००१ कार्तिकव्रतप्रशंसावर्णनम्

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १ ॥
॥ ऋषय ऊचुः ॥ ॥
सूत नः कथितं पुण्यं माहात्म्यमाश्विनस्य च ॥
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम् ॥ २ ॥
कलौ कलुषचित्तानां नराणां पापकर्मणाम् ॥
संसाराब्धौ निमग्नानामनायासेन का गतिः ॥ ३ ॥
को धर्मः सर्वधर्माणामधिको मोक्षसाधकः ॥
इहाऽपि मुक्तिदो नृणामेतत्त्वं कथय प्रभो ॥ ४ ॥
॥ सूत उवाच ॥ ॥
भवद्भिर्यदहं पृष्टस्तदेतत्पृष्टवान्मुनिः ॥
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम् ॥ ५ ॥
तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम् ॥
अपृच्छत्कार्तिकस्यैव वैभवं श्रवणोत्सुका ॥६॥
वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि ॥
श्रीसूर्यारुणसंवादरूपेणाऽतिमनोहरम् ॥ ७ ॥
कैलासे शङ्करेणैव कार्तिकस्य च वैभवम् ॥
वर्णितं षण्मुखस्याग्रे नानाख्यानसमन्वितम् ॥ ८ ॥
पृथुं प्रति नारदेन कथितं च महात्म्यकम् ॥
कार्तिकस्य च विप्रेन्द्रा श्रुत्वा ब्रह्ममुखात्पुरा ॥ ९ ॥
एकदा नारदो योगी सत्यलोकमुपागतः ॥
पप्रच्छ विनयेनैव सर्वलोकपितामहम् ॥ 2.4.1.१० ॥
॥ श्रीनारद उवाच ॥ ॥
पापेन्धनस्य घोरस्य शुष्कार्द्रस्य च भूरिशः ॥
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति ॥ ११ ॥
नाज्ञातं त्रिषु लोकेषु ब्रह्माण्डान्तर्गतस्य यत् ॥
विद्यते तव देवेश त्रिविधस्य सुनिश्चितम् ॥ १२ ॥
मासानां प्रवरो मासो देवानामुत्तमोत्तमः ॥
तीर्थानि तद्विशेषेण कथयस्व पितामह ॥ १३ ॥
॥ ब्रह्मोवाच ॥ ॥
मासानां कार्तिकः श्रेष्ठो देवानां मधुसूदनः ॥
तीर्थं नारायणाख्यं हि त्रितयं दुर्लभं कलौ ॥ १४ ॥
॥ नारद उवाच ॥ ॥
भगवंस्तव दासोऽस्मि भक्तोऽस्मि हरिवल्लभ ॥
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह ॥ १५ ॥
आदौ कार्तिकमाहात्म्यं वक्तुमर्हसि मे प्रभो ॥
दीपदानस्य माहात्म्यं व्रतिनां नियमांस्तथा ॥ १६ ॥
गोपीचन्दनमाहात्म्यं तुलस्याश्च तथा विभो ॥
धात्र्याश्चैव च माहात्म्यं विधिं स्नानादिकस्य च ॥
व्रतारम्भः कदा कार्यं उद्यापनविधिं तथा ॥ १७ ॥
यत्किञ्चिद्वैष्णवं धर्मं तत्सर्वं वक्तुमर्हसि ॥
येनाऽहं त्वत्प्रसादेन पदं यास्याम्यनामयम् ॥॥ १८ ॥
॥ सूत उवाच ॥ ॥
इति पुत्रवचः श्रुत्वा ब्रह्मा हर्षसमन्वितः ॥
राधादामोदरं स्मृत्वा प्रोवाच तनुजं प्रति ॥ १९ ॥
॥ ब्रह्मोवाच ॥ ॥
साधु पृष्टं त्वया पुत्र लोकोद्धरणहेतवे ॥
कथयामि न सन्देहः कार्तिकस्य च वैभवम् ॥ 2.4.1.२० ॥
एकतः सर्वतीर्थानि सर्वे यज्ञाः सदक्षिणाः ॥ ॥
कार्तिकस्य तु मासस्य कलां नार्हन्ति षोडशीम् ॥ २१ ॥
एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये ॥
एकतः कार्तिकः पुत्र सर्वपुण्याधिको मतः ॥ ॥ २२ ॥
स्वर्णानि मेरुतुल्यानि सर्वदानानि चैकतः ॥
एकतः कार्तिको वत्स सर्वदा केशवप्रियः ॥ २३ ॥
यत्किञ्चित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्तिके ॥
तस्य क्षयं न पश्यामि मयोक्तं तव नारद ॥ २४ ॥
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ॥
तथात्मानं समादद्यान्न भ्रश्येत यथा पुनः ॥ २५ ॥
दुष्प्राप्यं प्राप्य मानुष्यं कार्तिकोक्तं चरेन्न यः ॥
धर्मं धर्मभृतां श्रेष्ठ स मातापितृघातकः ॥ २६ ॥
कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः ॥
पुण्यानां परमं पुण्यं पावनानां च पावनम् ॥ २७ ॥
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिता मुने ॥
अत्र स्नानानिदानानि भोजनानि व्रतानि च ॥ २८ ॥
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥
गोप्रदानानि कुर्वन्ति सर्वभावेन नारद ॥ २९ ॥
तानि दानानि दत्तानि गृह्णन्ति विधिवत्सुराः ॥
यत्किञ्च दत्तं विप्रेन्द्र तपश्चैव तथा कृतम् ॥ 2.4.1.३० ॥
तदक्षय्यफलं प्रोक्तं विष्णुना प्रभविष्णुना ॥ ॥
पापानां मोक्षणं चैव कार्तिके मासि शस्यते ॥ ३१ ॥
तस्माद्यत्नेन विप्रेन्द्र कार्तिके मासि दीयते ॥
यत्किञ्चित्कार्तिके दत्तं विष्णुमुद्दिश्य मानवैः ॥ ३२ ॥
तदक्षयं हि लभते अन्नदानं विशेषतः ॥
यथा नदीनां विप्रेन्द्र शैलानां चैव नारद ॥ ३३ ॥
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते ॥
दानं कार्तिकमासे तु यत्किञ्चिद्दीयते मुने ॥॥ ३४ ॥
न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ॥
सम्प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् ॥३५॥
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः ॥
न कार्तिकसमो मासो न कृतेन समं युगम् ॥३६॥
न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥
न चान्नसदृशं दानं न सुखं भार्यया समम् ॥ ३७ ॥
न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम् ॥
दुर्लभं मर्त्यधर्माणां तीर्थे च प्रतिपादनम् ॥ ३८ ॥
कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम् ॥
स्मरणं वासुदेवस्य कर्तव्यं पापभीरुणा ॥ ३९ ॥
एतादृशं कार्तिकं च अकृतेनैव यो नयेत् ॥
पूर्वं कृतस्य पुण्यस्य क्षयमाप्नोत्यसंशयम् ॥ 2.4.1.४० ॥
॥ नारद उवाच ॥ ॥
अशक्तेन कथं कार्यं कार्तिकव्रतमुत्तमम् ॥
येन तत्फलमाप्नोति तन्मे वद पितामह ॥ ४१ ॥
॥ ब्रह्मोवाच ॥ ॥
अशक्तस्तु यदा मर्त्यस्तदैवं व्रतमाचरेत् ॥
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम् ॥ ४२ ॥
तस्मात्पुण्यं प्रगृह्णीत दानसङ्कल्पपूर्वकम् ॥
द्रव्यदानेऽप्यशक्तश्चेद्यदा देवर्षिसत्तम ॥ ४३ ॥
तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च ॥
तत्राप्यशक्तो यो मर्त्यस्तेन नित्यं हरेर्मुदा ॥ ४४ ॥
स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम् ॥
अखण्डितं तदा तेन कार्तिकव्रतजं फलम् ॥ ४५ ॥
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ॥
शिवविष्ण्वोर्गृहाभावे सर्वदेवालयेष्वपि ॥४६॥
दुर्गाटव्यां स्थितो वाऽथ यदिवाऽऽपद्गतो भवेत् ॥
कुर्यादश्वत्थमूले तु तुलसीनां वनेष्वपि ॥ ४७ ॥
विष्णुनामप्रबन्धानां गायनं विष्णुसन्निधौ ॥
गोसहस्रप्रदानस्य फलमाप्नोति मानवः ॥ ४८ ॥
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्॥
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् ॥ ४९ ॥
सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान्॥
श्रवणाद्दर्शनाद्वापि षडंशं फलमाप्नुयात् ॥ 2.4.1.५० ॥
आपद्गतो यदाप्यम्भो न लभेत्कुत्रचिन्नरः ॥
व्याधितो वाथवा कुर्याद्विष्णोर्नाम्नाऽपि मार्जनम् ॥ ५१ ॥
उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः ॥
ब्राह्मणान्भोजयेत्पश्चाद्व्रतसम्पूर्तिहेतवे ॥ ५२ ॥
अशक्तो दीपदानाय परदीपं प्रबोधयेत् ॥
तस्य वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः ॥ ५३ ॥
श्रीविष्णोः पूजनाऽभावे तुलसीधात्रिपूजनम् ॥
सर्वाऽभावे व्रती कुर्याद्ब्राह्मणानां गवामपि ॥
तस्याप्यभावे मनसि विष्णोर्नामानुकीर्तनम् ॥ ५४ ॥
॥ नारद उवाच ॥ ॥
ब्रह्मन्ब्रूहि विशेषेण धर्मान्कार्तिकसम्भवान् ॥ ५५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतप्रशंसावर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥