॥ स्कन्द उवाच ॥ ॥
भगवन्सर्वभूतेषु सर्वधर्मविशारद ॥
अग्नितीर्थस्य माहात्म्यं कृपया वद मे पितः ॥ १ ॥
॥ शिव उवाच ॥ ॥
अतिगुह्यतमं तीर्थं सर्वतीर्थनिषेवितम् ॥
सङ्क्षेपात्कथयाम्येतत्तवादरवशादहम्॥ २ ॥
महापातकिनो ये च अतिपातकिनस्तथा ॥
स्नानमात्रेण शुद्ध्यन्ति विनायासेन पुत्रक ॥ ३ ॥
प्रायश्चित्तेन यत्पापं न गच्छेन्मरणान्तिकम्॥
स्नानमात्रेण तीर्थस्य पावकस्य विशुद्ध्यति ॥ ४ ॥
अत्यन्तमलसम्बद्धं यथा शुद्ध्यति हाटकम् ॥
तथाग्नितीर्थमासाद्य देही पापैर्विशुद्ध्यति ॥ ५ ॥
कुशाग्रेणोदबिन्दुं च पीत्वा वर्षत्रयं नरः ॥
अन्यक्षेत्रे तपः कृत्वा तदत्र स्नानमात्रतः ॥ ६ ॥
ब्राह्मणान्भोजयित्वास्मिन्यथाविभवसम्भवैः ॥
दरिद्रता कुले तेषां न कदाचित्प्रजायते ॥७ ॥
उपवासेन यः प्राणान्वह्नितीर्थे त्यजेन्नरः ॥
स भित्त्वा सूर्यलोकादीन्विष्णुलोकं प्रपद्यते ॥८॥
चान्द्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ॥
यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः ॥ ९ ॥
पञ्चधा ये प्रकुर्वन्ति पापमस्मिन्षडानन ॥
जपेन पवनायामैर्विशुद्धिरिति मे मतिः ॥ 2.3.3.१० ॥
ज्ञानेन मोहवशतः पापं कुर्वन्ति येऽधमाः ॥
पैशाचीं योनिमायामति यावदिन्द्राश्चतुर्दश ॥ ११ ॥
अनाश्रमी चाश्रमी वा यावद्देहस्यधारणम् ॥
न तीर्थे पावके कुर्यात्पातकं बुद्धिपूर्वकम् ॥ १२ ॥
स्नानं दानं जपो होमः सन्ध्या देवार्चनं तथा ॥
अत्रानन्तगुणं प्रोक्तमन्यतीर्थात्षडानन ॥ १३ ॥
बहूनि सन्ति तीर्थानि पावनानि महान्त्यपि ॥
वह्नितीर्थसमं तीर्थं न भूतं न भविष्यति ॥ १४ ॥
न ब्रह्मा न शिवः शेषो न देवा न च तापसाः ॥
शक्नुवन्ति फलं नालं वक्तुं पावकतीर्थजम् ॥१५॥
किं तेषां बहुभिर्यज्ञैः किं दानैर्नियमैर्यमैः॥
येषां पावकतीर्थेऽस्मिन्स्नानं दशदिनं भवेत् ॥ १६ ॥
उपवासेन यः प्राणान्वह्नितीर्थे जयेन्नरः ॥
उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम्॥
नरः पावकतीर्थेऽस्मिन्स भवेत्पावकोपमः ॥ १७ ॥
शिलापञ्चकमध्यस्थं सान्निध्यं नित्यदा हरेः ॥
तत्रैव पावकं तीर्थं सर्वपापप्रणाशनम् ॥१८ ॥
॥ स्कन्द उवाच ॥ ॥
कथं तत्र शिलाः पञ्च केन वा तत्र निर्मिताः ॥
किं पुण्यं किं फलं तासां वक्तुमर्हस्यशेषतः ॥ १९ ॥
॥ शिव उवाच ॥ ॥
नारदी नारसिंही च वाराही गारुडी तथा ॥
मार्कण्डेयीति विख्याताः शिलाः सर्वार्थसिद्धिदाः ॥ 2.3.3.२० ॥
नारदो भगवांस्तेपे तपः परमदारुणम्॥
दर्शनार्थं महाविष्णोः शिलायां वायुभोजनः ॥ २१ ॥
षष्टिवर्षसहस्राणि शिलायां वृक्षवृत्तिमान्॥
तदासौ भगवान्विष्णुस्तत्र ब्राह्मणरूपधृक् ॥ २२ ॥
जगाम पुरतस्तस्य कृपया मुनिसत्तमम् ॥
उवाच वचनं चारु किमिति क्लिश्यते ह्यृषे ॥
किं वा तवेप्सितं ब्रूहि तपसा क्षीणकल्मष ॥ २३ ॥
॥ नारद उवाच ॥ ॥
को भवान्विजनेऽरण्ये ममानुग्रहतत्परः ॥
मनः प्रसन्नतामेति दर्शनात्ते द्विजोत्तम ॥ २४ ॥
इत्युक्तो नारदेनासौ शङ्खचक्रगदाधरः ॥
पीताम्बरलसत्पद्मवनमालाविभूषणः ॥ २५ ॥
श्रीवत्सकौस्तुभभ्राजत्कमलाविमलालयः ॥
सुनन्दनप्रमुख्यैः स स्तूयमानो जनार्द्दनः ॥ २६ ॥
दर्शयामास रूपं स्वं नारदाय कृपार्दितः ॥
तं दृष्ट्वा सहसोत्थाय तनुं प्राण इवागतः ॥ २७ ॥
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ॥
तुष्टाव प्रणतो भूत्वा जगतामीश्वरेश्वरम् ॥ २८ ॥
॥ नारद उवाच ॥ ॥
यः सर्वसाक्षी जगतामधीश्वरो भक्तेच्छया जातशरीरसम्पदः ॥
कृपामहाम्भोनिधिराश्रितानां प्रसीदतां पावनदिव्यमूर्तिः ॥ २९ ॥
हिताय लोकस्य सतां पुनर्मनः सुतोषणायाचिरमुत्कलादिभिः ॥
प्रसन्नलीलाहसितावलोकनः प्रसीदतां सत्त्वनिकायमूर्तिमान् ॥ 2.3.3.३० ॥
कन्दर्प्पलावण्यविलाससुन्दरः प्रसन्नगम्भीरगिरेन्दिरोत्सवः ॥
स्वमाश्रितानां वरकल्पपादपः प्रसीदतां दीनदयार्द्रमानसः ॥ ३१ ॥
यदङ्घ्रिपद्मार्चननिर्मलान्तरा ज्ञानासिना शातितबन्धहेतवः ॥
विदन्ति यद्ब्रह्मसुखं गतक्लमाः प्रसीदतां दीनदयार्द्रमानसः ॥३२॥
संसारवारान्निधिबद्धसेतुर्यः सृष्टिपालान्तविधानहेतुः ॥
उपान्तनामा गुणलब्धमूर्तिः प्रसीदतां ब्रह्मसुखानुभूतिः ॥ ३३ ॥
य इन्द्रियाधिष्ठितभूतसूक्ष्माद्विकासहेतुर्द्युतिमद्वरिष्ठः ॥
जीवात्मतां गच्छति मायया स्वया स एक ईशो भगवान्प्रसीदताम् ॥ ३४ ॥
स्वदृग्गुणैर्येन विलिप्यते महान्गुणाश्रयं येन च पाञ्चभौतिकम्॥
एकोऽपि नानागुणसम्प्रयुक्तः प्रसीदतां दीनदयालुवर्यः ॥ ३५ ॥
यस्यानुवर्तिनो देवा विपदां पदमम्बुधिम् ॥
कृत्वा वत्सपदं स्वर्गे निरातङ्का वसन्ति हि ॥३६॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सर्वभूतात्मने नमः ॥ ३७ ॥
अद्य मे जीवितं धन्यमद्य मे सफलं तपः ॥
अद्य मे सफलं ज्ञानं दर्शनात्ते जनार्दन ॥ ३८ ॥
॥ श्रीभगवानुवाच ॥ ॥
तुष्टोऽहं तपसानेन स्तोत्रेण तव नारद ॥
त्वत्तो भक्तो न मे कश्चित्त्रिषु लोकेषु विद्यते ॥ ३९ ॥
वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥
मद्दर्शनात्ते कामः स्यात्संसिद्धो विद्धि नारद॥ 2.3.3.४० ॥
॥ नारद उवाच ॥ ॥
वरदो यदि मे देव वरार्हो यदि वाप्यहम् ॥
भक्तिं तव पदाम्भोजे निश्चलां देहि मे विभो ॥ ४१ ॥
पच्छिलासन्निधानं च न त्याज्यं ते कदाचन ॥
मत्तीर्थदर्शनात्स्पर्शात्स्नानादाचमनात्तथा ॥
देहैर्न युज्यते देयस्ततीयस्तु वरो मम ॥ ४२ ॥
॥ श्रीभगवानुवाच॥ ॥
एवमस्तु तव स्नेहात्तव तीर्थे वसाम्यहम् ॥
चराचराणां जन्तूनां विदेहाय न संशयः ॥ ४३॥
एवमुक्त्वा हरिः साक्षात्तत्रैवान्तरधीयत ॥
नारदोऽपि महातेजा दिनानि कतिचित्सह ॥
बदरीमावसन्हृष्टो ययौ मधुपुरीं ततः ॥ ४४ ॥
॥ स्कन्द उवाच ॥ ॥
मार्कण्डेयशिलायास्तु महिमानं वदस्व मे ॥
किं पुण्यं किं फलं तस्याः सञ्ज्ञा च तादृशी कथम् ॥४५॥
॥शिव उवाच ॥ ॥
पुरा त्रेतायुगस्यान्ते मृकण्डुतनयो महान् ॥
स्वल्पायुषं निजं ज्ञात्वा जजाप परमं जपम् ॥ ४६ ॥
द्वादशाक्षरमन्त्रेण पूजितो हरिरव्ययः ॥
सप्तकल्पायुषं ज्ञात्वा तत्रैवान्तरतो ययौ ॥ ४७ ॥
मार्कण्डेयस्ततः श्रुत्वा तीर्थाटनपरिश्रमम् ॥
दर्शनं नारदस्यासीन्मथुरायां षडानन ॥ ४८ ॥
पूजितो वन्दितस्तेन नारदो मुनिसत्तमः ॥
कथयामास माहात्म्यं बदर्या यत्र केशवः ॥ ४९ ॥
॥ नारद उवाच ॥ ॥
किमिति क्लिश्यते साधो तीर्थाटनपरिश्रमैः ॥
बदर्याख्यं महाक्षेत्रं सान्निध्यं नित्यदा हरेः ॥ 2.3.3.५० ॥
तत्र याहि यत्र साक्षाद्धरिं पश्यसि चक्षुषा ॥
तच्छ्रुत्वा विस्मयोपेतो विशालामाययावृषिः ॥ ५१ ॥
स्नात्वा शिलामुपविशञ्जजापाष्टाक्षरं परम् ॥
ततःप्रसन्नो भगवाँस्त्रिरात्र्यन्ते जनार्दनः ॥ ५२ ॥
शङ्खचक्रगदापद्मवनमालाविभूषणम् ॥
तं दृष्ट्वा सहसोत्थाय प्रेमगद्गदया गिरा ॥
तुष्टाव प्रणतो भूत्वा मार्कण्डेयो जनार्दनम् ॥ ५३ ॥
॥ मार्कण्डेय उवाच ॥ ॥
अशाश्वते च संसारे सारे ते चरणाम्बुजे ॥
समुद्धारः कथं नृणां त्राहि मां परमेश्वर ॥५४॥
तापत्रयपरिश्रान्तमनेकाज्ञानजृम्भितम् ॥
संसारकुहरे भ्रान्तं त्राहि मां कृपयाऽच्युत ॥ ५५ ॥
अनेकयोनियन्त्रेषु निःसृतेस्तनुवेदनाम् ॥
गर्भवासकृतां प्राप्तं त्राहि मां करुणाम्बुधे ॥५६॥
कृमिभक्षितसर्वाङ्गं क्षुत्पिपासाकुलं च हि ॥
आन्त्रमालाकुलेगर्भे त्राहि मां मधुसूदन ॥ ५७॥
अमेध्यादिभिरालिप्तं निश्चेष्टश्रममाकुलम्॥
स्मरन्तं निजकर्मोत्थं त्राहि मां मधुसूदन ॥ ५८ ॥
वचनादाननिःश्वासाशक्तं भयमुपागतम्॥
गर्भवासमहादुःखं त्राहि मां मधुसूदन ॥ ५९ ॥
जरामरणबाल्यादिदुःखसंसारपीडितम् ॥
दुःखाब्धौ सुखबुद्धिं मां कृपासिन्धो प्रपालय ॥ 2.3.3.६० ॥
कदाचित्कृमितां प्राप्तं कदाचित्स्वेदजन्मिताम्॥
कदाचिदुद्भिज्जत्वं च कदाचिन्नरतां गतम् ॥६१॥
सर्वयोनिसमापन्नं विपन्नं विगतप्रभम्॥
अनाथं त्वां समापन्नं त्राहि मां कृपयाऽच्युत॥६२॥
एवं स्तुतस्ततः कृष्णो मार्कण्डेयेन धीमता ॥
प्रीतस्तमाह विप्रर्षे वरं मे व्रियतामिति ॥६३॥
॥ श्रीमार्कण्डेय उवाच ॥ ॥
यदि तुष्टो भवान्मह्यं भगवन्दीनवत्सल ॥
निश्चलां देहि मे भक्तिं पूजायां दर्शने तव ॥
शिलायां तव सान्निध्यमेष एव वरो मम ॥॥ ६४ ॥
॥ सूत उवाच ॥ ॥
तथेत्युक्त्वा महाविष्णुर्ययावन्तर्हितं द्विज ॥
मार्कण्डेयस्ततस्तुष्टो जगाम पितुराश्रमम् ॥ ६५ ॥
उपस्थानमिदं पुण्यं सर्वपापप्रणाशनम् ॥
शृणुयाच्छ्रावयेन्मर्त्यो गोविन्दे लभते गतिम् ॥ ६६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे शिवकार्तिकेयसंवादे अग्नितीर्थनारदशिलामार्कण्डेयशिलामाहात्म्यवर्णनन्नाम तृतीयोऽध्यायः ॥ ३ ॥