००४ कार्तिकस्नानविधिनिरूपणम्

॥ ब्रह्मोवाच ॥ ॥
नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम् ॥
तुलसीमृत्तिकायुक्तः सवस्त्रकलशो मुने ॥ १ ॥
आगत्य तोयनिकटे तीरे संस्थाप्य पात्रकम् ॥
पादप्रक्षालनं कृत्वा देशकालादि चोच्चरेत् ॥ २ ॥
स्मरेद्गङ्गादिका नद्यो विष्णुशर्वादिदेवताः ॥
नाभिमात्रे जले स्थित्वा मन्त्रमेतमुदीरयेत् ॥ ३ ॥
कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन ॥
प्रीत्यर्थं तव देवेश दामोदर मया सह ॥ ४ ॥
नित्ये नैमित्तिके कृत्वा कार्तिके पापनाशन ॥
स्नानं चार्घं प्रदास्यामि निर्विघ्नं कुरु केशव ॥ ५ ॥
तीर्थादिदेवताभ्यश्च क्रमादर्घ्यादि दापयेत् ॥
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ॥ ६ ॥
नमः कमलनाभाय नमस्ते जलशायिने ॥
नमस्तेऽस्तु हृषीकेश गृहाणार्घ्यं नमोऽस्तु ते ॥ ७ ॥
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ॥
गृहाणार्घ्यं मया दत्तं दनुजेन्द्रनिषूदन ॥ ८ ॥
किरणा धूतपापा च पुण्यतोया सरस्वती ॥
गङ्गा च यमुना चैव पञ्चनद्यः पुनन्तु माम् ॥ ९ ॥
अन्यासां च नदीनां च दद्यादर्घ्यं यथाविधि ॥
जाह्नवीस्मरणं कुर्यात्सर्वतीर्थेषु मानवः ॥ 2.4.4.१० ॥
नान्यत्तीर्थं तु जाह्नव्यां स्मरणीयं कदाचन ॥
एतान्मन्त्रान्समुच्चार्य मलस्नानं समाचरेत् ॥ ११ ॥
मृत्स्नानं च पितृस्नानं गुरुस्नानं ततः परम् ॥
ततस्तु पावमानीभिरभिषिञ्चेत्स्वमस्तकम् ॥ १२ ॥
अघमर्षणकं कृत्वा स्नानाङ्गं तर्पणं तथा ॥
ततः पुरुषसूक्तेन जलं शिरसि सिञ्चयेत् ॥ १३ ॥
ततस्तु बहिरागत्य तीर्थं शिरसि निक्षिपेत्॥
तीर्थं पीत्वा त्रिवारं तु तुलसीं गृह्य पाणिना॥ १४ ॥
ततो जलाद्विनिष्क्रम्य चाञ्चलं पीडयेद्बहिः॥
यन्मया दूषितं तोयं शारीरमलसञ्चयैः ॥ १५ ॥
तद्दोषपरिहारार्थं यक्ष्मणं तर्पयाम्यहम् ॥
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकादिकम् ॥॥ १६ ॥
॥ सूत उवाच ॥ ॥
शृणुध्वमृषयः सर्वे कार्तिकस्नानजं फलम् ॥
अरुणं प्रति सूर्येण यदुक्तं च सविस्तरम् ॥ १७ ॥
॥ अरुण उवाच ॥ ॥
कस्मिंस्तीर्थे विशेषेण फलं कार्तिकसम्भवम् ॥
क्षेत्रे वा एतदाऽऽख्याहि भगवन्स्नानयोगतः ॥ १८ ॥
॥ सूर्य उवाच ॥
यत्र कुत्राऽपि कर्तव्यं जले स्नानं तु कार्तिकं ॥
उष्णोदकेन कर्तव्यं स्नानं कुत्राऽपि कार्तिके ॥ १९ ॥
ततो दशगुणं पुण्यं शीततोयनिमज्जनात् ॥
ततः शतगुणं पुण्यं बहिः कूपोदके कृतम्॥ 2.4.4.२० ॥
कूपात्सहस्रगुणितं फलं वापीनिषेकतः ॥
ततोऽयुतगुणं पुण्यं तडागस्नानतो भवेत् ॥ २१ ॥
ततो दशगुणं पुण्यं निर्झरेषु निमज्जनात् ॥
ततोऽधिकतरं पुण्यं नदीस्नानस्य कार्तिके ॥ २२ ॥
नद्या दशगुणं प्रोक्तं तीर्थस्नानं खगोत्तम ॥
ततो दशगुणं पुण्यं नद्योर्यत्र च सङ्गमः ॥२३॥
नदीत्रयस्य संयोगे पुण्यस्यांऽतो न विद्यते ॥
सिन्धुः कृष्णा च वेणी च यमुना च सरस्वती ॥ २४ ॥
गोदावरी विपाशा च नर्मदा तमसा मही ॥
कावेरी शरयूः शिप्रा तथा चर्मण्वती नदी ॥ २५ ॥
वितस्ता वेदिका शोणो वेत्रवत्यपराजिता॥
गण्डकी गोमती पूर्णा ब्रह्मपुत्रा सरोवरम् ॥ २६ ॥
वाग्मती च शतद्रुश्च तथा बदरिकाश्रमः ॥
दुर्लभाः कार्तिके त्वेते तीर्थान्यथ निबोध मे ॥ २७ ॥
सर्वेभ्यश्च स्थलेभ्यश्च आर्यावर्तं तु पुण्यदम् ॥
कोल्हापुरी ततः श्रेष्ठा ततः काञ्चीद्वयं स्मृतम् ॥ ॥ २८ ॥
अनन्तसेनवसतिर्वराहक्षेत्रमेव च ॥
चक्रक्षेत्रं ततः पुण्यं मुक्तिक्षेत्रं ततोऽधिकम् ॥ २९ ॥
अवन्तिका ततः श्रेष्ठा ततो बदरिकाश्रमः ॥
अयोध्या च ततः श्रेष्ठा गङ्गाद्वारं ततोऽधिकम् ॥ 2.4.4.३० ॥
ततः कनखलं तीर्थं ततो मधुपुरी वरा ॥
एकोऽपि कार्तिको मासो मथुरायमुनाजले ॥ ॥ ३१ ॥
यैः स्नातस्ते तु वैकुण्ठे बहुकालं वसन्ति हि ॥
राधादामोदरस्तत्र स्वयं स्नातस्तु कार्तिके ॥ ३२ ॥
अतो मधुपुरी श्रेष्ठा यमुना च विशेषतः ॥ ३३ ॥
द्वारावती ततः श्रेष्ठा प्रत्यहं स्नाति केशवः ॥
षोडशस्त्रीसहस्रेण सार्द्धं यादवसंयुतः ॥ ३४ ॥
द्वारकायां मृत्तिकायास्तिलको येन मस्तके ॥
धार्यतेऽसौ नरो ज्ञेयो जीवन्मुक्तो न संशयः ॥
द्वारकास्नानमाहात्म्यं न वक्तुं शक्यते मया ॥ ३५ ॥
गोविन्दार्पितचित्तानां जायते पुण्यभास्करा ॥
ततो भागीरथी श्रेष्ठा यत्र विन्ध्येन सङ्गता ॥ ३६ ॥
तस्माद्दशगुणं पुण्यं तीर्थराजेऽत्र जायते ॥ ३७ ॥
कलौ दशसहस्रांऽते विष्णुस्त्यक्ष्यति मेदिनीम्॥
तदर्द्धं जाह्नवीतोयं तदर्धं देवतागणाः ॥ ३८ ॥
यावत्तिष्ठति गङ्गाऽत्र तावत्तीर्थानि सन्ति च ॥
स्वस्वस्थाने नृणां पापं तावदेव हरन्ति च ॥ ३९ ॥
यदैव गङ्गा नष्टा स्यात्को वा तत्पापमाहरेत् ॥
विचार्यैवं सुतीर्थानि गमिष्यन्ति धरातले ॥ 2.4.4.४० ॥
तस्मान्मुनीश्वराः सर्वे यावत्तिष्ठति जाह्नवी ॥
तावच्च क्रियतां धर्मस्ततो भूमौ निलीयताम् ॥ ४१ ॥
समाधिं गृह्य सुदृढां यावत्कृतयुगं भवेत् ॥
अन्यथा कलिकालेन भ्रंशनीयो भवेत्सुधीः ॥ ४२ ॥
ततः श्रेष्ठतरा काशी यस्या नाशो न जायते ॥
यदाश्रयेण गङ्गापि सर्वपापं व्यपोहति ॥ ४३ ॥
काशिकाया नैव नाशो ब्रह्मण्यपि मृते सति ॥
यद्दर्शनार्थं गङ्गाऽपि जाता चोत्तरवाहिनी ॥
तस्यां पञ्चनदं तीर्थं त्रिषु लोकेषु विश्रुतम्॥ ४४ ॥
आगते कार्तिके मासि रौरवं नरकं गताः ॥
आक्रोशन्ते तु पितरो वंशेऽस्माकं भविष्यति ॥ ४५ ॥
कश्चिद्भाग्यवतां श्रेष्ठो गत्वा पञ्चनदे शुभे ॥
अस्माकं तर्पणं कुर्यान्नरकार्णवतारकम् ॥ ४६ ॥
तीर्थराजादितीर्थानि प्राप्ते कार्तिकमासके ॥
स्नानार्थं पञ्चगङ्गं तु समायान्ति न संशयः ॥ ४७ ॥
कृत्वा तु लक्षपापानि स्नात्वा पञ्चनदे शुभे ॥
बिन्दुमाधवमभ्यर्च्य विलयं यान्ति तत्क्षणात् ॥ ४८ ॥
यैः स्नातं कार्तिके मासि सकृत्पञ्चनदे शुभे ॥
सर्वतीर्थकृतास्नानात्फलं कोटिगुणं भवेत् ॥ ४९ ॥
॥ ब्रह्मोवाच ॥ ॥
कार्तिके मासि कावेर्य्यां यः स्नानं कर्तुमिच्छति ॥
तावता वै विमुक्ताऽघो विष्णुसायुज्यमाप्नुयात् ॥ 2.4.4.५० ॥
कावेर्य्याश्चैव माहात्म्यं को वदेत्परमुत्तमम् ॥
अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ॥ ५१ ॥
कावेर्या विषये ब्रह्मन्सावधानमनाः शृणु ॥
गौतम्या उत्तरे तीरे विष्णुपादाब्जसम्भवा ॥ ५२ ॥
गङ्गा त्रैलोक्यपापघ्नी वर्तते लोकपूजिता ॥
सा गङ्गा चिन्तयामास कदाचित्पापशङ्किता ॥ ५३ ॥
सर्वलोकाः समागत्य मयि पापं त्यजन्ति हि ॥
तत्पापं तु कथं गच्छेदिति चिन्तापरा तदा ॥ ५४ ॥
प्रष्टुं जगाम कैलासं गिरिजावल्लभं भवम् ॥
तत्र दृष्ट्वा महारुद्रं प्रोवाच हरिपादजा ॥ ५५ ॥
॥ गङ्गोवाच ॥ ॥
महारुद्र नमस्तेऽस्तु त्वां प्रष्टुमहमागता ॥
सर्वे लोकाः समागत्य मयि पापं त्यजन्ति हि ॥ ५६ ॥
तत्पापं तु मया सोढुं न शक्यं पार्वतीपते ॥
येनोपायेन तत्पापं नाऽऽगच्छेन्मम तद्वद ॥ ५७ ॥
एवं गङ्गावचः श्रुत्वा प्रत्याह परमेश्वरः ॥
॥ रुद्र उवाच ॥ ॥
पापनिर्हरणायादौ पद्मनाभाङ्घ्रिपङ्कजात्॥५८॥
प्रादुर्भूताऽसि त्वं देवि किमर्थं तप्यते त्वया ॥
पापप्रहाराऽऽधिपत्यं कल्पितं तव विष्णुना ॥ ५९ ॥
तथाऽपि पापनिर्हार उपायं ते ब्रवीम्यहम्॥
कवेश्च तनया देवी कावेरी सरितां वरा ॥ 2.4.4.६० ॥
सर्वोत्कृष्टा च सर्वेषां हरेर्बलवशात्तु सा ॥
सर्वपापप्रहरणे सामर्थ्यं तत्र वर्तते ॥ ६१ ॥
कार्तिके मासि कावेर्यां यः स्नानं कुरुते नरः ॥
स तु पापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ ६२ ॥
तस्मात्तां गच्छ देवि त्वं ततः पापाद्विमोक्ष्यसे ॥
इत्युक्ता सा तदागच्छत्कावेरीं पापहारिणीम् ॥६३॥
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा ॥
निर्धूतपातका गङ्गा जगाम स्वनिकेतनम् ॥६४॥
कार्तिके प्रतिवर्षं तु गङ्गा त्रैलोक्यपावनीम् ॥
स्नातुं भक्त्या समायाति कावेरीं पापहारिणीम् ॥६५॥
तज्जलस्पर्शमात्रेण कार्तिके विष्णुपादजा ॥
निर्धूतपातका गङ्गा जगाम स्वनिकेतनम् ॥६६॥
तस्माच्छस्तं तुलास्नानं कावेर्य्यां शस्यते बुधैः ॥
यः कावेर्यां तुलास्नानं भक्त्या तु कुरुते मुने॥६७॥
विमुक्तदुरितः सद्यस्ततो याति परां गतिम् ॥
तस्मात्स्नानं तु कावेर्यां कार्तिके मासि शस्यते ॥ ६८ ॥
इतिहासमिमं श्रुत्वा कार्तिकव्रततत्परः ॥
स कावेरी स्नानफलं प्राप्नोति च परां गतिम् ॥ ६९ ॥
रात्रिशेषे भवेत्स्नानमुत्तमं विष्णुतुष्टिकृत् ॥
सूर्योदये मध्यमं स्याद्यावन्नाऽऽस्ता तु कृत्तिका ॥ 2.4.4.७० ॥
तावदेव भवेत्स्नानमन्यथा तन्न कार्तिकम् ॥
स्नानं स्त्रीभिर्विधातव्यं गृहीत्वाऽऽज्ञां धवस्य च ॥७१॥
अपृष्ट्वा यत्कृतं धर्म्यं भर्तारं तत्क्षयं नयेत् ॥
स्त्रीणां नास्त्यपरो धर्मो भर्तारं प्रोज्झ्य कश्चन ॥ ७२ ॥
कुर्यात्सहस्रपापानि भर्त्राऽऽज्ञां या समाचरेत् ॥
सैषा धर्मवती लोके न जायेत व्रतादिना ॥ ७३ ॥
दरिद्रः पतितो मूर्खो दीनोऽपि यदि चेत्पतिः ॥
तादृशः शरणं स्त्रीणां तत्त्यागान्निरयं व्रजेत् ॥ ७४ ॥
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि ॥
तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः ॥ ७५ ॥
यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम्॥
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः ॥ ७६ ॥
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः ॥
हेतुवादी च पञ्चैते न तीर्थफलभागिनः ॥ ७७ ॥
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत् ॥
सर्वपापविनिर्मुक्तः परं ब्रह्माऽधिगच्छति ॥ ७८ ॥
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्मनीषिभिः॥
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम् ॥७९॥
वायव्यं गोरजःस्नानं वारुणं सागरादिषु ॥
ब्राह्मं ब्राह्मणमन्त्रोक्तं दिव्यं मेघांऽबु भास्करम् ॥ 2.4.4.८० ॥
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम् ॥
ब्राह्मणः क्षत्रियो वैश्यो मन्त्रवत्स्नानमाचरेत् ॥ ८१ ॥
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव तथा स्मृतम् ॥
बाला च तरुणी वृद्धा नरनारीनपुंसकाः ॥ ८२ ॥
पापैः सर्वैः प्रमुच्यन्ते स्नानात्कार्तिकमाघयोः ॥
स्नाता वै कार्तिके लोकाः प्राप्नुवन्तीप्सितं फलम् ॥ ८३ ॥
पुष्करे तीर्थवर्ये तु नन्दायाः सङ्गमे पुरा ॥
प्रभञ्जनश्च मुक्तोभूत्तदैव व्याघ्रजन्मतः ॥ ८४ ॥*
नन्दाया वचनेनैव कार्तिके सा परं ययौ ॥
एवं स्नानविधिः प्रोक्तः किं भूयः श्रोतुमिच्छसि ॥ ८५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकस्नानविधिनिरूपणन्नाम चतुर्थोऽध्यायः ॥ ४