००३ कार्तिकवैभववर्णनम्

॥ ॥ ब्रह्मोवाच ॥ ॥
भूयः शृणुष्व विप्रेन्द्र कार्तिकस्य च वैभवम् ॥
दशमीदिनमारभ्य दशम्यां तु समापयेत् ॥ १ ॥
पौर्णमासीं समारभ्य पौर्णमास्यां समापयेत् ॥
आश्विनस्य हरिदिनीं समारभ्य तु भक्तिमान् ॥ २ ॥
दामोदरं नमस्कृत्य कुर्यात्सङ्कल्पमादितः ॥
दामोदर नमस्तेऽस्तु सर्वपापविनाशन ॥ ३ ॥
कार्तिकस्य व्रतं कर्तुमनुज्ञां दातुमर्हसि ॥
निर्विघ्नं कुरु देवेश आमासं पुरुषोत्तम ॥ ४ ॥
इति सम्प्रार्थ्य विधिना कार्तिकव्रतमाचरेत् ॥
अनूरुं वदता प्रोक्तं भास्करेण श्रुतं मया ॥
कलौ च स्वर्गगमनकारणं श्रूयतां हि तत् ॥ ५ ॥
॥ सूर्य उवाच ॥ ॥
द्वादशानां तु मासानां मार्गशीर्षोऽतिपुण्यदः ॥ ६ ॥
तस्मात्पुण्यफलः प्रोक्तो वैशाखो नर्मदातटे ॥
ततो लक्षगुणः प्रोक्तः प्रयागे माघमासकः ॥ ॥ ७ ॥
तस्मान्महाफलः प्रोक्तः कार्तिको जलमात्रके ॥
एकतः सर्वदानानि व्रतानि नियमास्तथा ॥ ८ ॥
एकतः कार्तिकस्नानं ब्रह्मणा तुलया धृतम् ॥
सन्ततिश्चैव सम्पत्तिः कलौ येषां प्रजायते ॥ ९ ॥
अवश्यं तैः कृतं विद्धि कार्तिकस्नानमादरात् ॥
स्नानं च दीपदानं च तुलसीवनपालनम् ॥ 2.4.3.१० ॥
भूमिशय्या ब्रह्मचर्य्यं तथा द्विदलवर्जनम् ॥
विष्णुसङ्कीर्तनं सत्यं पुराणश्रवणं तथा ॥ ११ ॥
कार्तिके मासि कुर्वन्ति जीवन्मुक्तास्त एव हि ॥
न कार्तिकसमं धर्म्यमर्थ्यं नो कार्तिकात्परम् ॥ १२ ॥
न कार्तिकसमं काम्यं मोक्षदानं न कार्तिकात् ॥
युधिष्ठिरेण धर्मार्थमर्थार्थं च ध्रुवेण च ॥१३ ॥
श्रीकृष्णेन तु कामार्थं मोक्षार्थं नारदेन च ॥
कृतमेतद्व्रतं तस्माच्छ्रेष्ठं कृष्णप्रियं च हि ॥ १४ ॥ ॥
॥ अरुण उवाच ॥ ॥
ब्रूहि भास्कर सर्वात्मन्कदाऽऽरभ्य व्रतं कृतम्॥
सफलं जायते सम्यक्का च पूज्याऽत्र देवता ॥१५॥
॥ भास्कर उवाच ॥
अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा ॥
एकोऽहं पञ्चधा जातो नाट्ये सूत्रधरो यथा ॥ १६ ॥
अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर ॥
तस्मात्सौरैश्च गाणेशैः शाक्तैः शैवैश्च वैष्णवैः ॥ १७ ॥
कर्तव्यं कार्तिकस्नानं सर्वपापापनुत्तये ॥
सूर्यस्य प्रीतये कार्यं तुलासंस्थे दिवाकरे॥१८॥
इषपूर्णां समारभ्य यावत्कार्तिकपूर्णिमा ॥
तावत्स्नानं विधातव्यं शिवसन्तुष्टये नरैः ॥ १९॥
देवीपक्षं समारभ्य महारात्रिचतुर्दशी ॥
तावत्स्नानं विधातव्यं देवी सम्प्रीयतामिति॥ 2.4.3.२०॥
गणपक्षं समारभ्य कृष्णा या कार्तिके भवेत्॥
चतुर्थी तावदेव स्यात्स्नानं गणपतुष्टये॥२१॥
एकादशीं समारभ्य आश्विनस्याऽसितेतराम् ॥
एकादश्यां कार्तिकस्य शुक्लायां परिपूर्यते ॥
कृतं येन तु तस्य स्यात्परितुष्टो जनार्दनः ॥ २२ ॥
न कार्तिकसमो मासो न काशीसदृशी पुरी ॥
न प्रयागसमं तीर्थं न देवः केशवात्परः ॥ २३ ॥
प्रसङ्गाद्वा बलात्कारैर्ज्ञात्वाज्ञात्वा कृतं भवेत् ॥
स्नानं कार्तिकमासस्य न पश्येद्यमयातनाम् ॥ २४ ॥
स्नानार्थं चेन्न सामर्थ्यं दत्वान्यस्मै धनादिकम् ॥
स्नातस्य तस्य हस्तस्य ग्रहणा पुण्यभाग्भवेत् ॥ २५ ॥
अथवा कार्तिकस्नानं ये कुर्वन्ति द्विजातयः ॥
तेषां प्रावरणं दत्त्वा स्नानजं फलमाप्नुयात् ॥२६॥
राधादामोदरः पूज्यः कार्तिके तु विशेषतः ॥ २७ ॥
स्वर्णस्य वाथ रौप्यस्याऽप्यभावे शुल्बजामपि ॥
मृज्जां वा चित्रजातां वाऽथ वा पिष्टविचित्रिताम् ॥ २८ ॥
दामोदरस्य राधायास्तुलस्यधोऽर्चयन्ति ये ॥
मूर्तिं ते तु नरा ज्ञेया जीवन्मुक्ता न संशयः ॥२९॥
अपि पापसहस्राढ्यः कार्तिकस्नानतो नरः ॥
मुक्तोऽवश्यं स भवति नाऽत्र कार्या विचारणा ॥ 2.4.3.३० ॥
तुलस्यभावे कर्तव्या पूजा धात्रीतले खग ॥
मुख्यपूजाविधानं तु कर्तव्यं सूर्यमण्डले ॥ ३१ ॥
अप्रत्यक्षाः सर्वदेवाः प्रत्यक्षो भगवानयम् ॥
सर्वे देवाः कालवशाः कालकालो दिवाकरः ॥३२॥
एतदाराधनेऽशक्तः प्रतिमां पूजयेन्नरः ॥
प्रतिमातोऽधिकं पुण्यं ब्राह्मणस्य तु पूजने ॥ ३३ ॥
दरिद्रो दानपात्रं स्याद्विद्यावांस्तु विशेषतः ॥
विप्राभावे पूजनीया गावः कृष्णा मनोहराः ॥ ३४ ॥
विष्णोर्मूर्तिर्जङ्गमतः स्थावरा तु प्रशस्यते ॥
शूद्रस्थापितमूर्तीनां नमस्कारं करोति यः ॥
पितृभिर्निरयं याति दशपूर्वैर्दशापरैः ॥ ३५ ॥
शूद्रार्चितस्य संस्पर्शाद्दहेदासप्तमं कुलम् ॥ ३६ ॥
तस्माद्विचार्य्य विप्रैर्या स्थापिता तां समर्चयेत् ॥
ततोऽपि या देवताभिः कृता सा भुक्तिमुक्तिदा ॥ ३७ ॥
मूर्त्यभावे पूजनीयोऽश्वत्थो वाऽथ वटोऽथ वा ॥
अश्वत्थरूपी विष्णुः स्याद्वटरूपी शिवो यतः ॥ ३८ ॥ $
कार्तिके तुलसीशाकं ताम्बूलं वा नराधमः ॥
अज्ञानाज्ज्ञानतो वाऽपि भुञ्जानो निरयं व्रजेत् ॥ ३९ ॥
शालिग्रामशिलाचक्रे नित्यं सन्निहितो हरिः ॥
तस्मात्सर्वप्रयत्नेन शालिग्रामं प्रपूजयेत् ॥ 2.4.3.४० ॥
रुद्रशापवशाद्गावो विष्ठाभक्षणतत्पराः ॥
तथाऽपि ताः पूजनीया लोकद्वयफलप्रदाः ॥ ४१ ॥
ब्रह्मांऽशकसमुद्भूते पालाशे यस्तु भोजनम् ॥
कुर्यात्कार्तिकमासेऽसौ विष्णुलोकं प्रयास्यति ॥ ४२ ॥ *
अश्वत्थरूपी भगवान्वटरूपी सदाशिवः ॥
तस्मात्सर्वप्रयत्नेन कार्तिकेऽश्वत्थमर्चयेत् ॥ ४३ ॥
या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः ॥
राधादामोदरं पूज्य मन्दवारे च तत्तले ॥ ४४ ॥
दम्पती भोजयेद्राधादामोदरस्वरूपिणौ ॥
भोजयित्वा सपत्नीकान्पश्चाद्भुञ्जीत वाग्यतः ॥ ४५ ॥
वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा ॥
सदा सन्निहितो विष्णुर्द्विपत्सु ब्राह्मणे यथा ॥ ४६ ॥
बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च ॥
तस्मादश्वत्थमूले वै कर्तव्यं विष्णुपूजनम् ॥ ४७ ॥ **
अश्वत्थपूजा स्पर्शेन कर्त्तव्या शनिवासरे ॥ ***
अन्यवारेऽश्वत्थसङ्गाद्दरिद्रो जायते नरः ॥४८॥
स्नानं जागरणं दीपं तुलसीवनपालनम् ॥
कार्तिके मासि कुर्वन्ति ते नरा विष्णुमूर्तयः ॥ ४९ ॥
सम्मार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम् ॥
विष्णोः पूजां च ये कुर्युर्जीवन्मुक्तास्तु ते नराः ॥ 2.4.3.५० ॥
स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम् ॥
स्नानधर्माश्च ये केचित्तान्सर्वान्मे निबोधत ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकवैभववर्णनन्नाम तृतीयोऽध्यायः ॥ ३ ॥.