॥ ब्रह्मोवाच ॥ ॥
शृणु नारद वक्ष्यामि कार्तिकस्य व्रतं महत् ॥
यच्छुत्वा सर्वपापेभ्यो मुक्तो मोक्षमवाप्स्यसि ॥ १ ॥
कार्तिके मासि सम्प्राप्ते निषिद्धानि च वर्जयेत् ॥
तैलाभ्यङ्गं परान्नं च तथा वै तैलभोजनम् ॥ २ ॥
फलानि बहुबीजानि धान्यानि द्विदलान्यपि ॥
वर्जयेत्कार्तिके मासि नाऽत्र कार्या विचारणा ॥ ३ ॥
अलाबुं गृञ्जरं चैव वृन्ताकं बृहतीफलम् ॥
अन्नं पर्युषितं वाऽपि भिस्सटं च मसूरिकम् ॥ ४ ॥
पुनर्भोजनं माध्वं च परान्नं कांस्यभोजनम् ॥
नखं चर्म च छत्राकं काञ्जि दुर्गन्धमेव च ॥ ५ ॥
गणान्नं गणिकान्नं च तथा वै ग्रामयाजिनः ॥
शूद्रान्नं शद्रसम्पर्कं सूतकान्नं तथैव च ॥ ६ ॥
श्राद्धान्नमृतुशान्त्याश्च जातकं नामकं तथा ॥
श्लेष्मातकफलं चैव वर्जयेत्कार्तिकव्रती ॥ ७ ॥
निषिद्धेषु च पत्रेषु भोजनं नैव कारयेत् ॥
मधुपालाशकदलीजम्बूप्लक्षमकूटिकाः ॥
एतत्पत्रेषु भोक्तव्यं पुष्करे न कदाचन ॥ ८ ॥
कार्तिके मासि सम्प्राप्ते यः कुर्याद्वनभोजनम् ॥
स याति परमं लोकं विष्णोर्देवस्य चक्रिणः ॥ ९ ॥
प्रातःस्नानं तु कर्तव्यं तथैव हरिपूजनम् ॥
कथायाः श्रवणं चैव कार्तिके शस्यते मुने ॥ 2.4.6.१० ॥
गोपीचन्दनदानं तु गोदानं श्रोत्रियाय च ॥
कर्तव्यं कार्तिके मासि तेन मोक्षमवाप्नुयात् ॥ ११ ॥
कदलीफलदानं तु दानं धात्रीफलस्य च ॥
वस्त्रदानं तथा कुर्याच्छीतार्ताय द्विजन्मने ॥ १२ ॥
शाकादिदानं कुर्वीत चान्नदानं विशेषतः ॥
शालिग्रामस्य दानं च कर्तव्यं तु द्विजन्मने ॥ १३ ॥
पौराणिकाय यो दद्यादामान्नं घृतपायसम् ॥
स चैश्वर्यमवाप्नोति शतब्राह्मणभोजनात् ॥ १४ ॥
कमलैः पूजयेद्यस्तु कार्तिके कमलाप्रियम् ॥
स तु पुण्यमवाप्नोति नाऽत्र कार्या विचारणा ॥ १५ ॥
कार्तिके तुलसीपत्रं यो भक्त्या विष्णवेऽर्पयेत् ॥
संसाराच्च विनिर्मुक्तो याति विष्णोः परं पदम् ॥ १६ ॥
कार्तिके केतकीपुष्पैरर्चयेद्गरुडध्वजम् ॥
पूजितो जन्मसाहस्रं नाऽत्र कार्या विचारणा ॥ १७ ॥
शङ्खदानं तु यः कुर्यात्तथा चक्राङ्कितस्य च ॥
तस्य पापानि नश्यन्ति दानमात्रान्न संशयः ॥ १८ ॥
गीतापाठं तु यः कुर्यात्कार्तिके विष्णुवल्लभे ॥
तस्य पुण्यफलं वक्तुं नाऽलं वर्षशतैरपि ॥ १९ ॥
श्रीमद्रागवतस्याऽपि श्रवणं यः समाचरेत् ॥
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ 2.4.6.२० ॥
एकादश्यां निराहारमुपवासं करोति यः ॥
पूर्वजन्मकृतात्पापान्मुच्यते नाऽत्र संशयः ॥ २१ ॥
शालिग्रामस्य नैवेद्यं कोटियज्ञफलं लभेत् ॥
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥ २२ ॥
पूजाकाले तु देवस्य घण्टानादं करोति यः ॥
हरेस्तृप्तिं परां याति मनुजो नाऽत्र संशयः ॥ २३ ॥
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतुष्टये ॥
दामोदरस्य प्रीतिं स सम्यक्प्राप्नोति मानवः ॥ २४ ॥
अध्वगं तु परिश्रान्तं काले च गृहमागतम् ॥
योऽतिथिं पूजयेद्भक्त्या जन्मसाहस्रनाशनम् ॥ २५ ॥
निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ॥
पतन्ति पितृभिः सार्द्धं महारौरव सञ्ज्ञके ॥ २६ ॥
दृष्ट्वा भागवतान्विप्रान्सन्मुखो न च याति हि ॥
न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम् ॥ २७ ॥
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य च ॥
ततो नाऽपैति यः सोऽपि हरेः प्रियतमो नहि ॥ २८ ॥
प्रदक्षिणां तु यः कुर्यात्कार्तिके केशवस्य हि ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः ॥ २९ ॥
दण्डप्रणामं यः कुर्यात्कार्तिके केशवाऽग्रतः ॥
राजसूयाऽश्वमेधानां फलं प्राप्नोत्यसंशयः ॥ 2.4.6.३० ॥
कुटुम्बभोजनं चैव कार्तिके भक्तिसंयुतः ॥
कारयेद्विप्रशार्दूल तस्य पुण्यमनन्तकम् ॥ ३१ ॥
परस्त्रीसङ्गमं यस्तु कार्तिके कुरुते नरः ॥
तस्य पापस्य विश्रान्तिर्यावद्वक्तुं न शक्यते ॥ ३२ ॥
तुलसीमृत्तिकापुण्ड्रं ललाटे यस्य दृश्यते ॥
यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः ॥ ३३ ॥
शाकं वा लवणं वाऽपि यत्किञ्चिद्वा भविष्यति ॥
तद्देयं कार्तिके मासि प्रीत्यर्थं शार्ङ्गधन्वनः ॥ ३४ ॥
इत्याद्या बहवो धर्माः कार्तिके विष्णुवल्लभाः ॥
यथाशक्त्या प्रकुर्वीत धर्मं देवस्य तुष्टिदम् ॥ ३५ ॥
हरिसन्तुष्टये कार्यस्त्यागो वा स्वेष्टवस्तुनः॥
मासान्ते द्विजवर्याय दद्यात्तद्व्रतपूर्तये ॥ ३६ ॥
सर्वव्रतानि चैकत्र सत्यव्रतमथैकतः॥
तस्मात्सर्वप्रयत्नेन सत्यं भाषेत सर्वदा ॥ ३७ ॥
अन्यधर्मेष्वधिकृतिः कुलजातिविभागतः ॥
अधिकारी कार्तिके तु सर्व एव जनो भवेत् ॥ ३८ ॥
गोग्रासः कार्तिके मासि विशेषाद्यैस्तु दीयते ॥
तेषां पुण्यफलं वक्तुं न शक्नोति पितामहः ॥ ३९ ॥
विष्णुदेवालयं प्रातः सम्मार्जयति कार्तिके ॥
तस्य वैकुण्ठभवने जायते सुदृढं गृहम् ॥ 2.4.6.४० ॥
दद्यात्कार्तिकमासे तु धर्मकाष्ठानि भूरिशः ॥
न तत्पुण्यस्य नाशोस्ति कल्पकोटिशतैरपि ॥४१॥
सुधादि लेपयेद्यस्तु कार्तिके विष्णुमन्दिरे ॥
चित्रादिकं लिखेद्वाऽपि मोदते विष्णुसन्निधौ ॥४२॥
देवालये वा तीर्थे वा कृतो दुष्टैर्नृपैः करः ॥
तं मोचयन्ति ये लोकास्तेषां धर्मः सनातनः॥ ४३ ॥
कार्तिके मासि यो विप्रो गभस्तीश्वरसन्निधौ ॥
शतरुद्रीजपं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥४४॥
वाराणस्यां तु यैः स्थित्वा त्रिवर्षं कार्तिकव्रतम् ॥
सोपाङ्गं साङ्गं यैर्मर्त्यैः कृतं भक्त्यैकतत्परैः ॥४५॥
इह लोके फलं तेषां प्रत्यक्षं जायते किल ॥
सम्पत्त्या चैव सन्तत्या यशोभिर्धर्मबुद्धिभिः ॥४६॥
पलाण्डुं शृङ्गं मांसं च शय्यां सौवीरकं तथा ॥
राजिकोन्मादिकं चाऽपि चिपिटान्नं च वर्जयेत् ॥ ४७ ॥
धात्रीफलं भानुवारे परदेशागमं तथा ॥
तीर्थं विना सदैवेह वर्जयेत्कार्तिकव्रती ॥ ४८ ॥
देववेदद्विजातीनां गुरुगोव्रतिनां तथा ॥
स्त्रीराजमहतां निन्दां वर्जयेत्कार्तिकव्रती ॥ ४९ ॥
नरकस्य चतुर्दश्यां तैलाभ्यङ्गं च कारयेत् ॥
अन्यत्र कार्तिके मासि तैलस्नानं विवर्जयेत् ॥
नालिकां मूलकं चैव कूष्माण्डं च कपित्थकम् ॥ ॥ 2.4.6.५० ॥
रजस्वलान्त्यज म्लेच्छ पतितऽव्रतिकैस्तथा ॥
द्विजद्विड्वेदबाह्यैश्च न वदेत्सर्वदा व्रती॥५१॥
एभिर्दृष्टं च काकैश्च सूतिकान्नं च यद्भवेत् ॥
द्विःपाचितं च दग्धान्नं नैवाद्याद्वैष्णवव्रती ॥ ५२ ॥
क्रमात्कूष्माण्डबृहतीतरुणीमूलकं तथा ॥
श्रीफलं च कलिङ्गं च फलं धात्रीभवं तथा ॥ ५३ ॥
नारिकेलमलाबुं च पटोलं बृहतीफलम् ॥
चर्मवृन्ताकचवलीशाकं तुलसिजं तथा ॥ ५४ ॥
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ॥
एवमेव हि माघेऽपि कुर्य्याच्च नियमान्व्रती ॥ ५५ ॥
कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः ॥
न समर्थो भवेद्वक्तुं ब्रह्माऽपीह चतुर्मुखः ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतनिरूपणन्नाम षष्ठोऽध्यायः ॥६॥ ॥