॥ नारद उवाच ॥ ॥
भगवन्कृतकृत्योऽस्मि तव पादसमाश्रयात् ॥
श्रोतव्यं नेह भूयो मे विद्यते देवसत्तम ॥ १ ॥
तथापि भगवन्किञ्चित्प्रष्टव्यं मे हृदि स्थितम्॥
त्वद्वाक्यामृतपीतस्य न मे तृप्तिर्हि जायते ॥२॥
दीपदानस्य माहात्म्यं श्रोतुमिच्छामि ते प्रभो ॥
येन चाऽपि पुरा दत्तस्तद्वदस्व चतुर्मुख ॥३॥
॥ ब्रह्मोवाच ॥ ॥
प्रातः स्नात्वा शुचिर्भूत्वा दीपं दद्यात्प्रयत्नतः ॥
तेन पापानि नश्येयुस्तमांसीव भगोदये ॥४॥
आजन्म यत्कृतं पापं स्त्रिया वा पुरुषेण च ॥
तत्सर्वं नाशमायाति कार्तिके दीपदानतः ॥ ५ ॥
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ॥
श्रवणात्सर्वपापघ्नं दीपदानफलप्रदम् ॥ ६ ॥
पुरा द्रविडदेशे तु ब्राह्मणो बुद्धनामकः ॥
तस्य भार्याऽभवद्दुष्टा अनाचाररता मुने ॥ ७ ॥
तस्याः संसर्गदोषेण क्षीणाऽऽयुर्मृतिमाप्तवान् ॥
पत्यौ मृतेऽपि सा पत्नी अनाचारे विशेषतः ॥ ८ ॥
रताभून्न हि तस्यास्तु लज्जा लोकापवादतः ॥
सुतबन्धुविहीना सा सदाभिक्षान्नभोजना ॥ ९ ॥
न संस्कारान्नमल्पं वा भुक्त्वा पर्युषिताशिनी ॥
परपाकरता नित्यं तीर्थयात्रादिवर्जिता ॥ ॥ 2.4.7.१० ॥
कथायाः श्रवणं चैव न श्रुतं तु तया द्विज ॥
एकदा ब्राह्मणः कश्चित्तीर्थयात्रापरायणः ॥ ११ ॥
तस्या गृहं समागच्छद्विद्वान्वै कुत्सनामकः ॥
अनाचाररतां तां तु दृष्ट्वा ब्रह्मर्षिसत्तमः ॥
कोपेन रक्तचक्षुः संस्तामुवाचाऽसतीं स्त्रियम् ॥ १२ ॥
॥ कुत्स उवाच ॥ ॥
वक्ष्यामि साम्प्रतं मूढे मद्वाक्यमवधारय ॥ १३ ॥
दुःखहेतुमिमं देहं पूयशोणितपूरितम् ॥
पञ्चभूतात्मकं चैव किं च पुष्णासि दूतिके ॥ १४ ॥
जलबुद्बुदवद्देहो नाशमायाति निश्चितम् ॥
अनित्यं देहमाश्रित्य नित्यं त्वं मन्यसे हृदि ॥ १५ ॥
तस्मादन्तःस्थितं मोहं त्यज मूढे विचारतः ॥
स्मर सर्वोत्तमं देवं कुरु श्रवणमादरात् ॥ १६ ॥
कार्तिके मासि सम्प्राप्ते स्नानदानादिकं कुरु ॥
दामोदरस्य प्रीत्यर्थं दीपदानं तथा कुरु ॥ १७ ॥
लक्षवर्त्यादिकं चैव लक्षपद्मादिकं तथा ॥
प्रदक्षिणां तु देवस्य नमस्कारं तथैव च ॥ १८ ॥
धारणं पारणं चैव कुरु भक्त्या हि कार्तिके ॥
विधवानां व्रतमिदं सधवानां तथैव च ॥ १९ ॥
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥
तत्राऽपि कार्तिके मासि दीयतां दीप उत्तमः ॥ 2.4.7.२० ॥
दीपो हरेः प्रियकरः कार्तिके मासि निश्चितम् ॥
महापातककृद्वापि दीपदानात्प्रमुच्यते ॥ २१ ॥
पुरा कश्चिद्द्विजवरो नाम्ना हरिकरो ह्यभूत् ॥
अधर्मविषयासक्तः शश्वद्वेश्यारतो द्विजः ॥ २२ ॥
पितृवित्तक्षयकरो वंशच्छेदे कुठारकः ॥
कदाचित्तेन विधवे द्यूते पितृधनं महत् ॥ २३ ॥
हारितं दुष्टसंसर्गात्ततो दुःखी स चाऽभवत् ॥
कदाचित्साधुसंसर्गात्तीर्थयात्राप्रसङ्गतः ॥ २४ ॥
अयोध्यामागतो वत्से महापापकरो द्विजः ॥
कार्तिके मासि सम्प्राप्तः श्रीमद्द्विजगृहे सदा ॥२५॥
द्यूतव्याजेन तेनाऽऽशु दीपो दत्तो हरेः पुरः ॥
ततः कालान्तरे विप्रो मृतो मोक्षमवाप्तवान् ॥ २६ ॥
महापातककृद्वाऽपि गतवानभयं हरिम् ॥
तस्मात्त्वं कार्तिके मासि दीपदानं तथा कुरु ॥ २७ ॥
तथाऽन्यान्यपि दानानि कुरु भक्तिसमन्विता ॥
इत्यादिश्याथ तां कुत्सो जगामाऽन्यगृहं द्विजः ॥ २८ ॥
साऽपि कुत्सवचः श्रुत्वा पश्चात्तापेन संयुता ॥
व्रतं तु कार्तिके मासि करिष्यामीति निश्चिता ॥ २९ ॥
पतङ्गोदयवेलायां कार्तिके स्नानमम्भसि ॥
दीपदानं वत चैव मासमेकं चकार सा ॥ 2.4.7.३० ॥
ततः कालान्तरे चैव गतायुर्मृतिमागता ॥
दीपदानस्य माहात्म्यान्महापापकृदप्यसौ ॥ ३१ ॥
स्वर्गमार्गं गता सा स्त्री काले मोक्षमवाप ह ॥
तस्मान्नारद माहात्म्यं दीपदानस्य को वदेत् ॥ ३२ ॥
कार्तिके दीपदानं तु महापुण्यफलप्रदम् ॥
कार्तिकव्रतनिष्ठो यो दीपदानादिकृन्नरः ॥ ३३ ॥
दीपदानस्येतिहासं शृण्वन्वै मोक्षमाप्नुयात् ॥ ३४ ॥
दीपदानस्य माहात्म्यं वक्तुं केनेह शक्यते ॥
परदीपप्रबोधस्य माहात्म्यं शृणु नारद ॥ ३५ ॥
स्वस्याऽपि शक्तिराहित्ये परस्याऽपि प्रबोधनम् ॥
यः कुर्याल्लभते सोऽपि नाऽत्र कार्या विचारणा ॥ ३६ ॥
दीपार्थं वर्तिकां तैलं पात्रं वा यो ददाति हि ॥
सहायं वाऽथ कुरुते ददतां दीपमुत्तमम् ॥ ३७ ॥
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ॥
कार्तिके दीपदानस्य माहात्म्यं को नु वर्णयेत् ॥ ३८ ॥
स्वस्यापि शक्तिराहित्ये परदीपं प्रबोधयेत् ॥
सोऽपि तत्फलमाप्नोति नाऽत्र कार्या विचारणा ॥ ३९ ॥
वेश्या चेन्दुमतीनाम तस्या गेहेऽथ मूषिका ॥
परदीपप्रबोधेन मोक्षं प्राप सुदुर्लभम् ॥ 2.4.7.४० ॥
तस्मात्सर्वप्रयत्नेन परदीपं प्रबोधयेत् ॥
तेन मोक्षमवाप्नोति मूषिकावन्न संशयः ॥ ४१ ॥
परदीपप्रबबोधस्य फलमीदृग्विधं मुने ॥
साक्षाद्दीपप्रदानस्य माहात्म्यं केन वर्ण्यते ॥ ४२ ॥
॥ नारद उवाच ॥ ॥
कार्तिके दीपदानस्य माहात्म्यं च मया श्रुतम् ॥
परदीप प्रबोधस्य माहात्म्यमपि वै श्रुतम् ॥
इदानीं श्रोतुमिच्छामि व्योमदीपस्य वैभवम् ॥ ४३ ॥
॥ ब्रह्मोवाच ॥ ॥
आकाशदीप माहात्म्यं शृणु पुत्र समाहितः ॥
यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत् ॥ ४४ ॥
सम्प्राप्ते कार्तिके मासि प्रातःस्नानपरायणः ॥
आकाशदीपं यो दद्यात्तस्य पुण्यं वदाम्यहम् ॥ ४५ ॥
सर्वलोकाधिपो भूत्वा सर्वसम्पत्समन्वितः ॥
इह लोके सुखं भुक्त्वा चान्ते मोक्षमवाप्नुयात् ॥ ४६ ॥
स्नानदानक्रियापूर्वं हरिमन्दिरमस्तके ॥
आकाशदीपो दातव्यो मासमेकं तु कार्तिके ॥
कार्तिके शुद्धपूर्णायां विधिनोत्सर्जयेच्च तम् ॥ ४७ ॥
यः करोति विधानेन कार्तिके व्योम्नि दीपकम् ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ४८ ॥
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ॥
यस्य श्रवणमात्रेण व्योमदीपफलं लभेत् ॥ ४९ ॥
पुरा तु निष्ठुरोनाम लुब्धको लोककण्टकः ॥
यमुनातीरवासी च कालमृत्युरिवाऽपरः ॥ 2.4.7.५० ॥
वने चरन्मृगान्सर्वान्हत्वा वृत्तिमकल्पयत् ॥
पथिकान्बाधते नित्यं चोरवृत्त्या धनुर्धरः ॥ ५१ ॥
कञ्चिद्ग्रामं जगामाशु चौर्यार्थं कार्तिके मुने ॥
तस्मिन्विदर्भनगरे राजा सुकृतिनामकः ॥ ५२ ॥
चन्द्रशर्माख्यविप्रस्य वचनात्कार्तिके सुधीः ॥
चकार व्योमदीपं तु हरिमन्दिरमस्तके ॥ ५३ ॥
दीपं दत्त्वा महाभक्त्या अशृणोच्च कथां निशि ॥
एतस्मिन्नेव काले तु चौर्यार्थं समुपागतः ॥॥ ५४ ॥
राज्ञा दत्तं व्योमदीपं पश्यन्क्षणमतिष्ठत ॥
तदानीं दैवयोगेन गृध्रो जवसमन्वितः ॥ ५५ ॥
शीघ्रमागत्य जग्राह तैलपात्रं सदीपकम् ॥
स्वमुखेनैव सङ्गृह्य वृक्षाग्रं च समाश्रयत् ॥ ५६ ॥
तत्र पीत्वा तु तैलं च दीपं स्थाप्य स पक्षिराट् ॥
वृक्षाग्रं तु समास्थाय क्षणमात्रमतिष्ठत ॥ ५७ ॥
तदानीं दैवयोगेन ग्रहीतुं पक्षिसत्तमम् ॥
मार्जारोऽप्यारुहद्वृक्षं पक्षिणाऽधिष्ठितं तु तम् ॥ ५८ ॥
तदग्रे मुखदीपं च पश्यन्क्षणमतिष्ठत ॥
आकाशदीपमाहात्म्यं कथितं चन्द्रशर्मणा ॥ ५९ ॥
राज्ञे सुकृतिनाम्ने च तौ वै शुश्रुवतुः क्षणम् ॥
खगमार्जारकौ तत्र स्वस्वचामचल्यदोषतः ॥ 2.4.7.६० ॥
मार्जारो जगृहे तत्र शाखामतरगतं खगम् ॥
दैवेन चोदितौ वृक्षाच्छिलायां पतितौ तदा ॥ ६१ ॥
भग्नगात्रौ मृतौ तत्र पक्षिमार्जारकौ भुवि ॥
दिव्यदेहसमायुक्तौ यानारूढौ दिवं गतौ ॥ ६२ ॥
तत्सर्वं लुब्धको दृष्ट्वा चौर्यार्थं समुपागतः ॥
निवृत्तो दुष्टभावेन कथयन्तं कथां मुनिम् ॥ ६३ ॥
चन्द्रशर्माणमाभाष्य इदं वचनमब्रवीत् ॥
चन्द्रशर्मन्मया दृष्टं चौर्यार्थं ह्यागतेन च ॥६४॥
राज्ञा सुकृतिना दत्तं व्योमदीपं मनोहरम् ॥
तदानीं दैवयोगेन खगः पात्रं प्रगृह्य च ॥ ६५ ॥
तैलं पीत्वा तु तत्पात्रं सदीपं तु मनोहरम् ॥
वृक्षाग्रे स्थापयित्वा च तत्र क्षणमतिष्ठत ॥ ६६ ॥
मार्जारोऽप्यागतस्तत्र ग्रहीतुं पक्षिपुङ्गवम् ॥
दैवेन प्रेरितौ तौ च उभे शाखे समाश्रितौ ॥ ॥ ६७ ॥
त्वन्मुखात्कथ्यमानां हि कथां शुश्रुवतुः क्षणम् ॥
पश्चाच्चाञ्चल्यदोषेण मार्जारो ह्यग्रहीत्खगम् ॥ ६८ ॥
तौ वृक्षात्पतितौ मृत्युं प्राप्तौ च क्षणमात्रतः ॥
उभौ तौ दिव्यरूपौ च यानारूढौ दिवं गतौ ॥ ६९ ॥
तदाश्चर्यमहं दृष्ट्वा त्वां प्रष्टुं समुपागतः ॥
तौ कौ पुरा च मार्जारखगौ तद्वद भो द्विज ॥ 2.4.7.७० ॥
तिर्यग्योनिसमापन्नौ मुक्तौ केन च कर्मणा ॥
इति लुब्धवचः श्रुत्वा चन्द्रशर्माऽब्रवीत्तदा ॥ ७१ ॥
शृणु लुब्ध प्रवक्ष्यामि तयोर्वृत्तान्तमञ्जसा ॥
मार्जारोऽपि पुरा पापी तथा श्रीवत्सगोत्रजः ॥ ७२ ॥
देवशर्मा इति प्रोक्तो देवद्रव्याऽपहारकः ॥
अहोबलनृसिंहस्य पूजाकर्तृत्वमाप सः॥ ७३ ॥
तस्मिन्देवालये प्राप्तं तैलं द्रव्यादिकं तथा ॥
अपहृत्य च तेनैव कुटुम्बं पोषयत्यसौ ॥ ७४ ॥
आयुर्नीत्वैवमेवाऽसौ ततः पञ्चत्वमागतः ॥
तस्मात्पापात्कालसूत्रं महारौरवरौरवम् ॥ ७५ ॥
निरुच्छ्वासं तथा प्राप्य असिपत्रवनं क्रमात् ॥
छिद्यमानो महाकायैर्यमदूतैर्भयङ्करैः ॥ ७६ ॥
अनुभूय च तान्सर्वान्ब्रह्मराक्षसतां गतः ॥
ततस्तु श्वानयोनौ च चण्डालोऽभूत्कुकर्मतः ॥ ७७ ॥
एवं जन्मशतं प्राप्य भूमौ मार्जारतां गतः ॥
आकाशदीपमाहात्म्यं श्रुत्वेदानीं तु दैवतः ॥
निर्मुक्ताऽखिलपापस्तु अगमद्धरिमन्दिरम् ॥ ७८ ॥
गृध्रोऽयं तु पुरा विप्रो मिथिले वेदपारगः ॥
शर्यातिरिति विख्यातौ नाम्ना लोके महाप्रभुः ॥॥ ७९॥
दासीसङ्गं चकारासौ वेश्यासङ्गं तथैव च ॥
तेन दोषेण महता पञ्चत्वमगमत्तदा ॥ 2.4.7.८० ॥
कुम्भीपाके महाघोरे स्थित्वा युगचतुष्टयम् ॥
कर्मशेषेण भूमौ च गृध्रत्वमगमत्तदा ॥ ८१ ॥
दैवेन चोदितो गृध्रस्तैलपानार्थमागतः ॥८२॥
दत्त्वा चाकाशदीपं च श्रुत्वा चैव हरेः कथाम् ॥
विध्वस्ताऽखिलपापस्तु जगाम हरिमन्दिरम् ॥ ८३ ॥
इत्येतत्सर्वमाख्यातं लुब्ध गच्छ यथासुखम् ॥
व्याधोऽप्यस्य वचः श्रुत्वा गत्वा चैव स्वमन्दिरम् ॥ ८४ ॥
व्रतं चाकाशदीपस्य चकार विधिवन्मुने ॥
आयुःशेषं तदा नीत्वा जगाम हरिमन्दिरम् ॥ ८५ ॥
सुनन्दोपि महाराज आश्चर्यं समुपागतः ॥
चकार विधिना मासं चन्द्रशर्मोक्तमार्गतः ॥ ८६ ॥
प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके मासि वै नृपः ॥
कोमलैस्तुलसीपत्रैः समभ्यर्च्य जनार्दनम् ॥ ८७ ॥
रात्रौ दद्याद्व्योमदीपं मन्त्रेणानेन वै नृपः॥ ८८ ॥
दामोदराय विश्वाय विश्वरूपधराय च ॥
नमस्कृत्वा प्रदास्यामि व्योमदीपं हरिप्रियम् ॥
निर्विघ्नं कुरु देवेश यावन्मासः समाप्यते ॥ ८९ ॥
व्रतेनाऽनेन देवेश त्वयि भक्तिः प्रवर्द्धताम् ॥
इति मन्त्रेण राजाऽसौ दीपदानं चकार ह ॥ 2.4.7.९० ॥
ब्राह्मे मुहूर्ते च पुनर्व्योमदीपं ददाति हि ॥
विष्णोः पूजा कृता प्रातः प्रातःस्नानं चकार ह ॥ ९१ ॥
उत्सर्गस्य विधिं कृत्वा व्योम्नि दीपं समाप्य च ॥
ब्राह्मणान्भोजयित्वा च व्रतं विष्णोः समार्पयत् ॥ ९२ ॥
तेन पुण्यप्रभावेन स राजा मुनिसत्तम ॥
शरदां शतसाहस्रमिह भोगान्मनोहरान् ॥ ९३ ॥
सुपुत्रपौत्रस्वजनैर्बुभुजे सह भार्यया ॥
ततश्चांऽते द्विजवर विमानं सुमनोहरम् ॥ ९४ ॥
स्त्रीभिः सह समारुह्य मोक्षमार्गं गतो मुने ॥
चतुर्भुजः पीतवासाः शङ्खचक्रगदाधरः ॥ ९५ ॥
विष्णुलोके विष्णुरिव प्रोच्यमानः सदाऽमरैः ॥
क्रीडयामास राजाऽसौ यथाकामं महामनाः ॥ ९६ ॥
तस्मात्तु कार्तिके मासि मानुष्यं प्राप्य दुर्लभम् ॥
आकाशदीपो दातव्यो विधानेन हरेः प्रियः ॥९७॥
दास्यन्ति ये कार्तिकमासि मर्त्या व्योमप्रदीपं हरितुष्टयेऽत्र ॥
पश्यन्ति ते नैव कदाऽपि देवं यमं महाक्रूरमुखं मुनीन्द्र ॥ ९८ ॥
अथाऽन्यच्च प्रवक्ष्यामि व्योमदीपस्य वैभवम् ॥
वालखिल्यैः पुरा प्रोक्तं तच्छृणुष्व द्विजोत्तम ॥ ९९ ॥
॥ वालखिल्या ऊचुः ॥ ॥
कृष्णादिमासक्रमतः कार्तिकस्यादिमासतः ॥
आकाशादीपदानं तु कुर्वन्तु ऋषिसत्तमाः ॥ 2.4.7.१०० ॥
तुलायां तिलतैलेन सायं सन्ध्यासमागमे ॥
आकाशदीपं यो दयान्मासमेकं निरन्तरम् ॥ १ ॥
सश्रीकाय श्रीपतये श्रिया न स वियुज्यते ॥
आकाशदीपवंशस्तु विंशद्धस्तोत्तमो भवेत् ॥ २ ॥
मध्यमो नवहस्तः स्यात्कनिष्ठः पञ्चहस्तकः ॥
यथा दूरस्थितैर्लोकैर्दृश्यते तत्तथाऽऽचरेत् ॥ ३ ॥
तथाऽभ्रादिकरण्डेषु दीपदानं विशिष्यते ॥
वंशस्य नवमांशेन लम्बा कार्या पताकिका ॥ ४ ॥
मयूरपिच्छमुष्टिं वा कलशं चोपरि न्यसेत् ॥
विष्णुप्रीतिकरो दीपः पित्रुद्धारस्य कारकः ॥ ५ ॥
एकादश्यास्तुलार्काद्वा दीपदानमतोऽपि वा ॥
दामोदराय नभसि तुलायां लोलया सह ॥६॥
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे ॥
आकाशदीपसदृशं पितुरुद्धारकं नहि ॥ ७ ॥
हेलिकस्य च द्वौ पुत्रौ तत्रैकस्तु पिशाचकः ॥
व्योमदीपपुण्यदानान्मोक्षं प्राप सुदुर्लभम् ॥ ८ ॥
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे ॥
नमो यमाय रुद्राय कान्तारपतये नमः ॥ ९ ॥
मन्त्रेणाऽनेन ये मर्त्याः पितृभ्यः खे तु दीपकम् ॥
प्रयच्छन्ति गता ये स्युर्नरके यान्ति तेऽपि वै ॥
उत्तमां गतिमित्थं ते दीपदानं मयेरितम् ॥ 2.4.7.११० ॥
लक्ष्मीसन्ततिसिद्ध्यर्थमारोग्याय प्रदीपयेत् ॥ ११ ॥
कार्तिके कृष्णपक्षे तु द्वादश्यादिषु पञ्चसु ॥
तिथीषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ॥ १२ ॥
ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः ॥
कूटागारेषु चैत्येषु सभासु च नदीषु च ॥ १३ ॥
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च ॥
मन्दुरासु विविक्तासु हस्तिशालासु चैव हि ॥ १४ ॥
प्रदोषसमये दीपान्दद्यादेवं मनोहरान् ॥
कृतं यैः कार्तिके मासि दीपदानं विधानतः ॥ १५ ॥
दृश्यन्ते ये रत्नभाजस्तेऽत एव प्रकीर्तिताः ॥
दीपदानासमर्थश्चेत्परदीपं तु रक्षयेत् ॥ १६ ॥
यो वेदाभ्यासिने दद्याद्दीपार्थं तैलमादरात् ॥
को वा तस्य फलं वक्तुं भुवि तिष्ठति मानवः ॥ १७ ॥
दीपान्दद्याद्बहुविधान्कार्तिके विष्णुसन्निधौ ॥
कार्तिके मासि सम्प्राप्ते गगने स्वच्छताके ॥१८॥
रात्रौ लक्ष्मीः समायाति द्रष्टुं भुवनकौतुकम् ॥
यत्रयत्र च दीपान्सा पश्यत्यब्धिसमुद्भवा ॥ १९ ॥
तत्रतत्र रतिं कुर्यान्नान्धकारे कदाचन ॥
तस्माद्दीपः स्थापनीयः कार्तिके मासि वै सदा ॥ 2.4.7.१२० ॥
लक्ष्मीरूपार्थिनां प्रोक्तं दीपदानं विशेषतः ॥
देवाऽऽलये नदीतीरे राजमार्गे विशेषतः ॥ २१ ॥
निद्रास्थले दीपदाता तस्य श्रीः सर्वतोमुखी ॥
दुर्बलस्याऽऽलयं वीक्ष्य दीपशून्यं तु यो ददेत् ॥ २२ ॥
विप्रस्य वाऽन्यवर्णस्य विष्णुलोके महीयते॥
कीटकण्टकसङ्कीर्णे दुर्गमे विषमस्थले ॥ २३ ॥
कुर्याद्यो दीपदानानि नरकं स न गच्छति ॥
दद्याद्रात्रौ पञ्चनदे दीपं यो विधिपूर्वकम् ॥ २४ ॥
तस्य वंशे प्रजायन्ते बालकाः कुलदीपकाः ॥
पितृपक्षेऽन्नदानेन ज्येष्ठाऽऽषाढे च वारिणा ॥ २५ ॥
कार्तिके तत्फलं तेषां परदीपप्रबोधनात् ॥
बोधनात्परदीपस्य वैष्णवानां च सेवनात् ॥२६॥
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥
पुरा हरिकरोनाम द्विजः पापरतः सदा ॥२७ ॥
कृतं द्यूतप्रसङ्गेन दीपदानं हि कार्तिके ॥
तेन पुण्यप्रभावेन स्वर्गं प्राप द्विजोत्तमः ॥ २८ ॥
आकाशदीपदानेन पुरा वै धर्मनन्दनः ॥
विमानवरमारुह्य विष्णुलोकं ययौ नृपः ॥२९॥
यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम् ॥
प्रबोधिन्यां विशेषेण तस्य पुण्यं वदाम्यहम् ॥2.4.7.१३०॥
कुले तस्य प्रसूता ये पुरुषास्ते हरिप्रियाः ॥
क्रीडित्वा सुचिरं कालमन्ते मुक्तिं व्रजन्ति च ॥ ३१ ॥
दीपको ज्वलते यस्य दिवा रात्रौ हरेर्गृहे ॥
एकादश्यां विशेषेण स याति हरिमन्दिरम्॥३२॥
लुब्धकोऽपि चतुर्दश्यां दीपं दत्त्वा शिवालये ॥
भक्त्या विना परे लिङ्गे शिवलोकं जगाम सः ॥ ३३ ॥
गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः ॥
मुहुर्जयजयेत्युक्त्वा स च राजेश्वरोऽभवत्॥ १३४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये दीपदानमाहात्म्यवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥ ॥ छ ॥ ॥