॥ शिव उवाच ॥ ॥
ततो नैर्ऋत्यदिग्भागे पञ्चधाराः पतन्त्यधः ॥
प्रभासं पुष्करं चैव गयां नैमिषमेव च ॥
कुरुक्षेत्रं विजानीहि द्रवरूपं षडानन ॥ १ ॥
पुरा ते ब्रह्मणः स्थानं गता मलिनरूपिणः ॥
पापिनां पापदोषेण विकृताः कृतबुद्धयः ॥ २ ॥
तत्र गत्वा नमस्कृत्य ब्रह्माणं लोकभावनम् ॥
ऊचुः प्राञ्जलयः सर्वे निजागमनकारणम् ॥ ३ ॥
तच्छ्रुत्वा ध्यानमालम्ब्य प्रहस्य जगदीश्वरः ॥
उवाच वचनं चारु स्मृत्वा बदरीकाश्रमम् ॥ ४ ॥
मा भैष्ट गच्छत क्षिप्रं हरेर्बदरिकाश्रमम् ॥
यस्य निर्देशमात्रेण सद्यः पुण्यं भविष्यति ॥५॥
ततस्ते हर्षवेगेन नमस्कृत्य पितामहम् ॥
जग्मुरुत्फुल्लनयना विशालाममितप्रभाम् ॥ ६ ॥
यस्य निर्वेशमात्रेण तत्क्षणाद्विगतेनसः ॥
ततो द्विरूपमास्थाय स्वस्थानं ययुरुत्सुकाः ॥ ७ ॥
द्रवरूपेण चान्येन पञ्च तिष्ठन्ति निर्मलाः ॥
तेषु स्नात्वा विधानेन कृत्वा नित्यक्रियां शुचिः ॥ ८ ॥
तत्तत्तीर्थफलं लब्ध्वा यात्यन्ते परमं पदम् ॥
पञ्चोपवास निरतः पूजयित्वा जनार्दनम् ॥ ९ ॥
इह भोगान्बहून्भुक्त्वा हरेः सालोक्यमाप्नुयात् ॥ 2.3.7.१० ॥
ततस्तु विमलं तीर्थं सोमकुण्डाभिधं परम् ॥
तपश्चकार भगवान्सोमो यत्र कलानिधिः ॥ ११ ॥
॥ स्कन्द उवाच ॥ ॥
सोमकुण्डस्य माहात्म्यं वद मे वदतां वर ॥
त्वत्प्रसादादहं श्रोतुमिच्छामि परमेश्वर ॥ १२ ॥
॥ शिव उवाच ॥ ॥
पुरात्रितनयः श्रीमान्सोमः सम्प्राप्य यौवनम्॥
श्रुत्वा स्वर्वासिनां सौख्यं गन्धर्वेभ्यो मुहुर्मुहुः ॥
तदा स्वपितरं प्रायात्प्रष्टुं तल्लभते कथम् ॥ १३ ॥
॥ सोम उवाच ॥ ॥
भगवन्सर्वधर्मज्ञ करुणामृतसागर ॥
कथं वा लभ्यते स्वर्गः सर्वेषामुत्तमोत्तमः ॥ १४ ॥
ग्रहनक्षत्रताराणामोषधीनां पतिः प्रभो ॥
स्यामहं येन तं यत्नं कृपया वद मे पितः ॥ १५ ॥
॥ अत्रिरुवाच ॥ ॥
तपसाराध्य गोविन्दं यमैर्वा नियमैः सुत ॥
किं दुर्ल्लभं तु साधूनामिह लोके परत्र च ॥ १६ ॥
ततस्तु नारदाच्छ्रुत्वा क्षेत्रं परमनिर्मलम् ॥
जगाम बदरीं नत्वा पितरं दिशमुत्तराम् ॥ १७ ॥
तत्र गत्वा फलैर्मेध्यैर्विष्णोः पूजामकल्पयत् ॥
जजाप परमं जाप्यमष्टाक्षरं मनोहरम् ॥ १८ ॥
अष्टाशीतिसहस्राणि वर्षाणि भगवत्परम् ॥
तपस्तेपेऽतिपरमं सर्वलोकभयावहम् ॥ १९ ॥
ततस्तुष्टः समागत्य भगवान्भक्तवत्सलः ॥
उवाच सोमं विधिवद्वरं वरय सुव्रत ॥2.3.7.२०॥
ततः सोमः समुत्थाय नमस्कृत्य पुनःपुनः ॥
ग्रहनक्षत्रताराणामोषधीनामहं पतिः ॥
द्विजानामपि सर्वेषां भूयासं ते प्रसादतः ॥ २१ ॥
॥ हरिरुवाच ॥ ॥
वरमन्यं वृणुष्वातो दुर्ल्लभं त्वं भवादृशाम् ॥
वरान्नो वरयामास तदा तं हिमजात्मज ॥ २२ ॥
ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत् ॥
त्रिंशद्वर्षसहस्राणि देवमानेन पुत्रक ॥२३॥
तदासौ करुणापूर्णहृदयो भगवानगात् ॥
वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥
सोमस्तु तादृशं वव्रे तच्छ्रुत्वान्तर्द्दधे हरिः॥२४॥
ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत्॥
चत्वारिंशत्सहस्राणि तपस्तप्तं सुदुष्करम् ॥२५॥
ततस्तुष्टो हरिः साक्षाच्छङ्खचक्रगदाधरः ॥
उवाच वचनं चारु सोमं श्रान्तं तपोनिधिम् ॥२६॥
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं वरय सुव्रत ॥
तपसाराधितो नूनं त्वयाहं तपसां निधिः ॥ २७ ॥
॥ सोम उवाच ॥ ॥
यदि तुष्टो भवान्मह्यं भगवान्वरदर्षभः ॥
ग्रहनक्षत्रताराणामाधिपत्यं प्रयच्छ मे ॥
तथौषधीनां विप्राणां यामिन्याश्च जगत्पते ॥ २८ ॥
॥ श्रीभगवानुवाच ॥ ॥
दुर्ल्लभं प्रार्थितं वत्स वितरामि तथाप्यहम् ॥
एवमस्तु ततः सर्वे समागत्य दिवौ कसः ॥
अभिषिक्तवन्तो विधिवत्सोमं राजानमादृताः ॥ २९ ॥
ततो विमानमारूढो रथेन शुभ्रवाससा ॥
अभिष्टुतः सुरैरभूद्दिवं गतो निशाकरः ॥ ॥ 2.3.7.३० ॥
ततः प्रभृति तीर्थं तत्सोमकुण्डेति दुर्ल्लभम् ॥
यद्दृष्टिमात्रान्मनुजा गतदोषा भवन्ति हि ॥ ३१ ॥
यदुपस्पर्शनाद्यान्ति सोमलोकं विनिन्दिताः ॥
यत्र स्नात्वा विधानेन सन्तर्प्य पितृदेवताः ॥३२॥
सोमलोकं विनिर्भिद्य विष्णुलोकं प्रपद्यते ॥
उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम् ॥ ॥ ३३ ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
त्रिरात्रेण स्थितो भूत्वा पूजयित्वा जनार्द्दनम् ॥
जपं कुर्वन्विशेषेण मन्त्रसिद्धिः प्रजायते ॥ ॥ ३४ ॥
कर्मणा मनसा वाचा यत्कृतं पातकं नृभिः ॥
तत्सर्वं क्षयमायाति सोमकुण्डेक्षणादिह ॥ ३५ ॥
ततस्तु द्वादशादित्यतीर्थं पापहरं परम् ॥
यत्र तप्त्वा पुनः कृच्छ्रं काश्यपः सूर्यतां ययौ ॥ ३६ ॥
दुर्ल्लभं त्रिषु लोकेषु तपःसिद्ध्येककारणम् ॥
रविवारेषु सप्तम्यां सङ्क्रात्यां विधिवन्नरः ॥
सप्तजन्मकृतात्पापात्स्नानमात्रेण शुद्ध्यति ॥ ३७ ॥
पाराकं विधिवत्कृत्वा पूजनीयो जनार्द्दनः ॥
सूर्यलोके सुखं भुक्त्वा विष्णुलोके महीयते ॥ ॥ ३८ ॥
महारोगाभिभूतस्तु स्नात्वा पीत्वा जलं शुचिः ॥
रोगमुक्तोऽचिरादेव नात्र कार्या विचारणा ॥ ३९ ॥
चतुःस्रोतं परं तीर्थं विलोचनमनोहरम् ॥
धर्मार्थकाममोक्षास्ते तिष्ठन्ति द्रवरूपिणः ॥ 2.3.7.४० ॥
हरेराज्ञानुसारेण क्षेत्रेऽस्मिन्वैष्णवे स्वयम् ॥
पुरुषार्था द्रवीभूता भूतानां मुक्तिहेतवः ॥ ॥ ४१ ॥
पूर्वादिदिक्षु क्रमसन्निविष्टा धर्मप्रधाना इव रूपभाजः ॥
भजन्ति ये तान्क्रमसन्निविष्टान्प्रसन्नतैषां सततं भवेद्धि ॥ ४२ ॥
नान्यत्र क्षेत्रे मिलिताः कथञ्चिच्चत्वार एते त्रिदशैरलभ्याः ॥
तानग्रिमं जन्म जवेन लब्ध्वा पश्यन्ति पूर्वार्जितपुण्यपुञ्जाः ॥ ४३ ॥
ये दुर्जना दुर्जनसङ्गभाजः क्षमार्जवप्राणजयप्रधानाः ॥
क्रीडामृगा ग्राम्यवधूजनानां न ते प्रपश्यन्त्यचिरात्पुमर्थान्॥४४॥
तथैव पश्यन्त्यचिरेण तत्त्वज्ञानैकहेतूनपि तान्पुमर्थान् ॥ ४५ ॥
अत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥
पर्वणि प्रयताः स्नातुं समायान्ति षडानन ॥ ४६ ॥
ततः सत्यपदन्नाम तीर्थं सर्वमनोहरम् ॥
त्रिकोणाकारमेवैतत्कुण्डं कल्मषनाशनम् ॥
एकादश्यां हरिस्तत्र स्वयमायाति पावने ॥४७॥
तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ॥
स्नातुमायान्ति विधिवत्कुण्डे सत्यपदाभिधे ॥४८॥
गन्धर्वाप्सरसां यत्र मध्याह्ने हरिवासरे ॥
गानं शृण्वन्ति विरलाः सत्यव्रतपरायणाः ॥ ४९ ॥
दर्शनाद्यस्य तीर्थस्य पातकानि महान्त्यपि ॥
पलायन्ते भयेनैव सिंहं दृष्ट्वा मृगा इव ॥2.3.7.५०॥
स्वशाखोक्तविधानेन स्नानं कृत्वा विचक्षणः ॥
सत्यलोकमवाप्नोति ततो नैःश्रेयसं पदम् ॥ ५१ ॥
अहोरात्रं शुचिर्भूत्वा उपोष्य च जनार्द्दनम् ॥
पूजयित्वा यथाशक्त्या स जीवन्मुक्तिभाजनः ॥ ५२ ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रिकोणस्थाः समाहिताः ॥
तपः कुर्वन्त्यनुदिनं सर्वलोकादितोषणम् ॥ ५३ ॥
त्रिकोणमण्डितं तीर्थं नाम्ना सत्यपदप्रदम् ॥
दर्शनीयं प्रयत्नेन सर्वपापमुमुक्षुभिः ॥ ५४ ॥
जपं तपो हरिस्तोत्रं पूजां स्तुत्यभिवन्दनम् ॥
माहात्म्यं कुर्वतां वक्तुं ब्रह्मणापि न शक्यते ॥ ५५ ॥
ततोऽतिविमलं नाम नरनारायणाश्रमम् ॥
द्विविधं दृश्यते तत्र पाथः परमनिर्मलम् ॥ ५६ ॥
उभाभ्यामुभयोः प्रीतिर्भवतीति विनिश्चितम् ॥
तत्र स्नात्वा प्रयत्नेन पूजयित्वा जनार्द्दनम् ॥
सर्वपापविनिर्मुक्तस्तत्क्षणान्नात्र संशयः ॥ ५७ ॥
ततो नारायणावासशिखरे विमलाकृति ॥
तीर्थं पवित्रमुर्वश्या अभिव्यक्तिकरं भवेत् ॥ ५८ ॥
॥ स्कन्द उवाच ॥ ॥
अभिव्यक्तिः कथं तस्या उर्वश्याः शिखरे पितः ॥
किं पुण्यं किं फलं तत्र परं कौतूहलं वद ॥५९॥
॥ शिव उवाच ॥ ॥
धर्मस्यपत्नी मूर्त्यासीत्तस्यां जातौ षडानन ॥
नरनारायणौ साक्षाद्भगवानेव केवलम् ॥ 2.3.7.६० ॥
पित्रोराज्ञामनुप्राप्य तपोऽर्धं कृतमानसौ ॥
उभयोर्नगयोस्तौ तु तपोमूर्ती इव स्थितौ ॥ ६१ ॥
तौ दृष्ट्वा विस्मितः शक्रः प्रेषयामास मन्मथम् ॥
सगणं तपसो ध्वंसो यथा स्याद्गन्धमादनम् ॥ ६२ ॥
विक्रम्य विधिवत्ते तु नारायणबलोदयम् ॥
ज्ञात्वा हतमनस्कास्तानुवाच जगतीपतिः ॥ ६३ ॥
॥ हरिरुवाच ॥ ॥
किमर्थमागता यूयमातिथ्यं गृह्यतामिति ॥ ६४ ॥
इत्युक्त्वा फलमूलानि तेभ्यो दत्त्वोर्वशीं तथा ॥
दत्त्वान्तर्धिमगादेव पश्यतां विघ्नकारिणीम् ॥ ६५ ॥
ते तु गत्वा दिवं भीते शक्रायोचुर्बलं हरेः ॥
शक्रस्तामुर्वशीं प्राप्य हर्षणैकयुतोऽभवत् ॥ ६६ ॥
ततः प्रभृति तत्तीर्थमुर्वशी नामतः पृथक् ॥
प्रसिद्धं यत्र भगवान्स्वयमास्ते तपोमयः ॥ ६७ ॥
तत्र स्नात्वा विधानेन उपोष्य रजनिद्वयम् ॥
पूजयित्वा हरिस्तत्र नरो नारायणो भवेत् ॥ ६८ ॥
उर्वशीकुण्डमासाद्य कामनावशतो नरः ॥
उर्वशीलोकमाप्नोति स्नानमात्रेण पुत्रक ॥ ६९ ॥
सदैव भगवांस्तत्र उर्वशीकुण्ड सन्निधौ ॥
भूतानां भावयन्भव्यं तपोमूर्तिर्व्यवस्थितः ॥ 2.3.7.७० ॥
आमोदं तदुपरि वै प्रभञ्जनोऽपि श्रीभर्तुर्वहति पदाम्बुजैकलब्धम् ॥
यत्सङ्गात्कलियुगकल्मषातुराणामुत्सङ्गे न भवति पापभारपाकः ॥ ७१ ॥
यत्सङ्गाद्धर्षमुपावहत्पदश्रीनिर्विण्णो गिरिविवरेच्युतैकसेवी ॥
श्रीभर्तुश्चरणयुगं वहन्समन्तादभ्येति प्रशममहस्तपःसमीरे ॥७२॥
गीर्वाणानुपहसति स्वघेन पूर्णः कीटोऽपिप्रशमितदुर्नयो निरीहः॥
यत्रस्थः कुसुमनिवेदमात्मयोगपर्युष्टं जहदुपयास्यते पदं तत् ॥ ७३ ॥
यत्रेत्वा मुनिमतयो बहिःपदार्थान्नापश्यन्निहितपदाम्बुजैकभाजः ॥
यत्रस्थः स्वयमपि गोपतिर्जनानामाधत्ते स्वपदमनुक्रमागतानाम् ॥ ७४ ॥
बहूनि सन्ति तीर्थानि गिरौ नारायणाश्रिते ॥
सर्वपापहराण्याशु तान्यहं वेद नो जनः ॥ ७५ ॥
संसारकुहरे घोरे यत्र स्थगितमात्मनः ॥
उर्वशीकुण्डमासाद्य दिनमेकं वसेन्नरः ॥ ७६ ॥
उर्वशीदक्षिणे भागे आयुधानि जगत्पतेः ॥
विद्यन्ते दर्शनात्तेषां न शस्त्रभयभाग्भवेत् ॥ ७७ ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥
सर्वपापविनिर्मुक्तः सालोक्यं लभते हरेः ॥७८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पञ्चधारादितीर्थमाहात्म्यवर्णनन्नाम सप्तमोध्यायः ॥ ७ ॥ ॥ ॥