॥ स्कन्द उवाच ॥ ॥
कराद्विगलितं यत्र कपालं ते महेश्वर ॥
तस्य तीर्थस्य माहात्म्यं कृपया वद मे पितः ॥ १ ॥
॥ ॥ शिव उवाच ॥ ॥
अतिगुह्यमिदं तीर्थं सुरासुरनमस्कृतम् ॥
ब्रह्महाऽपि नरो यत्र स्नानमात्रेण शुद्ध्यति ॥ २ ॥
पञ्च तीर्थानि तिष्ठन्ति कपाले पापमोचने ॥
तत्र स्नानं तपो दानं सर्वमक्षयमिष्यते ॥ ३ ॥
पिण्डं विधाय विधिवन्नरकात्तारयेत्पितॄन् ॥
पितृतीर्थमिदं प्रोक्तं गयातोऽष्टगुणाधिकम् ॥ ४ ॥
तिलतर्प्पणतो यान्ति पितरः स्वर्गमुत्तमम् ॥ ५ ॥
अहोरात्रं स्थिरो भूत्वा जपनिष्ठः समाहितः ॥
तस्येष्टसिद्धिर्महती तत्क्षणादेव जायते ॥ ६ ॥
पारलौकिककर्माणि सर्वाण्यव्याहतानि च ॥
कपालमोचने तीर्थे नाधिकं पितृकर्मणि ॥ ७ ॥
॥ स्कन्द उवाच ॥ ॥
कुत्र वा ब्रह्मतीर्थं वै फलं वा कीदृशं भवेत् ॥
के वा तत्र वसन्तीह कृपया वद मे पितः ॥ ८ ॥
शिव उवाच ॥ ॥
एकदा विष्णुनाभ्यम्भोरुहस्थस्य प्रजापतेः ॥
वेदान्मुखाम्बुजाद्धृत्वा जग्मतुर्मधुकैटभौ ॥ ९ ॥
ततो ह्युत्थाय शयनात्सिसृक्षुरब्जसम्भवः ॥
स्रष्टुं विनाऽगमं लोके न शशाक हृतस्मृतिः ॥ 2.3.6.१० ॥
तदा बदरिकामेत्य हरिणा प्रतिपालिताम् ॥
तुष्टाव प्रणतो भूत्वा भगवन्तं सनातनम् ॥ ११ ॥
ततः कुण्डात्समुद्भूतो हयशीर्षो निजायुधः ॥
पीताम्बरधरः शुक्लश्चतुर्बाहुः सुदृप्तदृक् ॥ १२ ॥
अत्यद्भुतः प्रकटकठोरलोचनश्चलच्छटाविच्छुरितमेघडम्बरः ॥
स्वतेजसा हतनिखिलप्रभाकुलः कृपान्वितो द्रुहिणपुरःसरोऽभवत् ॥ १३ ॥
निरीक्ष्य तं विधिरपि विस्मयाकुलः प्रणम्य च स्तुतिमकरोत्प्रसन्नदृक् ॥ १४ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
नमः कमलनाभाय नमस्ते कमलाश्रय ॥
नमस्ते कमलावासविशालवनमालिने ॥ १५ ॥
नमो विज्ञानभात्राय गुहावास निवासिने ॥
हृषीकेशाय शान्ताय तुभ्यं भगवते नमः ॥ १६ ॥
स्वभक्तरक्षणकृते धृतदेहाय शार्ङ्गिणे ॥
अनन्तक्लेशनाशाय गदिने ब्रह्मणे नमः ॥॥ १७ ॥
संसारविविधासारनिवृत्तिकृतकर्मणे ॥
रक्षित्रे सर्वजन्तूनां विष्णवे जिष्णवे नमः ॥ १८ ॥
नमो विश्वम्भराशेषनिवृत्तगुणवृत्तये ॥
सुरासुरवरस्तम्भनिवृत्तिस्थितिकीर्तये ॥१९॥
इतीरितः सुरपतिना महेश्वरो हृदिस्थितोऽखिलविदशेषकर्मभिः ॥
ततोऽन्तरं सपदि गतो निबध्य तौ सुरद्रुहौ किल निजघान लीलया ॥ 2.3.6.२० ॥
ततो निगममादाय ब्रह्मणोंऽतिकमाययौ॥
दत्त्वा स्वनिगमं तस्मै स्वस्थोऽभूत्स समीडितः ॥ २१ ॥
ततः प्रभृति तत्तीर्थं ब्रह्मणा प्रकटीकृतम् ॥
ब्रह्मकुण्डमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥ २२ ॥
यस्य दर्शनमात्रेण महापातकिनो जनाः ॥
विमुक्तकिल्बिषाः सद्यो ब्रह्मलोकं व्रजन्ति ते ॥ २३ ॥
स्नानं कुर्वन्ति ये लोका व्रतचर्यामथापि वा ॥
ब्रह्मलोकमतिक्रम्य विष्णुलोकं व्रजन्ति ते ॥ २४ ॥
॥ स्कन्द उवाच ॥ ॥
ततः किमकरोद्धाता लब्ध्वा वेदाञ्जनार्द्दनात् ॥
एतदन्यच्च सर्वं मे कृपया वद साम्प्रतम् ॥ २५ ॥
॥ महादेव उवाच ॥ ॥
चतुर्णामपि वेदानां दृष्ट्वा बदरिकाश्रमम् ॥
मतिर्न जायते गन्तुं ब्रह्मणा सह पुत्रक ॥ २६ ॥
ततस्तु विकलं दृष्ट्वा ब्रह्माणं जनवासिनः ॥
सिद्धास्तु विधिवत्स्तुत्वा प्रणिपत्येदमब्रुवन् ॥ २७ ॥
॥ सिद्धा ऊचुः ॥ ॥
आज्ञा भगवतः कार्या सर्वैः स्थावरजङ्गमैः ॥
भगवान्सर्वजन्तूनां कर्त्ता हर्ता पिता गुरुः ॥ २८ ॥
स्थितिर्ब्रह्मान्तिके वश्च हरिणैवानुकल्पिता ॥
निवृत्तिर्वर्तते चैषा तथाप्येतन्निरामयम् ॥२९॥
एकान्ते द्रवरूपेण मूर्तिर्वोऽत्रावतिष्ठताम् ॥
द्वितीया ब्रह्मणा सार्द्धं ब्रह्मलोकं व्रजेत्पुनः ॥ 2.3.6.३० ॥
ततः सहृदया वेदा द्वैधीकृतात्मरूपकाः ॥
ब्रह्मणा ब्रह्मलोकं ते ययुः सार्द्धं प्रहर्षिताः ॥ ३१ ॥
ततस्त्रिलोकं विधिवत्ससर्ज चतुराननः ॥
द्रवरूपेषु वेदेषु स्नानदानतपःक्रियाः ॥
कृता विच्छेदिता न स्युर्यावदाभूतसम्प्लवम् ॥ ३२ ॥
फलमुद्दिश्य कुर्वन्ति उपवासत्रयं नराः ॥
चतुर्णामपि वेदानां व्याख्यातारो न संशयः ॥ ३३ ॥
अनुक्रमेण तिष्ठन्ति वेदाश्चत्वार एव च ॥
ऋग्यजुःसामाथर्वाख्या भगवत्पार्श्ववर्तिनः ॥ ३४ ॥
ये पुण्यवन्तोऽकलुषा वेदवेदाङ्गपारगाः ॥
ते वेदघोषं विरलाः शृण्वन्त्यपि कलौ युगे ॥ ३५ ॥
चतुर्णामपि वेदानामुदगस्ति सरस्वती ॥
जप्ताथ सा नृणां हन्ति जडतां जलरूपिणी ॥ ३६ ॥
सरस्वत्या जले स्थित्वा जपं कृत्वा समाहितः ॥
मनोस्तस्य न विच्छेदः कदाचिदपि जायते ॥ ३७ ॥
वेदव्यासोऽपि भगवान्यत्प्रसादादुदारधीः ॥
पुराणसंहितार्थज्ञोऽभवदत्र न संशयः ॥ ३८ ॥
त्रयाणामपि लोकानां हिताय जगतां पतिः ॥
स्थापयामास विधिना वाणीं वाग्विभवप्रदाम् ॥ ३९ ॥
दर्शनस्पर्शनस्नानपूजास्तुत्यभिवन्दनैः ॥
सरस्वत्या न विच्छेदः कुले तस्य कदाचन ॥ 2.3.6.४० ॥
मन्त्रसिद्धिर्विशेषेण सरस्वत्यास्तटे नृणाम् ॥
जपतामचिरणैव जायते नात्र संशयः ॥४१॥
बहुना किमिहोक्तेन वाणी वाग्विभवप्रदा ॥
द्रवरूपधरा नृणां दर्शनात्पूतिरुज्ज्वला ॥ ४२ ॥
ततोऽर्वाग्दक्षिणे भागे द्रवधारेति विश्रुतम् ॥
तीर्थमिन्द्रपदं यत्र तपश्चक्रे पुरन्दरः ॥ ४३ ॥
सुदारुणं तपः कृत्वा परितोष्य जनार्द्दनम् ॥
पदमैन्द्रं समालेभे सुरासुरनमस्कृतम् ॥ ४४ ॥
तपो दानं जपो होमो व्रतानि नियमा यमाः ॥
तत्रानन्तगुणं प्रोक्तं तत्तीर्थमतिदुर्लभम् ॥ ४५ ॥
प्रतिमासे त्रयोदश्यां शुक्लायां हरितोषणे ॥
स्नात्वा सुतीर्थे सुत्रामाच्छन्दं चोपेत्य सङ्गतः ॥ ४६ ॥
उपवासद्वयं कृत्वा पूजयित्वा जनार्द्दनम् ॥
सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥ ४७ ॥
तत्रैव मानसोद्भेदः सर्वपापप्रणाशनः ॥
दुर्लभः सर्वजन्तूनां यत्र ते स्युर्महर्षयः ॥ ४८ ॥
मानसं चिदचिद्ग्रन्थिमुद्ग्रथ्नन्ति च सर्वतः ॥
मानसोद्भेव इत्याख्या ऋषिभिः परिगीयते ॥ ४९ ॥
भिन्दन्ति हृदयग्रन्थीश्छिन्दन्ति बहुसंशयम् ॥
कर्माणि क्षपयन्त्यस्मान्मानसोद्भेद इत्यभूत् ॥ 2.3.6.५० ॥
यदि भाग्यवशादत्र बिन्दुमात्रं लभेन्नरः ॥
तत्क्षणान्मुक्तिमाप्नोति किमतस्त्वधिकं भवेत् ॥ ५१ ॥
गिरिदरीनिलये निवसत्यमी ऋषिगणाः फलमूलजलाशनाः ॥
जितमनोविषयाः शितबुद्धयः कलिभयादिव पापभयाकुलाः ॥ ५२ ॥
फलसमीरणगह्वरनिर्झराश्रमभरादुपलब्धपटोत्तमाः ॥
त्रिषवणक्रमनिर्जितदुर्जयेन्द्रियपराक्रमणा मुनयस्त्वमी ॥ ५३ ॥
साधनानि बहून्येव कायक्लेशकराण्यहो ॥
सुलभं साधनं लोके मानसोद्भेददर्शनम् ॥ ५४ ॥
यस्मिन्दिने जलं चैतल्लभते पुण्यवाञ्जनः ॥
भवति व्याससदृशो यमपितृसमः क्रमात् ॥ ५५ ॥
काम्यतीर्थमिदं नॄणां कामनावशकृत्पुनः ॥
अकामतस्तु मुक्तिः स्यादुभयोरेष निश्चयः ॥ ५६ ॥
यदि कश्चित्प्रमादेन कामनां कुरुते नरः ॥
फलं भुक्त्वा पुनर्मुक्तिर्भवत्येव न संशयः ॥५७॥
महरादिषु लोकेषु भुक्त्वा भोगान्यथेप्सितान् ॥
भोगे भुक्ते पुनर्याति कामनावशतो जनः ॥५८॥
पुरुषार्थसमावाप्त्यै यतनीयं मनीषिभिः ॥
मानसोद्भेदने तीर्थे नापेत्यत्रेति मे मतिः ॥ ५९ ॥
मानसोद्भेदनात्प्रत्यग्दिशि सर्वमनोहरम् ॥
वसुधारेति विख्यातं तीर्थं त्रैलोक्यदुर्लभम् ॥ ॥ 2.3.6.६० ॥
त्रिलोक्यां सर्वतीर्थेभ्यः श्रेष्ठो बदरिकाश्रमः ॥
श्रुत्वा तन्नारदात्सर्वे वसवः समुपागताः ॥ ६१ ॥
त्रिंशद्वर्षसहस्राणि तपः परमदारुणम् ॥
दलाम्बुप्राशनाश्चक्रुस्ततः सिद्धिमुपाययुः ॥ ६२ ॥
भगवद्दर्शनात्प्राप्तानन्दनिर्वृत्तविक्लमाः ॥
हृदयानन्दसन्दोहप्रफुल्लितमुखाम्बुजाः ॥ ६३ ॥
दृष्ट्वा नारायणं देवं वरं लब्ध्वा मनोरमम्॥
हरिभक्तिसुखैश्वर्य्यं परं लब्ध्वा मुदं ययुः॥६४॥
अत्र स्नात्वा जलं पीत्वा पूजयित्वा जनार्द्दनम्॥
इह लोके सुखं भुक्त्वा यात्यन्ते परमं पदम् ॥६५॥
अत्र पुण्यवतां ज्योतिर्दृश्यते जलमध्यतः॥
यद्दृष्ट्वा न पुनर्भूयो गर्भवासं प्रपद्यते ॥ ६६ ॥
येऽशुद्धपितृजाः पापाः पाषण्डमतिवृत्तयः ॥
न तेषां शिरसि प्रायः पतन्त्यापः कदाचन ॥ ६७ ॥
दिनत्रयं शुचिर्भूत्वा पूजयित्वा जनार्दनम् ॥
उपोष्य भगवद्भक्त्या सिद्धान्पश्यन्ति साधवः ॥६८॥
ये तत्र चपलास्तथ्यं न वदन्ति च लोलुपाः ॥
परिहासपरद्रव्यपरस्त्रीकपटाग्रहाः ॥६९॥
मलचैलावृताऽशान्ताऽशुचयस्त्यक्तसत्क्रियाः ॥
तेषां मलिनचित्तानां फलमत्र न जायते ॥ 2.3.6.७० ॥
ये तत्र साधकाः शान्ता विरला विधिवर्त्मगाः ॥
तेषां जपस्तपोहोमो दानव्रतजपक्रियाः ॥ ॥ ७१ ॥
क्रियमाणा यथाशक्त्या ह्यक्षय्यफलदायकाः ॥ ७२ ॥
यत्किञ्चिच्छुभकर्माणि क्रियमाणानि देहिनाम् ॥
महदादिफलं दद्युर्निःश्रेयसमनुत्तमम् ॥ ७३ ॥
श्रावणीयमिह किं फलाधिकं यत्र यान्ति विबुधाः फलार्थिनः ॥
पूजितादनु हरेः प्रियार्थिनः स्वर्गमार्गनिरताः प्रमोदिनः ॥ ७४ ॥
यत्र सन्ति न च विघ्नकारिणः कर्मणां हरिभयात्सुसिध्यति ॥
निर्विशन्ति च फलं विवेकिनः कर्ममार्गनिरताः सुदेहिनः ॥ ७५ ॥
ये पठन्त्यथ च पाठयन्त्यहो पुण्यतीर्थविषयं प्रकाशितम् ॥
भक्तिभावसमलङ्कृताश्च ते सम्प्रयान्ति हरिमन्दिरं शुभम् ॥ ७६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे वसुधारातीर्थमाहात्म्यवर्णनन्नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥
॥ शिव उवाच ॥ ॥