००८ वर्णनम्

॥ शिव उवाच ॥ ॥
ब्रह्मकुण्डाद्दक्षिणतो नरावासगिरिर्महान् ॥
यत्र भगवता मेरुः स्थापितो लोकसुन्दरः ॥ १ ॥
॥ स्कन्द उवाच ॥ ॥
कथं भगवता मेरुः स्थापितो नरसन्निधौ ॥
महत्कौतूहलं तात कथ्यतां यदि रोचते ॥ २ ॥
॥ महादेव उवाच ॥ ॥
यदा भगवतो वासो विशालायां समागतः ॥
देवा महर्षयः सिद्धाः सविद्याधरचारणाः ॥३॥
विहाय मेरुशृङ्गाणि भगवद्दर्शनोत्सुकाः ॥
भगवद्दर्शनाह्लादतिरस्कृतसुरालयाः ॥ ४ ॥
तदा तु भगवांस्तेषां सुखहेतोः षडानन ॥
उत्पाद्य मेरुशृङ्गाणि करेणैकेन लीलया ॥
स्थापयामास सर्वेषां भगवान्प्रीतिवर्द्धनः ॥५॥
ततः सर्वे समालोक्य गिरिं काञ्चननिर्मितम् ॥
प्रसन्नास्तुष्टुवुः सर्वे नारायणमनामयम्॥६॥
॥देवा ऊचुः॥ ॥
योस्मत्सुखाय भवविश्रमणाय बिभ्रल्लीलातनूः कनकशैलमिहानिनाय ॥
जेता सुरार्द्दनशतं त्रिदशैकपक्षस्तस्मै विधेम नम उग्रतपःश्रियाय॥७॥
यद्यत्करोति कृपया कृपणार्तितूलशैलाग्निराश्रितकृदेकविदां वरिष्ठः॥
स्वेनैव तेन करणेन स तुष्यतां नो यस्यान्वकारि पुरुषेण न केनचिद्वै ॥८॥
अस्माकमुन्नतधियां विदधाति सम्यक्छिक्षां पितेव करुणो निजलाभपूर्णः॥
त्रैलोक्यरक्षणविचक्षणदृष्टिपातपूर्णामृताम्बुधिरसौ विपदः प्रपायात् ॥ ९ ॥
॥ ऋषय ऊचुः ॥ ॥
येनाध्यस्तं भाति समस्तं जगदेकं क्रीडाभाण्डं सत्यतयाऽजस्य विभूम्नः ॥
भानां वृदं यद्वदनेप्याश्रितमूर्तिस्तस्मै नित्यं शाश्वत तुभ्यं प्रणमाम ॥ 2.3.8.१० ॥
॥ सिद्धा ऊचुः ॥ ॥
यत्कृपालवत एव महान्तः सिद्धिमीयुरितरे भवभाजः ॥
तेऽचिरेण भवभीमपयोधिं तीर्णवन्त इति नः सुमनीषा ॥११॥
॥ विद्याधरा ऊचुः॥ ॥
विभो सद्गुणग्राम कल्याणमूर्ते परेशान सम्मानसन्तानहेतो ॥
भवत्पादपद्मासवस्वादमत्ताः कृतार्था न चित्रं भवत्यत्र किञ्चित् ॥१२॥
ततस्तुष्टोऽथ भगवांस्तेषामासीद्दिवौकसाम् ॥
वरं वृणुध्वमित्युक्तास्ते प्रोचुर्वरदर्षभम्॥१३॥
परितुष्टो भवान्साक्षाद्देवदेवो रमापतिः॥
बदरी न त्वया त्याज्या न च मेरुः कदाचन॥१४॥
मेरुशृङ्गं प्रपश्यन्ति ये जनाः पुण्यभागिनः ॥
तेषां वै त्वत्प्रसादेन मेरौ वासः प्रजायताम्॥१५॥
तत्र भुक्त्वा चिराद्भोगान्भूयादन्ते लयस्त्वयि॥
एवमस्त्विति चाभाष्य तत्रैवान्तर्हितो हरिः ॥ १६ ॥
ततः प्रभृति ते सर्वे मेरुशृङ्गविहारिणः ॥
नरनारायणस्यान्ते पाल्यमाना मुहुर्मुहुः॥१७॥
कदाचिद्दिवि तिष्ठन्ति कदाचिन्मेरुमध्यतः॥
निर्विशङ्का निरुद्वेगा ऋषयश्च तपोधनाः॥१८॥
भगवानपि तत्रैव नररूपेण तिष्ठति॥
धनुर्बाणधरः श्रीमांस्तपसा पावकोपमः॥
आनन्दमृषिवृन्दस्य जनयंस्तप आस्थितः ॥ १९ ॥
ततस्तु परमं तीर्थं लोकपालाभिवन्दितम् ॥
यत्र संस्थापयामास लोकपालान्हरिः स्वयम् ॥2.3.8.२०॥
॥ स्कन्द उवाच ॥ ॥
कथं भगवता तत्र लोकपालाश्च स्थापिताः ॥
महत्कौतूहलं तात कथयस्व महामते ॥ २१ ॥
॥ शिव उवाच ॥ ॥
एकदा मेरुमध्यस्थाश्रयानिह हरन्हरिः॥
देवानामृषिमुख्यानां चरितं द्रष्टुमुद्यतः ॥२१॥
तं दृष्ट्वा सहसोत्थाय नमस्कृत्य दिवौकसः ॥
ऊचुस्ते विनयात्सर्वे प्रसीद भगवन्विभो ॥ २३ ॥
क्षणं विश्राम्य विधिवद्दृष्ट्वा तां विरलां भुवम् ॥
सान्निध्यमृषिदेवानामयुक्तं भावयन्मिथः ॥ २४ ॥
ततः प्रहस्य भगवानुवाच मधुसूदनः ॥
लोकपालान्समाहूय नात्र स्थेयं भवद्विधैः ॥ २५ ॥
ऋषयस्तापसाः सिद्धाः सस्त्रीका निवसन्ति हि ॥
भवद्विधानामास्थानं पुरेव कल्पितं मया ॥२६॥
ततः स त्वरितो गत्वा रम्ये गिरिवरे हरिः ॥
लोकपालान्समाहूय स्थापयामास तान्गुह ॥ २७ ॥
तत्रैव शैलदण्डेन हत्वाग्निं जलकाङ्क्षया ॥
क्रीडापुष्करणीं तेषां निर्ममे सुमनोहराम ॥ २८ ॥
सस्त्रीका यत्र गीर्वाणा विचरन्ति निजेच्छया ॥
गायन्ति स्वनुमोदन्ति गन्धर्वास्त्रिदिवौकसाम् ॥ २९ ॥
वनानि कुसुमामोदरम्याणि परितोषतः ॥
दिनानि यत्र गच्छन्ति क्षणप्रायाणि देहिनाम् ॥ 2.3.8.३० ॥
भगवानपि तत्रैव तेषामानन्दमावहन्॥
द्वादश्यां पौर्णमास्यां च स्वयमायाति मज्जने ॥ ३१ ॥
तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ॥
यत्र स्नात्वा विधानेन गुह मध्याह्नकालतः ॥
असङ्गं परमं ज्योतिर्जले पश्यन्ति चक्षुषा ॥ ३२ ॥
सर्वतीर्थावगाहेन यत्फलं परिकीर्तितम् ॥
तत्फलं तत्क्षणादेव दण्डपुष्करिणीक्षणात् ॥ ॥ ३३ ॥
यत्र काम्यानि कर्माणि सफलानि मनीषिणाम् ॥
यत्र पिण्डप्रदानेन गयातोऽष्टगुणं फलम् ॥३४॥
यज्ञो दानं तपः कर्म सर्वमक्षयमुच्यते॥
द्वादश्यां शुक्लपक्षस्य ज्येष्ठे मासि षडानन ॥ ३५ ॥
तत्र स्नात्वा विधानेन कृतकृत्यो भवेद्यतः ॥
बदरीतीर्थमध्ये तु गुप्तमेतत्सुरोत्तमैः ॥
न वाच्यं यत्र कुत्रापि तव प्रीत्या मयोदितम् ॥३६॥
वक्तव्यं किमिह बहु प्रभूतपुण्याः पश्यन्ति प्रथितमिदं सुरैकगुप्तम् ॥
नान्येषां कथमपि चेतसि प्रसङ्गाद्देवैः स्यादनुदिनचिन्तितं गुहैतत् ॥ ३७ ॥
येषां वै भगवति चेत्समग्रकर्म स्वाध्यायाभ्यसनविधिक्रमेण जातम् ॥
पश्यन्ति त्रिभुवनदुर्ल्लभं सुतीर्थं दण्डोदं न भवति चान्यथा सुदृष्टम् ॥३८॥
दण्डोदकात्परं तीर्थं न विष्णोः सदृशोऽमरः ॥
विशालासदृशं क्षेत्रं न भूतं न भविष्यति ॥३९॥
सेवनीया प्रयत्नेन विशाला च विचक्षणैः ॥
य इच्छेत्सततं धाम भगवत्पार्श्ववर्ति वै ॥ 2.3.8.४० ॥
॥ स्कन्द उवाच ॥ ॥
गङ्गामाश्रित्य तीर्थानि कानि सन्तीह सत्पदे ॥
श्रेयस्कराणि भूरीणि सङ्क्षेपात्तानि मे वद ॥ ४१ ॥
॥ महादेव उवाच ॥ ॥
गङ्गायां यत्र संयोगो मानसोद्भेदसन्निधौ ॥
तत्तीर्थं विमलं पुण्यं प्रयागादधिकं महत् ॥ ४२ ॥
त्रिंशद्वर्षसहस्राणि वायुभोजनतो भवेत् ॥
तत्फलं स्नानमात्रेण गङ्गायाः सङ्गमे नृणाम् ॥ ४३ ॥
सङ्गमाद्दक्षिणे भागे धर्मक्षेत्रं प्रकीर्तितम् ॥
यत्र मूर्त्या श्रुतौ जातौ नरनारायणावृषी ॥४४॥
तत्क्षेत्रं पावनं मर्त्ये सर्वेषामुत्तमोत्तमम् ॥
धर्मस्तत्रैव भगवांश्चतुष्पादवतिष्ठति ॥ ४५ ॥
यत्र यज्ञास्तपो दानं यत्किञ्चित्क्रियते नृभिः ॥
तत्पुण्यस्य क्षयो नास्ति कल्पकोटिशतैरपि ॥ ४६ ॥
ततो दक्षिणदिग्भाग उर्वशी सङ्गमाभिधम् ॥
सर्वपापहरं पुंसां स्नानमात्रेण देहिनाम् ॥ ४७ ॥
कूर्मोद्धारस्ततः साक्षाद्धरिभक्त्येकसाधनम् ॥
स्नानमात्रेण भूतानां सत्त्वशुद्धिः प्रजायते ॥ ४८ ॥
ब्रह्मावर्त्तस्ततः साक्षाद्ब्रह्मलोकैककारणम् ॥
दर्शनादेव तीर्थस्य सर्वपापक्षयो भवेत् ॥ ४९ ॥
बहूनि सन्ति तीर्थानि दुर्गम्यानीह देहिनाम् ॥
सङ्क्षेपात्कथितं वत्स तवादरवशादिदम् ॥ 2.3.8.५० ॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥
सर्वपापविनिर्मुक्तः पदं विष्णोः प्रपद्यते ॥॥ ५१ ॥
राजा विजयमाप्नोति सुतार्थी लभते सुतम् ॥
कन्यार्थी लभते कन्यां कन्या विन्दति सत्पतिम् ॥ ५२ ॥
धनार्थी धनमाप्नोति सर्वकामैकसाधनम् ॥ ५३ ॥
मासमात्रं नरो भक्त्या शृणुयाद्यः समाहितः ॥
तस्याभीष्टसमावाप्तिर्दुर्लभोपि न संशयः ॥ ५४ ॥
आधिव्याधिभयं घोरं दारिद्र्य कलहं तथा ॥
यस्य गेहेषु माहात्म्यं तत्रैतानि न कर्हिचित् ॥ ५५ ॥
नापमृत्युर्न सर्पादि दौर्भाग्यं चापि वर्तते ॥
दुःस्वप्नग्रहपीडा च परराष्ट्रभयं तथा ॥ ५६ ॥
युद्धे यात्राप्रयाणे च पठनीयं प्रयत्नतः ॥
विवाहे च विवादे च शुभकर्मणि यत्नतः ॥ ५७ ॥
पूर्णं वाऽध्यायमात्रं वा तदर्धं वा विचक्षणैः ॥
सर्वकार्यप्रसिद्धिः स्यान्नात्र कार्या विचारणा ॥ ५८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमे मेरुसंस्थापनतीर्थलोकपालतीर्थदण्डपुष्करिणीतीर्थधर्मक्षेत्रादिविविधतीर्थक्षेत्रमाहात्म्य वर्णनन्नामाष्टमोऽध्यायः ॥ ८ ॥ ॥ छ ॥

इति श्रीस्कान्दे द्वितीये वैष्णवखण्डे तृतीयं बदरिकाश्रममाहात्म्यं समाप्तम् ॥ २-३) ॥ ॥