्पूजितो नित्यं तुलस्यास्तु दलार्धतः ॥
स्वयं प्रत्यक्षमायाति भगवान्हरिरीश्वरः ॥ ५ ॥
विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च ॥
विष्णुलोकं गतः शीघ्रं चोलो गौणत्वमागतः ॥ ६ ॥
तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ॥
यत्पुरा विष्णुना प्रोक्तं रमायै तद्वदाम्यहम् ॥ ७ ॥
सम्प्राप्ते कार्तिके मासि तुलस्याः पूजनं हरेः॥
ये कुर्वन्ति नरा भक्त्या ते यान्ति परमं पदम् ॥८॥
तस्मात्सर्वप्रयत्नेन तुलस्याः कोमलैर्दलैः ॥
पूजनीयो महाभक्त्या सर्वक्लेशविनाशनः ॥ ९ ॥
रोपिता तुलसी यावत्कुरुते मूलविस्तरम् ॥
तावद्युगसहस्राणि ब्रह्मलोके महीयते ॥ 2.4.8.१० ॥
तुलसीपत्रसंयुक्तजले स्नानं चरेद्यदि ॥
सर्वपापविनिर्मुक्तो मोदते विष्णुमन्दिरे ॥ ११ ॥
वृन्दावनं च कुरुते रोपणार्थं महामुने ॥
तावतैव विमुक्ताऽघो ब्रह्मभूयाय कल्पते ॥ १२ ॥
तुलसीकाननं ब्रह्मन्गृहे यस्याऽवतिष्ठते ॥
तद्गृहं तीर्थभूतं तु न यान्ति यमकिङ्कराः ॥ १३ ॥
सर्वपापहरं पुण्यं कामदं तुलसीवनम् ॥
रोपयन्ति नराः श्रेष्ठास्ते न पश्यन्ति भास्करिम् ॥ १४ ॥
तुलसीकाष्ठसंयुक्तं गन्धं यो धारयेन्नरः ॥
तद्देहं न स्पृशेत्पापं क्रियमाणं तथैव च ॥ ॥ १५ ॥
तुलसीविपिनच्छाया यत्र चैव भवेद्द्विज ॥
तत्र श्राद्धं प्रकर्तव्यं पितॄणां तृप्तिहेतवे ॥ १६ ॥
यत्कृते तुलसीपत्रं कर्णे शिरसि दृश्यते ॥
यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः ॥ १७ ॥
तुलस्या महिमां यस्तु शृणुयान्नित्यमादृतः ॥
सवपापविमुक्तात्मा ब्रह्मलोकं स गच्छति ॥ १८ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥
तुलस्या विषये ब्रह्मञ्च्छ्रवणात्पापनाशनम् ॥ १९ ॥
पुरा काश्मीरदेशे तु ब्राह्मणौ सम्बभूवतुः ॥
हरिमेधःसुमेधाख्यौ विष्णुभक्तिपरायणौ ॥2.4.8.२०॥
सर्वभूतदयायुक्तौ सर्वतत्त्वार्थवेदिनौ ॥
कदाचित्तौ द्विजवरौ तीर्थयात्रापरायणौ ॥२१॥
गच्छतावेकतो विप्रौ कान्तारे श्रमविह्वलौ ॥
तुलसीकाननं तत्र ददर्शतुररिन्दमौ ॥ २२ ॥
तयोः सुमेधास्तद्दृष्ट्वा तुलसीकाननं महत् ॥
प्रदक्षिणीकृत्य तदा ववन्दे भक्तिसंयुतः ॥ २३ ॥
दृष्ट्वैतद्धरिमेधास्तु उवाच परया मुदा ॥
ज्ञातुं तुलस्या माहात्म्यं तत्फलं च पुनःपुनः ॥ २४ ॥ ॥
॥ हरिमेधा उवाच ॥ ॥
किमर्थं विप्र देवेषु तीर्थेषु च व्रतेषु च ॥
स्थितेषु विप्रमुख्येषु प्रणामं कृतवानसि ॥ २५ ॥
॥ सुमेधा उवाच ॥ ॥
शृणु विप्र महाभाग साधु वाक्यमुदीरितम् ॥
आतपो बाधते ह्यावां गत्वैतद्वटसन्निधौ ॥ २६ ॥
तस्यच्छायां समाश्रित्य वक्ष्यामि ते यथार्थतः ॥
एवमुक्तः सुमेधास्तु हरिमेधेन संयुतः ॥ २७ ॥
वटं जगाम धर्मज्ञो महत्कोटरसंयुतम् ॥
तत्र विश्राम्य विप्रोसौ हरिमेधमुवाच ह ॥ २८ ॥
श्रूयतां विप्रशार्दूल तुलस्यास्तूत्तमां कथाम् ॥
परमेशप्रसादेन सञ्जाता या पयोनिधौ ॥ २९ ॥
पुरा दुर्वाससः शापाद्गतैश्वर्ये पुरन्दरे ॥
ममन्थुः क्षीरजलधिं ब्रह्माद्याः ससुराऽसुराः ॥ 2.4.8.३० ॥
ऐरावतः कल्पतरुश्चन्द्रमाः कमला तथा ॥
उच्चैःश्रवा कौस्तुभश्च तथा धन्वन्तरिर्हरिः ॥ ३१ ॥
हरीतक्यादयश्चाऽपि दिव्या ओषधयस्तथा ॥
अजायन्त द्विजश्रेष्ठ लोकश्रेयोविधायकाः ॥ ३२ ॥
ततः पीयूषकलशमजरामरदायकम् ॥
कराभ्यां कलशं विष्णुर्धारयन्सुतलं परम् ॥
अवेक्ष्य मनसा सद्यः परां निर्वृतिमाप ह ॥ ३३ ॥
तस्मिन्पीयूषकलश आनन्दास्रोदबिन्दवः ॥
व्यपतंस्तुलसी सद्यः समजायत मण्डला ॥ ३४ ॥
सर्व लक्षणसम्पन्ना सर्वाभरणभूषिता ॥ ३५ ॥
तत्रोत्पन्नां तथा लक्ष्मीं तुलसीं च ददुर्हरेः ॥
देवा ब्रह्मादयस्ते हि जगृहे भगवान्हरिः ॥ ३६ ॥
ततोऽतीव प्रियकरा तुलसी जगतां पतेः॥३७॥
सा तु देवगणैः सर्वैर्विष्णुवत्पूज्यते प्रिया ॥
नारायणो जगत्त्राता तुलसी तस्य वल्लभा ॥३८॥
तस्मात्तस्या नमस्कारो मया विप्र कृतस्ततः ॥
इत्येवं वदतस्तस्य सुमेधस्य महात्मनः ॥ ३९ ॥
आराददृश्यत महद्विमानं सूर्यवर्चसम् ॥
तदानीं वटवृक्षस्तु पपात पुरतो मुने ॥2.4.8.४०॥
तथैव तस्माद्वृक्षाच्च पुरुषौ द्वौ विनिर्गतौ ॥
द्योतयन्तौ दिशः सर्वास्तेजसा सूर्यसन्निभौ ॥ ४१ ॥
प्रणामं चक्रतुस्तौ हि हरिमेधसुमेधयोः ॥
हरिमेधसुमेधौ तौ तौ दृष्ट्वा भयविह्वलौ ॥ ४२॥
ऊचतुर्विस्मयाविष्टौ तावुभौ देवसन्निभौ ॥४३॥
हरिमेधसुमेधसावूचतुः ॥
युवां कौ देवसङ्काशौ भवन्तौ सर्वमङ्गलौ ॥
मन्दारमालां तरुणां धारयन्तौ तथाऽमरौ ॥
नमस्कार्यौ तथाऽऽवाभ्यां पूज्यौ च सुररूपिणौ ॥ ४४ ॥
इत्युक्तौ ब्राह्मणाभ्यां तावूचतुर्वृक्षनिर्गतौ ॥
युवामेव पिता माता आवयोश्च तथा गुरुः ॥४५॥
बन्ध्वादयस्तथा चैव युवामेव न संशयः ॥
ज्येष्ठ उवाच ॥ ॥
अहं तु देवलोकस्य आस्तीकोनाम नामतः ॥ ४६ ॥
अप्सरोगणसंवीतः कदाचिन्नन्दन वनम् ॥
क्रीडार्थमगमं चाद्रौ विषयासक्त चेतनः ॥ ४७ ॥
रेमिरे देववनिता यथाकामं मया सह ॥
मुक्तामल्लिकमाल्यानि निपेतुस्तानि योषिताम् ॥ ४८ ॥
तपतो रोमशस्यैव तद्दृष्ट्वा कुपितो मुनिः ॥
योषितां नाऽपराधोयं यासां वै परतन्त्रता ॥ ४९ ॥
अयमेव दुराचारः शापार्ह इति चाऽब्रवीत् ॥
त्वं ब्रह्मराक्षसो भूत्वा वटवृक्षे चरेति माम् ॥ 2.4.8.५० ॥
प्रसादितो मया सोऽथ विशापमपि दत्तवान् ॥
तुलसीपत्रमाहात्म्यं विष्णोर्नाम तथा द्विजात् ॥ ॥५१॥
यदा शृणोषि सद्यस्त्वं विमुक्तिं यास्यसे पराम्॥
इति शप्तस्तु मुनिना चिरकालं सुदुःखितः ॥ ५२ ॥
वसाम्यत्र वटे दैवाद्भवद्दर्शनतो ध्रुवम् ॥
मुक्तिर्जाता विप्रशापाद्द्वितीयस्य कथां शृणु ॥ ५३ ॥
अयं मुनिवरः पूर्वं गुरुशुश्रूषणे रतः ॥
गुरोराज्ञामनादृत्य ब्रह्मराक्षसतां गतः ॥ ॥५४ ॥
युष्मत्प्रसादादधुना ब्रह्मशापाद्विमोचितः ॥
तीर्थयात्राफलं चैव युवाभ्यामिह साधितम् ॥५५॥
उत्तरोत्तरपुण्यानि वर्धन्ते च दिनेदिने ॥
इत्युक्त्वा तौ मुनिवरौ प्रणम्य च पुनःपुनः ॥ ५६ ॥
तावनुज्ञाप्य तौ धाम जग्मतुः परया मुदा ॥
ततस्तौ तीर्थयात्रार्थं परमौ मुनिपुङ्गवौ ॥ ॥ ५७ ॥
शंसन्तौ तुलसीं पुण्यां जग्मतुर्मुनिपुङ्गव ॥
एवं नारद माहात्म्यं तुलस्याः को नु वर्णयेत् ॥ ५८ ॥
तस्मान्नारद मासेऽस्मिन्कार्तिके हरितुष्टिदे ॥
कर्तव्या तुलसीपूजा नाऽत्र कार्या विचारणा ॥ ५९ ॥
एवमङ्ग व्रतान्येव प्रोक्तानि मुनिसत्तम ॥
उपाङ्गानि प्रवक्ष्यामि वालखिल्योदितानि च ॥ 2.4.8.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये तुलसीमाहात्म्यवर्णनं नामाऽष्टमोऽध्यायः ॥८॥