॥ ॥ ब्रह्मोवाच ॥ ॥
अथ कार्तिकमासस्य धर्मान्वक्ष्यामि नारद ॥
सम्प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ॥ १ ॥
स तु मोक्षमवाप्नोति नात्र कार्या विचारणा ॥
सर्वेषामेव धर्माणां गुरुपूजा परा मता ॥
गुरुशुश्रूषया सर्वं प्राप्नोति ऋषिसत्तम ॥२॥
गुरौ तुष्टे च तुष्टाः स्युर्देवाः सर्वे सवासवा ॥
गुरौ रुष्टे च रुष्टाः स्युर्देवाः सर्वे सवासवाः ॥ ३ ॥
कार्तिकं मासि सम्प्राप्ते कृत्वा कर्माणि भूरिशः ॥ ४ ॥
अकृत्वा गुरुशुश्रूषां नरकानेव विन्दति ॥ ४ ॥
यत्किञ्चिद्वा समादिष्टो गुरुणा तत्समाचरेत् ॥५॥
आज्ञप्तो गुरुणा विप्र न तद्वाक्यं तु लङ्घयेत् ॥
यदि दुःखादिकं प्राप्तं गुरुं तु शरणं व्रजेत् ॥ ६ ॥
मातृत्वे च पितृत्वे च गुरुमेव स्मरेद्बुधः ॥
गुरौ न प्राप्यते यत्तन्नान्यत्राऽपि हि लभ्यते ॥ ७ ॥
गुरुप्रसादात्सर्वं तु प्राप्नोत्येव न संशयः ॥
मेधावी कपिलश्चैव सुमतिश्च महातपाः ॥
गौतमस्य गुरोः सम्यक्सेवयाऽमरतां गताः ॥ ८ ॥*
तस्मात्सर्वप्रयत्नेन कार्तिके विष्णुतत्परः ॥
गुरुसेवां प्रकुर्वीत ततो मोक्षमवाप्नुयात् ॥ ९ ॥
नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः ॥
ससागरमहीदाने तत्पुण्यं लभते हि सः ॥ 2.4.2.१० ॥
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥
गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत ॥ ११ ॥
सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ *
सहस्रमेव धेनूनां शतं चानडुहां समम् ॥ १२ ॥
दशानडुत्समं यानं दशयानसमो हयः ॥
हयदान सहस्रेभ्यो गजदानं विशिष्यते ॥ १३ ॥
गजदानसहस्राणां स्वर्णदानं च तत्समम् ॥
स्वर्णदानसहस्राणां विद्यादानं च तत्समम् ॥ १४ ॥
विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते ॥
भूमिदानसहस्रेण गोप्रदानं विशिष्यते ॥ १५ ॥
गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते ॥
अन्नाधारमिदं प्रोक्तं तस्माद्देयं तु कार्तिके ॥ १६ ॥
परान्नवर्जनादेव लभेच्चान्द्रायणं फलम् ॥
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोति मानवः ॥ १७ ॥
कार्तिके वर्जयेन्मांसं सन्धानं च विशेषतः ॥
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात् ॥ १८ ॥
प्रवृत्तानां तु भक्ष्याणां कार्तिके नियमे कृते ॥
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम् ॥ १९ ॥
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे सूर्यचन्द्रयोः ॥
यत्फलं लभते वत्स तत्फलं भूमिशायिनः ॥ 2.4.2.२० ॥
भोजनं द्विजदम्पत्योः पूजनं च विलेपनैः ॥
कम्बलानि च रत्नानि वासांसि विविधानि च ॥ २१ ॥
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥
उपानहावातपत्रं कार्तिके देहि सुव्रत ॥ २२ ॥
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥
जागरं कार्तिके मासि यः करोत्यरुणोदये ॥ २३ ॥
दामोदराग्रे देवर्षे गोसहस्रफलं लभेत् ॥
नदीस्नानं कथा विष्णोर्वैष्णवानां च दर्शनम् ॥ २४ ॥
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा ॥ २५ ॥
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥
प्रयागो माघमासे तु पुष्करं कार्तिके तथा ॥ २६ ॥
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ॥
धन्यास्ते मानवा लोके कलिकाले विशेषतः ॥ २७ ॥
ये कुर्वन्ति नरा नित्यं प्रीत्यर्थं हरिपूजनम् ॥
तारितास्तैश्च पितरो नरकाच्च न संशयः ॥ २८ ॥
क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात् ॥
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदिवैः सह ॥ २९ ॥
कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः ॥
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥ 2.4.2.३० ॥
अहो मुष्टा विनष्टास्ते पतिताः कलिकन्दरे ॥
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ॥ ३१ ॥
पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम् ॥
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥
पुष्करार्चनयोगेन श्वेतो मुक्तिमवाप ह ॥ ३२ ॥ *
अपराधसहस्राणि तथा सप्तशतानि च ॥
पद्मेनैकेन देवेशः क्षमते प्रणतोऽर्चितः ॥३३॥
तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम् ॥
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥ ३४ ॥
मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत् ॥
तुलसी कृष्णनिर्माल्यैर्यो गात्रं परिमार्जयेत् ॥
सर्वरोगैस्तथा पापैर्मुक्तो भवति मानवः ॥ ३५ ॥
शङ्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् ॥
चन्दनं धूपशेषं च ब्रह्महत्यापहारकम् ॥ ३६ ॥
कार्तिके मासि विप्रेन्द्र प्रातःस्नानपरायणः ॥
विप्रेभ्यश्चान्नदानं तु कुर्याच्छक्त्यनुसारतः ॥ ३७ ॥
सर्वेषामेव दानानामन्नदानं विशिष्यते ॥
अन्नेन जायते लोको ह्यन्नेनैवाऽभिवर्द्धते ॥ ३८ ॥
अन्नं हि सर्वभूतानां प्राणभूतं परं विदुः ॥
अन्नदः सर्वदो लोके सर्वयज्ञादिकृद्भवेत् ॥ ३९ ॥
तीर्थस्नानेन किं तस्य देवयात्रादिनाऽपि किम् ॥
सर्वं सम्पाद्यते ब्रह्मन्नन्नदानान्न संशयः ॥ 2.4.2.४० ॥
सत्यकेतुर्द्विजः पूर्वं चान्नदानेन केवलम् ॥
सर्वपुण्यफलं प्राप्य मोक्षं प्राप सुदुर्लभम् ॥ ४१ ॥*
कार्तिकव्रतनिष्ठस्तु कुर्याद्गोदानमुत्तमम्॥
व्रतं सम्पूर्णतां याति गोदानेन न संशयः ॥ ४२ ॥
गोदानात्परमं दानं संसारार्णवतारकम् ॥
नास्ति नारद लोकेऽस्मिन्सुशर्मा ब्राह्मणो यथा ॥ ४३ ॥ *
कार्तिके मासि विप्रेन्द्र दत्त्वा दानान्यनेकशः ॥
हरिस्मृतिविहीनश्चेन्न पुनन्ति कदाचन ॥ ४४ ॥
नामस्मरणमाहात्म्यं मया वक्तुं न शक्यते ॥
पुष्करेण यथा पूर्वं नारकीयाश्च मोचिताः ॥ ४५ ॥ *
गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द् मुकुन्द कृष्ण ॥
गोविन्द गोविन्द रथाङ्गपाणे गोविन्द दामोदर माधवेति ॥ ४६ ॥
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ॥
कार्तिके यः पठन्मर्त्यः श्रद्धाभक्तिसमन्वितः ॥ ४७ ॥
यैर्न श्रुतं भागवतं पुराणं नाराधितो वै पुरुषः पुराणः ॥
हुतं मुखे नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ॥ ४८ ॥
कार्तिके मासि विप्रेन्द्र यस्तु गीतां पठेन्नरः ॥
तस्य पुण्यफलं वक्तुं मम शक्तिर्न विद्यते ॥ ४९ ॥
गीतायास्तु समं शास्त्रं न भूतं न भविष्यति ॥
सर्वपापहरा नित्यं गीतैका मोक्षदायिनी ॥ 2.4.2.५० ॥
एकेनाऽध्यायपाठेन सर्वपापकृतोऽपि च ॥
मुच्यन्ते नरकाद्घोराज्जडो वै ब्राह्मणो यथा ॥ ५१ ॥ *
शालिग्रामशिलादानं यः कुर्यात्कार्तिके मुने ॥
तस्य पुण्यस्य विश्रान्तिर्विष्णुना न निरूपिता ॥ ५२ ॥ *
शालिग्रामं समभ्यर्च्य श्रोत्रियाय महामुने ॥
दानं यः कुरुते विप्र तस्य पुण्यफलं शृणु ॥ ५३ ॥
सप्तसागरपर्यन्तं भूदानाद्यत्फलं भवेत् ॥
शालिग्रामशिलादानात्तत्फलं समवाप्नुयात् ॥ ५४ ॥
शालिग्रामशिलादानात्कार्तिके ब्राह्मणी यथा ॥
विधवा सधवा जाता विवाहे पञ्चमेऽहनि ॥ ५५ ॥ *
तस्मात्तु कार्तिके मासि स्नानदानपुरःसरम् ॥
शालिग्रामशिलादानं कर्तव्यं नाऽत्र संशयः ॥ ५६ ॥ *
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतधर्मनिरूपणन्नाम द्वितीयोऽध्यायः ॥ २ ॥