॥ स्कन्द उवाच ॥ ॥
कथमेतत्समुत्पन्नं कैर्वा क्षेत्रं निषेवितम् ॥
को वा तस्याप्यधीशः स्यादेतद्विस्तरतो वद ॥ १ ॥
॥ शिव उवाच ॥ ॥
अनादिसिद्धमेतत्तु यथा वेदा हरेस्तनूः ॥
अधिष्ठाता हरिः साक्षान्नारदाद्यैर्निषेवितम् ॥ २ ॥
पुरा कृतयुगस्यादौ स्वीयां दुहितरं विधिः ॥
रूपयौवनसम्पन्नां स तां यभितुमुद्यतः ॥ ३ ॥
तं दृष्ट्वा तादृशं रोषाच्छिरः खड्गेन पञ्चधा ॥
चिच्छेदाऽहं कपालं तद्ब्रह्महत्यासमुद्यते ॥ ४ ॥
हस्ते कृत्वा जगामाशु तत्र तीर्थानि सेवितुम् ॥
दिवि भूमौ च पाताले तपश्चरणपूर्वकम् ॥ ५ ॥
न गता ब्रह्महत्या मे कपालं तादृशं करे ॥
तदा वैकुण्ठमगमं द्रष्टुं लक्ष्मीपतिं हरिम् ॥ ६ ॥
विनयावनतो भूत्वा नमस्कृत्य पुनः पुनः ॥
सर्वमाख्यातवांस्तस्मै व्यसनं करुणात्मने ॥ ७ ॥
तस्योपदिष्टमादाय बदरीं समुपागतः ॥
तत्क्षणाद्ब्रह्महत्या मे वेपमाना मुहुर्मुहुः ॥ ८ ॥
अन्तर्हितं कपालं तत्कराद्विगलितं मम ॥
ततःप्रभृति तत्क्षेत्रं पार्वत्या सह सादरम् ॥९॥
तिष्ठामि तप आस्थाय ऋषीणां प्रीतिमावहन् ॥
वाराणस्यां यथा प्रीतिः श्रीशैलशिखरे तथा ॥ 2.3.2.१० ॥
कैलासे शिवया सार्द्धं ततोनन्तगुणाधिका ॥
अन्यत्र भरणान्मुक्तिः स्वधर्मविधिपूर्वकात ॥ ११ ॥
बदरी दर्शनादेव मुक्तिः पुंसां करे स्थिता ॥
हरेश्चरणसान्निध्यं यत्र वैश्वानरः स्वयम् ॥ १२॥
तत्र केदाररूपेण मम लिङ्गं प्रतिष्ठितम् ॥
केदारदर्शनात्स्पर्शादर्च्चनाद्भक्तिभावतः॥ १३॥
कोटिजन्मकृतं पापं भस्मीभवति तत्क्षणात् ॥
कलामात्रेण तिष्ठामि तत्र क्षेत्रे विशेषतः ॥ १४॥
कला पञ्चदशैवात्र मूर्तिमध्ये ह्यवस्थितम् ॥ १५॥
जितकृतान्तभयाः शिवयोगिनः कृतमृगाजिनकृत्तिसुवाससः ॥
वरविभूतिजटान्वितभूषणाः स्वयमुपासत एव जटाधरम् ॥ १६॥
फलदलाम्बुसमीरणतोषिताः शिवमनोजितमृत्युपरिश्रमाः ॥
गिरिवरस्थितनिर्जितमानसाः प्रसरनिर्म्मलबुद्धिमहोदयाः ॥ १७ ॥
कमलकोमलकान्तिमुखाम्बुजाः शिवकृपाजितनिर्भरवैरिणः ॥
करधृताञ्जलिमौलिशिवेक्षणाः शिवमुपासत एव निशामुखे ॥ १८ ॥
करधृतजपमालाः शान्तिसन्तोषभाजः कृतनतिपरनित्यप्रार्थनाश्चन्द्रमौलौ ॥
हरचरणसरोजध्यानविज्ञानमूर्तिव्यथितजनमनोजाः सर्वभावान्नितान्तम् ॥ १९ ॥
वाराणस्यां मृतानां च तारकं ब्रह्मसञ्ज्ञकम् ॥
जनानां पूजनात्तत्र मम लिङ्गस्य जायते ॥ 2.3.2.२० ॥
वह्नितीर्थं परिभ्राजद्भगवच्चरणान्तिके ॥
केदाराख्यं महालिङ्गं दृष्ट्वा नो जन्मभाग्भवेत् ॥ २१ ॥
॥ स्कन्द उवाच ॥ ॥
कथं वैश्वानरः श्रीमान्सर्वलोकैककारणम् ॥
बदरीमनुसन्तस्थौ तन्मे वद महामते ॥ २२ ॥ ॥
॥ शिव उवाच ॥ ॥
पुरा समाजः समभूदृषीणामूर्ध्वरेतसाम् ॥
गङ्गा भगवती यत्र कालिन्द्या सह सङ्गता ॥२३॥
दशाश्वमेधिकं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥
बभूव तत्र भगवान्हुतभुक्प्रश्रयानतः ॥
ऋषीणामग्रतः स्थित्वा प्रष्टुं समुपचक्रमे ॥ २४ ॥
॥ वैश्वानर उवाच ॥ ॥
दृष्ट्वा इहैकदृग्ज्ञाना भवन्तो ब्रह्मवित्तमाः ॥
दीनार्थे करुणापूर्णा हृदयार्द्रा दयालवः ॥ २५ ॥
सर्वदुर्लक्षणोद्भूतपातकालिप्तचेतसः ॥
कथं स्यान्निरयान्मुक्तिर्मम ब्रह्मविदुत्तमाः ॥ २६ ॥
सर्वेषामृषिवर्य्याणामाजगाम मुनीश्वरः ॥
गङ्गाम्भसि समाप्लुत्य वाक्यं चेदमुवाच ह ॥ २७ ॥
॥ व्यास उवाच ॥ ॥
अस्त्येकः परमोपायो भवतः पापनिष्कृतौ ॥
सर्वभक्षाख्यदोषस्य बदरीं शरणं श्रय ॥ २८ ॥
यत्रास्ते भगवान्साक्षाद्देवदेवो जनार्द्दनः ॥
भक्तानामप्यभक्तानामघहा मधुसूदनः ॥ २९ ॥
तत्र गङ्गाम्भसि स्नात्वा कृत्वा प्रदक्षिणां हरेः ॥
दण्डवत्प्रणिपातेन सर्वपापक्षयो भवेत् ॥ 2.3.2.३० ॥
ततो व्यासमुखाच्छ्रुत्वा ऋषीणामनुवादतः ॥
उत्तराभिमुखो वह्निर्गन्धमादनमाययौ ॥ ३१ ॥
ततो बदरिकां प्राप्य स्नात्वा गङ्गाम्भसि स्वयम्॥
नारायणाश्रमं गत्वा नत्वा प्रोवाच भक्तिमान् ॥ ३२ ॥
॥ अग्निरुवाच ॥ ॥
विशुदविज्ञानघनं पुराणं सनातनं विश्वसृजां पतिं गुरुम् ॥
अनेकमेकं जगदेकनाथं नमाम्यनन्ताश्रितशुद्धबुद्धिम् ॥ ३३ ॥
मायामयीं शक्तिमुपेत्य विश्वकर्त्तारमुद्दिश्य रजोपयुक्तम् ॥
सत्त्वेन चास्य स्थितिहेतुमुग्रमथो तमोभिग्रसितारमीडे ॥३४॥
अविद्यया विश्वविमोहितात्मा विद्यैकरूपं विततं त्रिलोक्याम् ॥
विद्याश्रितत्वात्सकलज्ञमीशं त्वविद्यया जीवमहं प्रपद्ये ॥ ३५ ॥
भक्तेच्छयाविष्कृतदेहयोगमाभोगभोगार्पितयोगयोगम् ॥
कौशेयपीताम्बरजुष्टशक्तिं विचित्रशक्त्यष्टमयेष्टमीडे ॥ ३६ ॥
अथ प्रसन्नो भगवान्स्तुतः सर्वैर्हृदि स्थितः ॥
प्रोवाच मधुरं वाक्यं पावकं पावनार्थिनम् ॥ ३७ ॥
॥ श्रीनारायण उवाच ॥
वरं वरय भद्रं ते वरदोऽहमुपागतः ॥
स्तवेनानेन तुष्टोऽस्मि विनयेन तवानध ॥ ३८ ॥
॥ अग्निरुवाच ॥ ॥
ज्ञातं भगवता सर्वं यदर्थमहमागतः ॥
तथापि कथयाम्येतदीश्वराज्ञानुपालनम् ॥ ३९ ॥
सर्वभक्षो भवाम्येव निष्कृतिस्तु कथं भवेत् ॥
अत्यन्तभयसम्पत्तिरेतस्माज्जायते मम ॥ 2.3.2.४० ॥
॥ श्रीनारायण उवाच ॥ ॥
क्षेत्रदर्शनमात्रेण प्राणिनां नास्ति पातकम् ॥
मत्प्रसादात्पातकं तु त्वयि मास्तु कदाचन ॥ ४१ ॥
ततः प्रभृति भूतात्मा पावकः सर्वतो भृशम् ॥
कलयावस्थितश्चात्र सर्वदोषविवर्जितः ॥ ४२ ॥
य एतत्प्रातरुत्थाय शृणोति श्रावयेच्छुचिः ॥
अग्नितीर्थकृतस्नानं फलं प्राप्नोत्यसंशयम् ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीबदरिकाश्रममाहात्म्येऽग्निकृतभगवत्स्तुतिवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥