॥ स्कन्द उवाच ॥
वैनतेयशिलायास्तु माहात्म्यं वद मे पितः ॥
किं पुण्यं किं फलं चास्य अनुभावं च किं भवेत् ॥ १ ॥
॥ शिव उवाच ॥ ॥
कश्यपाद्विनतागर्भे महाबलपराक्रमौ ॥
गरुडारुणौ प्रजातौ द्वावरुणः सूर्यसारथिः ॥ २ ॥
बदर्य्या दक्षिणे भागे गन्धमादनशृङ्गके ॥
गरुडस्तप आतेपे हरिवाहनकाम्यया ॥ ३ ॥
फलमूलजलाहारो निर्द्वन्द्वो जपतां वरः ॥
पदैकेनोपसङ्क्रम्य भुवि जेपे निरामयः ॥ ४ ॥
त्रिंशद्वर्षसहस्राणि हरिदर्शन लालसः ॥
ततस्तु भगवान्साक्षात्पीतवासा निजायुधः ॥ ५ ॥
आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥
उवाच वचनं सम्यङ्मेघगम्भीरनिस्वनः ॥ ६ ॥
तथापि न बहिर्वृत्तिर्दध्मौ दरवरं ततः ॥
तथापि न बहिर्वृत्तिर्गरुडस्य महात्मनः ॥ ७ ॥
ततः प्रविश्य भगवानन्तरं पवनक्रमात् ॥
बहिरुन्मुखतां चैव रचयन्बहिराबभौ ॥ ८ ॥
भगवन्तं हरिं दृष्ट्वा गरुडो गतसाध्वसः ॥
पुलकाङ्कित सर्वाङ्गस्तुष्टाव विहिताञ्जलिः ॥ ९ ॥
॥ गरुड उवाच ॥ ॥
जयजय त्रिभुवनजनमनोभवन विदलिताघगुण सकलगीर्वाणवन्दित चरणकमलयुगलपरिमलबहलरिपुवनविभञ्जन विद्योतमान सकलसुरासुरमुकुटकोटिविलसित निजपीठकमलनिरसित निजजनहृदयतिमिरपटलबहल हिमकर इव त्रिविधसन्तापसन्दोहहरणचरण
जगदुदयस्थितिलयविलासविलसित त्रिविधमूर्तिकीर्तिविस्फूर्जित जगदुदयसन्दोह दिनकर इव निजजनमानससरोजषट्पदविदित सकलवेदविद्योतमान मानस निजजनमुनिजनवन्दित पदनखनीरपवित्रीकृत गीर्वाणमुनिमानसवन्दित चरणरजःप्रसादसारभूत जगतामधीश नमस्ते नमस्ते ॥ ॥ 2.3.4.१० ॥
अपि च ॥
अष्टशक्तिसहितो वनमाली पीतचैलकुसुमावलिशोभः ॥
पङ्कजाकरविराजितपादः पातु मामवहितेन्द्रियवर्गः ॥ ११ ॥
भक्तहृत्कमलराजितमूर्तिर्दुष्टदैत्यदलनोत्थितकीर्तिः ॥
बद्धसेतुरविताश्रितलोकः पातु मामनुदिनं भुवनेशः ॥ १२ ॥
स्थिरचलत्रिविधतापहिमांशुर्भासमानतरणिप्रतिभासः ॥
एक एव बहुधा कृतवेषो माययावतु महामतिरीशः ॥ १३ ॥
भक्तचिन्तनकृते कृतरूपः शैशवेन बहुशासितभूपः ॥
वेदमार्ग उरुधा हितकारी रीतिरीशितुरियं गुणशाली ॥ १४ ॥
यज्ञभुग्घृदयबन्धनधारी विश्वमूर्तिरबलांशुकहारी॥
पालनेऽपि महतां बहुदेहो रास एष तनुमानवतान्नः ॥१५॥
प्रेमभक्तिपुरुषैरुपलभ्यः पूरुषः कृतसमस्तनिवासः ॥
दास्यवृन्दहृषितो निजदासः प्रेक्षणैककरुणोवतु विश्वम् ॥ १६ ॥
कण्ठलम्बिततरक्षुनखाग्रक्रुष्टगोपरमणीकुचभारः॥
लीलया युवतिभिः कृतवेषः शेष एष भवतादुपशान्त्यै॥१७॥
दण्डपाणिरयमेव जनानां शासितात्मनियमोक्तहितानाम्॥
पावनाय महतामनुशाली विश्वदुःखशमनो भवतान्नः ॥१८॥
एवं स्तुतस्ततः साक्षाद्गरुडेन महात्मना ॥
पूजार्थमाजुहावैनां गङ्गां त्रिपथगामिनीम् ॥१९॥
ततः पञ्चमुखी साक्षादाविरासीन्नगोपरि॥
तेनोदकेन पादार्घं चकार विनतासुतः ॥2.3.4.२०॥
व्रियतां वर इत्युक्तो गरुडो हरिणा ततः ॥
तवैकवाहनः श्रीमान्बलवीर्यपराक्रमः ॥
अजेयो देवदैत्यानां स्यामहं ते प्रसादतः ॥ २१ ॥
इयं मन्नामविख्याता सर्वपापहरा शिला ॥
एतस्याः स्मरणात्पुंसां विषव्याधिर्न जायताम्॥२२॥
एवमुक्त्वा ततस्तूष्णीं बभूव विनतासुतः ॥
ओमित्युक्त्वा ततो विष्णुरुवाचेदं वचो हितम् ॥२३॥
बदरीं त्वं प्रयाहीति नारदेन निषेविताम् ॥
स्नानं नारदतीर्थादावुपवासत्रयं शुचिः ॥
कृत्वा मद्दर्शनं तत्र सुलभं ते भविष्यति ॥ २४ ॥
इत्युक्त्वान्तर्द्दधे विष्णुस्तडित्सौदामनी यथा ॥
गरुडस्तु ततः शीघ्रमागत्य बदरीं मुदा ॥ २५ ॥
वह्नितीर्थं समासाद्य शिलामाश्रित्य तत्परः ॥
स्नात्वा नारदतीर्थेषु व्रतचर्यामथाकरोत् ॥ २६ ॥
ततस्तु नारदे तीर्थे दृष्ट्वा भगवतः स्थितिम् ॥
नमस्कृत्य विधानेन तदाज्ञातः पुरं ययौ ॥ २७ ॥
ततः प्रभृति त्रैलोक्ये गारुडीति शिलोच्यते ॥ २८ ॥
॥ स्कन्द उवाच ॥ ॥
वाराह्या वद माहात्म्यं कीदृशं हीश्वरेश्वर ॥
किं पुण्यं किं फलं तस्या अभिधानं तथा कथम् ॥ २९ ॥
॥ शिव उवाच ॥ ॥
रसातलात्समुद्धृत्य महीं दैवतवैरिणम् ॥
हिरण्याक्षं रणे हत्वा बदरीं समुपागतः ॥ 2.3.4.३० ॥
आकल्पान्तं महादेवो योगधारणया स्थितः ॥
बदर्याः सौष्ठवादेव विदधे स्थितिमात्मनः ॥ ३१ ॥
शिलारूपेण भगवान्स्थितिं तत्र चकार ह ॥
तत्र गत्वा तु मनुजः स्नात्वा गङ्गाजलेऽमले ॥ ३२ ॥
दानं दत्त्वा स्वशक्त्या वै गङ्गाम्भः शान्तमानसः ॥
अहोरात्रे स्थितो भूत्वा जपेदेकाग्रमानसः ॥ ३३ ॥
शिलायां देवदृष्टिश्च तस्य पुंसः प्रजायते ॥
बहुना किमिहोक्तेन यद्वदिष्यति साधकः ॥ ३४ ॥
तत्तस्य सिध्यति क्षिप्रं यद्यपि स्यात्सुदुष्करम् ॥ ३५ ॥ ॥
॥ स्कन्द उवाच ॥ ॥
नारसिंहीशिलायास्तु माहात्म्यं वद मे प्रभो ॥
त्वत्प्रसादान्महादेव दुर्ल्लभं श्रुतवानहम् ॥३६॥
॥ शिव उवाच ॥ ॥
हिरण्यकशिपुं हत्वा नखाग्रेणैव लीलया ॥
क्रोधाग्निना प्रदीप्ताङ्गः प्रलयानलसन्निभः ॥ ३७ ॥
तदा देवैः समागत्य स्थित्वा दूरे दयालुभिः ॥
स्तुतोऽसौ भगवान्देवो लीलया धृतविग्रहः ॥ ३८ ॥
तदा प्रसन्नो हरिरुग्रविक्रमः स्वतेजसा व्याप्तसुरासुरोत्तमः ॥
उवाच मत्तो वरमावृणीध्वं गीर्वाणनिर्वाण सुखैकहेतुम् ॥ ३९ ॥
तदासुराणामधिपः स्वयम्भूरुवाच वाक्यं स्मितशोभिताननः ॥
रूपं तवात्युग्रमशेषदेहिनां भयावहं संहर नारसिम्ह ॥ 2.3.4.४० ॥
अनेकधैतद्विधिवद्विधाय निधाय शैलादिषु दिव्यमूर्तिम् ॥
उवाच किं वः प्रकरोमि कृत्यमहं प्रसन्नस्त्रिदशाः परन्तपाः ॥ ४१ ॥
ततोमरा ऊचुरनेन चैव रूपेण सङ्क्षोभितविश्वमूर्ते ॥
प्रशान्तमन्तःसुखहेतुबन्धि चतुर्भुजत्वं वरमीप्सितं नः ॥ ४२ ॥
ततो हरिर्वीक्ष्य निरीक्षणेन दिव्येन विश्वं प्रययौ विशालाम्॥
गङ्गाजले क्रीडति विष्टचेताः सुरासुरेभ्यो भगवानुवाच ॥ ४३ ॥
ततोऽमराः शान्तभया अथैनं निरीक्ष्य देवं जलमध्यसंस्थम् ॥ ॥
नत्वा परिक्रम्य तदा समाययुर्निरूढभावाः स्वपुरं ततः क्रमात् ॥ ४४ ॥
ततः समस्ता ऋषयस्तपोधनाः समाययुर्भक्तिभरावनम्राः ॥
नृसिंहमत्यद्भुतविकमं हरिं समीडिरे बद्धकरा वचोभिः ॥ ४५ ॥
॥ ऋषय ऊचुः ॥ ॥
नमोनमस्ते जगतामधीश विश्वेश विश्वाभय विश्वमूर्ते ॥
कृपाम्बुराशे भजनीयतीर्थ पादाम्बुज श्रीश दयां विधेहि ॥ ४६ ॥
एकोऽसि नाना निजमायया स्वया घटे पयो यद्वदुपाधिभिन्नम् ॥
भक्तेच्छयोपात्तविचित्रविग्रह प्रसीद विश्वानन विश्वभावन ॥ ४७ ॥
ततः प्रसन्नो भगवान्नृसिंहः सिंहविक्रमः ॥
उवाच वचनं चारु वरं मे व्रियतामिति ॥ ४८ ॥
॥ ऋषय ऊचुः ॥ ॥
यदि प्रसन्नो भगवन्कृपया जगतां पते ॥
विशाला न परित्याज्या वरोऽस्माकमभीप्सितः ॥ ४९ ॥
एवमस्तु ततः सर्वे स्वाश्रमं ह्यृषयो ययुः ॥
नृसिंहोऽपि शिलारूपी जलक्रीडापरोऽभवत् ॥ 2.3.4.५० ॥
उपवासत्रयं कृत्वा जपध्यानपरायणः ॥
नृसिंहरूपिणं साक्षात्पश्यत्येव न संशयः ॥ ५१ ॥
य एतच्छ्रद्धया मर्त्यः शृणोति श्रावयञ्छुचिः ॥
सर्वपापविनिर्मुक्तो वैकुण्ठे वसतिं लभेत्॥५२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे गरुडशिला वाराहीशिला नारसिंहीशिलामाहात्म्यवर्णनन्नाम चतुर्थोऽध्यायः ॥४ ॥