००५ नित्यकर्मकथनम्

॥ नारद उवाच ॥ ॥
कदा स्नानं प्रकर्तव्यं कथं स्थेयं दिनावधि ॥
आह्निकं तत्समाचक्ष्व विशेषेण पितामह ॥१॥ ॥
॥ ब्रह्मोवाच ॥ ॥
रात्र्यां तुर्यांशशेषायामुत्तिष्ठेत्सर्वदा व्रती ॥
विष्णुं स्तुत्वा बहुस्तोत्रैर्दिनकार्यं विचारयेत् ॥ २ ॥
ग्रामनैर्ऋत्यदिग्भागे मलोत्सर्गं यथाविधि ॥
ब्रह्मसूत्रं दक्षकर्णे स्थाप्य तत्र उदङ्मुखः ॥ ३ ॥
अन्तर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा॥
वक्त्रं नियम्य वस्त्रेणाऽसङ्गः सोदकभाजनः ॥ ४ ॥
कुर्यान्मूत्रपुरीषं तु रात्रौ चेद्दक्षिणामुखः ॥
तत उत्थाय चाऽऽगच्छेत्समीपं कलशस्य हि ॥ ५ ॥
गन्धलेपक्षयकरं मृत्तिकाशौचमाचरेत् ॥
एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ॥६॥
मूत्रशौचे त्विदं ज्ञेयं विष्ठाशौचमतः शृणु ॥
पञ्चापानेऽथवा सप्त दश वामकरे तथा ॥ ७ ॥
उभयोः सप्त दातव्याः पादयोर्मृत्तिकात्रयम् ॥
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ॥ ८ ॥
वानप्रस्थस्य त्रिगुणं यतीनां च चतुर्गुणम् ॥
एतच्छौचं दिवा प्रोक्तं रात्रावर्द्धं समाचरेत् ॥ ९ ॥
मार्गस्थस्य तदर्धं स्यात्स्त्रीशूद्राणां तदर्धकम् ॥
शौचकर्मविहीनस्य समस्ता निष्फलाः क्रियाः ॥ 2.4.5.१० ॥
दन्तजिह्वाविशुद्धिं च ततः कुर्यादतन्द्रितः ॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥ ॥ ११ ॥
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥
दन्तकाष्ठं तु गृह्णीयाद्द्वादशाङ्गुलसम्मितम् ॥ १२ ॥
क्षीरवृक्षस्य न ग्राह्यं कार्पासस्य तथैव च ॥
कण्टकस्य च वृक्षस्य दग्धवृक्षस्य चैव हि ॥ १३ ॥
सद्वासनं मृदुतरं दन्तधावनमादितः ॥ १४ ॥
उपवासे नवम्यां च षष्ठ्यां श्राद्धदिने रवौ ॥
ग्रहणे प्रतिपद्दर्शे न कुर्याद्दन्तधावनम् ॥
कुर्याद्द्वादशगण्डूषाननुक्ते दन्तधावने ॥ १५ ॥
दन्तान्विशोध्य विधिवन्मुखं सम्मार्ज्य वारिणा ॥
ललाटे चोर्ध्वपुण्ड्रं तु धृत्वा चाचम्य वारिणा ॥ १६ ॥
देवालये नदीतीरे राजमार्गे विशेषतः ॥
दत्त्वा चाकाशदीपं तु तुलसीसन्निधावथ ॥ १७ ॥
गृहीत्वार्चनसामग्रीमिष्टदेवगृहं व्रजेत् ॥
ततो गायेत नृत्येत पूजां कृत्वा तु बुद्धिमान् ॥ १८ ॥
पठित्वा विष्णुनामानि कुर्य्यान्नीराजनं हरेः ।
नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम् ॥ १९ ॥
तत्रोक्तविधिना स्नानं कुर्याद्वै कार्तिकव्रती ॥
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकं तथा ॥ 2.4.5.२० ॥
ततः सन्ध्यामुपासीत स्वसूत्रोक्तेन वर्त्मना ॥
ततः कार्यो जपो देव्या यावदकोन्दयो भवेत् ॥ २१ ॥
एतत्प्रोक्तं रात्रिशेषकृत्यं दैनमथोच्यते ॥
यस्मिन्कृते कार्तिकोऽयं सकलः सफलो भवेत् ॥ २२ ॥
विष्णोः सहस्रनामाऽऽद्यं सन्ध्यान्ते च पठेत्ततः ॥
देवालये समागत्य पुनः पूजनमारभेत् ॥ २३ ॥
नृत्यगानादिकार्येषु प्रहरं दिवसं नयेत् ॥
ततः पुराणश्रवणं यामार्धं सम्यगाचरेत् ॥ २४ ॥
पौराणिकस्य पूजां तु तुलसीपूजनं तथा ॥
कृत्वा माध्याह्निकं कर्म भुञ्जीत द्विदलोज्झितम् ॥ २५ ॥
बलिदानं वैश्वदेवमतिथीनां समर्पणम् ॥
कृत्वा भुङ्क्ते तु यो मर्त्यः केवलं चाऽमृतं हि तत् ॥ २६ ॥
यथाशक्ति द्विजा भोज्याः प्रत्यहं वाऽथ पर्वणि ॥
हविष्यभोजनं कुर्यादामिषं परिवर्जयेत् ॥ २७ ॥
भक्षयेत्तुलसीं वक्त्रशुद्ध्यर्थं तीर्थवारिणा ॥
संसारव्यवहारेण दिनशेषं समापयेत् ॥२८॥
सायङ्काले पुनर्गच्छेद्विष्णोर्देवालयं प्रति ॥
सन्ध्यां कृत्वा प्रयुञ्जीत तत्र दीपन्यथाबलम्॥ २९ ॥
विष्णुं प्रणम्य हरये कृत्वा नीराजनं शुभम् ॥
स्तोत्रपाठादिकं कुर्वन्नाद्ययामे तु जागरम् ॥ ॥ 2.4.5.३० ॥
यामे तु प्रथमेऽतीते निद्रां कुर्याद्विचक्षणः ॥
ब्रह्मचर्यव्रतं कुर्याद्भार्यामीयादृतौ तथा ॥ ३१ ॥
तया कामयमानो वा भार्यां गच्छेन्न दोषभाक् ॥
एवं प्रतिदिनं कुर्यादामासं तु यथाविधि ॥ ३२ ॥
एवं तु कार्तिके मासि यः कुर्यात्परमं व्रतम् ॥
सर्वपापविनिर्मुक्तो याति विष्णोः सलोकताम् ॥ ३३ ॥
रोगापहं पातकनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधकम् ॥
मुक्तेर्निदानं नहि कार्तिकव्रताद्विष्णुप्रियादन्यदिहाऽस्ति भूतले ॥ ३४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये नित्यकर्मकथनन्नाम पञ्चमोऽध्यायः ॥ ५ ॥