००५

॥ स्कन्द उवाच ॥ ॥
किमर्थं भगवांस्तत्र वसति श्रद्धया पुनः ॥
किं पुण्यं किं फलं तस्य दर्शनस्पर्शनादिभिः ॥ १ ॥
नैवेद्यभक्षणं चापि महापूजाकृतेस्तथा ॥
प्रदक्षिणस्य च फलं ब्रूहि मे कृपया पितः ॥ २ ॥
॥ शिव उवाच ॥ ॥
पुरा कृतयुगस्यादौ सर्वभूतहिताय च ॥
मूर्तिमान्भगवांस्तत्र तपोयोगसमाश्रितः ॥ ३ ॥
त्रेतायुगे ह्यृषिगणैर्योगाभ्यासैकतत्परः ॥
द्वापरे समनुप्राप्ते ज्ञाननिष्ठो हि दुर्लभः ॥ ४ ॥
ऋषीणां देवतानां च दुर्दर्शो भगवानभूत् ॥
ततो ह्यृषिगणा देवा अलभ्य भगवद्गतिम् ॥ ५ ॥
स्वायम्भुवं पदं याता विस्मयाकुलचेतसः ॥
तत्र गत्वा नमस्कृत्य ऊचुर्लोकेश्वरं मुदा ॥
बृहस्पतिं पुरस्कृत्य ऋषयश्च तपोधनाः ॥ ६ ॥
॥ देवा ऊचुः ॥ ॥
नमस्ते सर्वलोकानामाश्रयः शरणार्तिहा ॥
वृत्तिदः करुणापूर्णः पितामह सुरेश्वर ॥
निवेदनीया विपदः समुद्धर्ता पितासि नः ॥ ७ ॥
॥ ब्रह्मोवाच ॥ ॥
किमर्थमागता यूयं विस्मयाकुलमानसाः ॥
मिलिता ऋषिभिः साकं ब्रूतागमनकारणम् ॥ ८ ॥
॥ देवा ऊचुः ॥ ॥
द्वापरे समनुप्राप्ते विशालायां विशालधीः ॥
भगवान्दृश्यते नैव तत्र किं कारणं वद ॥ ९ ॥
विशाला किं परित्यक्ता ततो वा क्व गतः स्वयम् ॥
अपराधादुतास्माकं कथं चासौ प्रसीदति ॥ 2.3.5.१० ॥
॥ ब्रह्मोवाच ॥ ॥
नाहमेतद्विजानामि श्रुतं चाद्य मुखाद्धि वः ॥
को हेतुर्दृक्पथातीतो भगवान्भवतां सुराः ॥
आगच्छत वयं यामस्तीरं क्षीरपयोनिधेः ॥११॥
इत्युक्तास्ते पुरोधाय ब्रह्माणं त्रिदिवौकसः ॥
ययुः क्षीराम्बुधेस्तीरमृषयश्च तपोधनाः॥१२॥
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ॥
गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥ १३ ॥
॥ ब्रह्मोवाच ॥ ॥
नमस्ते पुरुषाध्यक्ष सर्वभूतगुहाशय ॥
वासुदेवाखिलाधार जगद्धेतो जगन्मय ॥ १४ ॥
त्वमेव सर्वभूतानां हेतुः पतिरुताश्रयः ॥
मायाशक्तिमुपाश्रित्य विचरस्येकसुन्दर ॥ १५ ॥
एको नानायते योऽसौ नटवज्जायतेऽव्ययः ॥
व्यापकोऽपि कृपालुत्वाद्भक्तहृत्पद्मषट्पद ॥
ददाति विविधानन्दं तं वन्दे जगतां पतिम् ॥ १६ ॥ ॥
॥ देवा ऊचुः ॥ ॥
विपद्वनान्ते हुतभुग्जनानां गृहीतसत्त्वस्त्रिदशावनीशः ॥
चराचरात्मा भगवाननन्तः कृपाकटाक्षैरवलोकतां नः ॥ १७ ॥
सकृद्यन्नामपीयूषरसपानपरः पुमान् ॥
निःश्रेयसं तृणमिव मन्यते तं हरिं भजे॥ १८ ॥
अविद्याप्रतिबिम्बत्वाज्जीवभावमुपागतः ॥
विज्ञत्वादुपशान्तात्मा स पुनातु जगत्त्रयम् ॥१९॥
॥ गन्धर्वा ऊचुः ॥ ॥
पिबन्ति ये हरेः पदाम्बुसङ्गलेशतः पयः पयो न ते पुनःपुनः पिबन्ति मातुरङ्कतः ॥
प्रसङ्गतो यदा भिधासुधां निपीय मानवा मृताऽमृतं व्रजन्त्यधो न जातु यान्त्यशङ्किताः ॥ 2.3.5.२० ॥
ततः स्तुतो हरिः साक्षात्सिन्धोरुत्थाय चाब्रवीत् ॥
अलक्षितोऽपरैर्ब्रह्मा परं तद्वेद नापरः ॥ २१ ॥
ब्रह्मा तदुपधार्याथ नत्वा तस्मै दिवौकस ॥
बोधयामास सकलं सुराः शृणुत सादरम् ॥ २२ ॥
अन्तर्हितोऽसौ भगवान्दृष्ट्वा लोकान्कुमेधसः ॥
श्रुत्वेत्थं वचनं तस्य सर्वे देवा दिवं ययुः ॥२३॥
ततोऽहं यतिरूपेण तीर्थान्नारदसञ्ज्ञकात् ॥
उद्धृत्य स्थापयिष्यामि हरिं लोकहितेच्छया ॥ २४ ॥
यस्य दर्शनमात्रेण पातकानि महान्त्यपि ॥
विलीयन्ते क्षणादेव सिंहं दृष्ट्वा मृगा इव ॥ २५ ॥
धर्माधर्मान्विजित्याथ बदरीशं विभुं हरिम् ॥
दृष्ट्वा मुक्तिमुपायान्ति विनाऽऽयासं षडानन ॥ २६ ॥
त्यक्तप्रायाणि तीर्थानि हरिणा कलिकालतः ॥
बदरीं समनुप्राप्य साक्षादेवावतिष्ठते ॥ २७ ॥
कलिकालमनुप्राप्य मुक्तिर्येषामभीप्सिता ॥
द्रष्टव्या बदरी तैस्तु हित्वा तीर्थान्यशेषतः ॥ २८ ॥
विना ज्ञानेन योगेन तीर्थाटनपरिश्रमैः ॥
एकेन जन्मना जन्तुः कैवल्यं पदमश्नुते ॥ २९ ॥
जन्मान्तरसहस्रैस्तु येन चाराधितो हरिः ॥
स गच्छेद्बदरीं द्रष्टुं यत्र जन्तुर्न शोचति ॥ 2.3.5.३० ॥
बदरीबदरीत्युक्त्वा प्रसङ्गान्मनुजोत्तमः ॥
संसारतिमिराबाधे दीपमुज्वालयत्यसौ ॥ ३१ ॥
यथा दीपावलोकेन तमोबाधा न जायते ॥
तथैव बदरीं दृष्ट्वा पुंसो मृत्युभयं कुतः ॥३२॥
दर्शनाद्यस्य पापानि रुदन्त्यव्याहतानि च ॥
मुक्तिमार्गमुपालक्ष्य तं वन्दे बदरीपतिम् ॥ ॥३३॥
सशैलकानना भूमिर्दशधा दक्षिणीकृता ॥
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ॥ ३४ ॥
अश्वमेधे तु यत्पुण्यं वाजपेयशतेन च ॥
हरेः प्रदक्षिणात्तद्वद्बदर्यां तत्पदेपदे ॥ ३५ ॥
चतुर्मासे तु यत्पुण्यं ब्रह्माण्डदानतस्तथा ॥
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ॥ ३६ ॥
अतिकृच्छ्रैर्महाकृच्छ्रैश्छान्दसैः सुकृतं भवेत् ॥
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ॥ ३७ ॥
बदर्यां विष्णुनैवेद्यं सिक्थमात्रं षडानन ॥
अशनाच्छोधयेत्पापं तुषाग्निरिव काञ्चनम् ॥ ३८ ॥
यदन्नं भगवानत्ति ऋषिभिर्न्नारदादिभिः ॥
तत्सत्त्वशुद्धये सर्वैर्भोक्तव्यमविचारितम् ॥ ३९ ॥
अमरा अपि यन्नूनं व्याजेनेच्छन्ति सर्वतः ॥
भोक्तुं बदरिकां विष्णोर्नैवेद्यं यान्ति तत्पराः ॥ 2.3.5.४० ॥
भोजनानन्तरं विष्णोः प्रगच्छन्ति स्वमालयम् ॥
प्रह्लादप्रमुखा भक्ताः प्रविशन्ति हरेः पदम् ॥ ४१ ॥
बाल्ययौवनवार्द्धक्ये यत्पापं ज्ञानतः कृतम् ॥
नैवेद्यभक्षणाद्विष्णोर्बदर्यां तद्विलीयते ॥ ४२ ॥
प्राणान्तं यस्य पापस्य प्रायश्चित्तं प्रकीर्तितम् ॥
विष्णोर्निवेदितं भुक्त्वा बदर्य्यां तन्निवर्त्तते ॥४६॥
तीर्थान्तरेषु यत्नेन मुक्तिं गच्छति मानवः ॥
नैवेद्यभक्षणाद्विष्णोः सालोक्यं लभते नरः ॥४४॥
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ॥
पादोदकं सनिर्माल्यं मस्तके यस्य सोऽच्युतः॥४५॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥
नैवेद्यभक्षणाद्विष्णोर्बदर्यां यान्ति सङ्क्षयम् ॥ ४६ ॥
बदरीसदृशं क्षेत्रं नैवेद्यसदृशं वसु ॥
नारदीयसमं क्षेत्रं न भूतं न भविष्यति ॥४७॥
बदरी यत्नतो गम्या भोक्तव्यं तन्निवेदितम् ॥
द्रष्टव्यो भगवान्वह्नितीर्थे स्नानं सुदुर्लभम् ॥ ४८ ॥
पृथिव्यां यानि तीर्थानि व्रतानि नियमास्तथा ॥
पादोदकं विशालायां पावनं पुरतो भवेत् ॥ ४९ ॥
किं तस्य दानैस्तपसा तीर्थाटनपरिश्रमैः ॥
बदर्यां विष्णुपादोदबिन्दुमात्रं लभेद्यदि ॥ 2.3.5.५० ॥
प्रायश्चित्तानि जल्पन्ति तावदेव षडानन ॥
यावन्न लभ्यते विष्णोर्बदर्यां चरणोदकम् ॥ ५१ ॥
अनायासेन येषां वा इच्छा मुक्तिपथे नृणाम् ॥
कर्त्तव्यं तैः प्रयत्नेन विष्णोर्नैवेद्यभक्षणम् ॥ ५२ ॥
ये नराः प्रतिगृह्णन्ति पापाः संसारभागिनः ॥
यात्राकृतं फलं तेषां न कदाचित्प्रजायते ॥ ॥ ५३ ॥
नैवेद्यनिन्दनाद्विष्णोर्निन्द्यन्ते ते तमोगताः ॥
नैवेद्यभक्षणात्सत्त्वशुद्धिरेव न संशयः ॥ ५४ ॥
नैवेद्यं स्वयमानीय ब्राह्मणान्भोजयन्ति ये ॥
तुलापुरुषदानेन किं फलं ते कृतार्थिनः ॥ ५५ ॥
कुरुक्षेत्रे समासाद्य राहुग्रस्ते दिवाकरे ॥
महादानेन यत्पुण्यं बदर्य्यां ग्रासमात्रतः ॥ ५६ ॥
बदरीक्षेत्रमासाद्य ग्रासमात्रं प्रयत्नतः ॥
उपायोऽयं महांस्तत्र बदर्यां हरितोषणे ॥
यतिभ्यो भोजनाद्विष्णोरपराध्यपि वल्लभः ॥ ५७ ॥
न विष्णोः सदृशो देवो न विशाला समा पुरी ॥
न भिक्षुसदृशं पात्रमृषितीर्थसमं न हि ॥ ५८ ॥
चातुर्मास्यं प्रकुर्वन्ति ये नराः पुण्यशालिनः॥
तेषां पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते ॥ ५९ ॥
भिक्षुकाणां फलावाप्तिर्विशेषादिह कीर्त्यते ॥
वेदान्तश्रवणात्पुण्यं दशधा यत्प्रकीर्तितम् ॥ 2.3.5.६० ॥
बदरी दृष्टिमात्रेण भिक्षुकाणां तदिष्यते ॥
चातुर्मास्ये विशेषेण कैवल्यफलभागिनः ॥ ६१ ॥
न्यासिनो बदरीस्थाने विनायासेन पुत्रक ॥
ये मूर्खा जाड्यमापन्ना दम्भकाषायवाससः ॥
बदरीदर्शनात्तेषां मुक्तिः करतले स्थिता ॥ ६२ ॥
ज्ञानिनोऽज्ञानिनो वापि न्यासिनो नियतव्रता ॥
द्रष्टव्या बदरी तैस्तु फलानि समभीप्सुभिः ॥ ६३ ॥
श्रुत्वाऽध्यायमिमं पुण्यं प्रसङ्गेनापि मानवः ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ६४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पञ्चमोऽध्यायः ॥ ५ ॥