॥ शौनक उवाच ॥ ॥
सूतसूत महाभाग सर्वधर्मविदां वर ॥
सर्वशास्त्रार्थतत्त्वज्ञ पुराणे परिनिष्ठित ॥ १ ॥
व्यासः सत्यवतीपुत्रो भगवान्विष्णुरव्ययः ॥
तस्य यत्प्रियशिष्यस्त्वं त्वत्तो वेत्ता न कश्चन ॥ २ ॥
प्राप्ते कलियुगे घोरे सर्वधर्मबहिष्कृते ॥
जना वै दुष्टकर्माणः सर्वधर्मविवर्जिताः ॥३॥
क्षुद्रायुषः क्षुद्रप्राणबलवीर्यतपःक्रियाः ॥
अधर्मनिरताः सर्वे वेदशास्त्रविवर्जिताः ॥ ४ ॥
तीर्थाटनतपोदानहरिभक्तिविवर्जिताः ॥
कथमेषामल्पकानामुद्धारोऽल्पप्रयत्नतः ॥ ५ ॥
तीर्थानामुत्तमं तीर्थं क्षेत्राणामुत्तमं तथा ॥
मुमुक्षूणां कुतः सिद्धिः कुत्र वा ऋषिसञ्चयः ॥६ ॥
कुत्र वाल्पप्रयत्नेन तपो मन्त्राश्च सिद्धिदाः ॥
कुत्र वा वसति श्रीमाञ्जगतामीश्वरेश्वरः॥
भक्तानामनुरक्तानामनुग्रहकृपालयः॥ ७ ॥
एतदन्यच्च सर्वं मे परार्थैकप्रयोजनम् ॥
ब्रूहि भद्राय लोकानामनुग्रहविचक्षण ॥ ८ ॥
॥ सूत उवाच ॥ ॥
साधु साधु महाभाग भवान्परहिते रतः ॥
हरिभक्तिकृतासक्तिप्रक्षालितमनोमलः ॥ ९ ॥
अथ मे देवकीपुत्रो हृत्पद्ममधिरोहति ॥
प्रसङ्गात्तव विप्रर्षे दुर्ल्लभः साधुसङ्गमः ॥ 2.3.1.१० ॥
हरति दुष्कृतसञ्चयमुत्तमां गतिमलं तनुते तनुमानिनाम् ॥
अधिकपुण्यवशादवशात्मनां जगति दुर्लभः साधुसमागमः ॥ ११ ॥
हरति हृदयबन्धं कर्मपाशार्दितानां वितरति पदमुच्चैरल्पजल्पैकभाजाम ॥
जननमरणकर्मश्रान्तविश्रान्तिहेतुस्त्रिजगति मनुजानां दुर्ल्लभः सत्प्रसङ्गः ॥ १२ ॥
॥ सूत उवाच ॥ ॥
अयं प्रश्नः पुरा साधो स्कन्देनाकारि सर्वतः ॥
कैलासशिखरे रम्य ऋषीणां परिशृण्वताम् ॥
पुरतो गिरिजाभर्तुः कर्तुं निःश्रेयसं सताम्॥१३॥
॥ स्कन्द उवाच॥ ॥
भगवन्सर्वलोकानां कर्त्ता हर्त्ता पिता गुरुः ॥
क्षेमाय सर्वजन्तूनां तपसे कृतनिश्चयः ॥ १४ ॥
कलिकाले ह्यनुप्राप्ते वेदशास्त्रविवर्जिते ॥
कुत्र वा वसति श्रीमान्भगवान्सात्वतां पतिः ॥ १५ ॥
क्षेत्राणि कानि पुण्यानि तीर्थानि सरितस्तथा ॥
केन वा प्राप्यते साक्षाद्भगवान्मधुसूदनः ॥
श्रद्दधानाय भगवन्कृपया वद मे पितः ॥ १६ ॥
॥ श्रीमहादेव उवाच ॥ ॥
बहूनि सन्ति तीर्थानि क्षेत्राणि च षडानन ॥
हरिवासनिवासैकपराणि परमार्थिनाम् ॥ १७ ॥
काम्यानि कानिचित्सन्ति कानिचिन्मुक्तिदान्यपि ॥
इहामुत्रार्थदान्येव बहुपुण्यप्रदानि वै ॥ १६ ॥
गङ्गा गोदावरी रेवा तपती यमुना सरित् ॥
क्षिप्रा सरस्वती पुण्या गौतमी कौशिकी तथा ॥ १९ ॥
कावेरी ताम्रपर्णी च चन्द्रभागा महेन्द्रजा ॥
चित्रोत्पला वेत्रवती सरयूः पुण्यवाहिनी ॥ 2.3.1.२० ॥
चर्मण्वती शतद्रूश्च पयस्विन्यत्रिसम्भवा ॥
गण्डिका बाहुदा सर्वाः पुण्याः सिन्धुः सरस्वती ॥ २१ ॥
भुक्तिमुक्तिप्रदाश्चैताः सेव्यमाना मुहुर्मुहुः ॥
अयोध्या द्वारका काशी मधुरावन्तिका तथा ॥ ॥२२॥
कुरुक्षेत्रं रामतीर्थं काञ्ची च पुरुषोत्तमम् ॥
पुष्करं दर्दुरं क्षेत्रं वाराहं विधिनिर्मितम् ॥
बदर्य्याख्यं महापुण्यं क्षेत्रं सर्वार्थसाधनम् ॥ २३ ॥
अयोध्यां विधिवद्दृष्ट्वा पुरीं मुक्त्येकसाधनीम् ॥
सर्वपापविनिर्मुक्ताः प्रयान्ति हरिमन्दिरम् ॥ २४ ॥
विविधविष्णुनिषेवणपूर्वकाचरितपूजननर्तनकीर्तनाः ॥
गृहमपास्य हरेरनुचिन्तनाज्जितगृहार्जितमृत्युपराक्रमाः ॥ २५ ॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा रामालयं शुचिः ॥
न तस्य कृत्यं पश्यामि कृतकृत्यो भवेद्यतः ॥ २६ ॥
द्वारिकायां हरिः साक्षात्स्वालयं नैव मुञ्चति ॥
अद्यापि भवनं कैश्चित्पुण्यवद्भिः प्रदृश्यते ॥ २७ ॥
गोमत्यां तु नरः स्नात्वा दृष्ट्वा कृष्णमुखाम्बुजम् ॥
मुक्तिः प्रजायते शेषो विना साङ्ख्यं षडानन ॥ २८ ॥
असीवरुणयोर्मध्ये पञ्चक्रोश्यां महाफलम् ॥
अमरा मृत्युमिच्छन्ति का कथा इतरे जनाः ॥ २९ ॥
मणिकर्ण्यां ज्ञानवाप्यां विष्णुपादोदके तथा ॥
ह्रदे पञ्चनदे स्नात्वा न मातुः स्तनपो भवेत् ॥ 2.3.1.३० ॥
प्रसङ्गेनापि विश्वेशं दृष्ट्वा काश्यां षडानन ॥
मुक्तिः प्रजायते पुंसां जन्ममृत्युविवर्जिता ॥ ३१ ॥
बहुना किमिहोक्तेन नैतत्क्षेत्रसमं क्वचित् ॥
तपोपवासनिरतो मथुरायां षडानन ॥
जन्मस्थानं समासाद्य सर्वपापैः प्रमुच्यते ॥ ३२ ॥
विश्रान्तितीर्थे विधिवत्स्नात्वा कृत्वा तिलोदकम् ॥
पितॄनुद्धृत्य नरकाद्विष्णुलोकं प्रगच्छति ॥ ३३ ॥
यदि कुर्यात्प्रमादेन पातकं तत्र मानवः ॥
विश्रान्ते स्नानमासाद्य भस्मीभवति तत्क्षणात् ॥ ३४ ॥
अवन्त्यां विधिवत्स्नात्वा शिप्रायां माधवे नराः ॥
पिशाचत्वं न पश्यन्ति जन्मान्तरशतैरपि ॥ ३५ ॥
कोटितीर्थे नरः स्नात्वा भोजयित्वा द्विजोत्तमान्॥
महाकालं हरं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ ३६ ॥
मुक्तिक्षेत्रमिदं साक्षान्मम लोकैकसाधनम् ॥
दानाद्दरिद्रताहानिरिह लोके परत्र च ॥ ३७ ॥
कुरुक्षेत्रे रामतीर्थे स्वर्णं दत्त्वा स्वशक्तितः ॥
सूर्योपरागे विधिवत्स नरो मुक्तिभाग्भवेत् ॥ ३८ ॥
ये तत्र प्रतिगृह्णन्ति नरा लोभवशङ्गताः ॥
पुरुषत्वं न तेषां वै कल्पकोटिशतैरपि ॥ ३९ ॥
हरिक्षेत्रे हरिं दृष्ट्वा स्नात्वा पादोदके जनः ॥
सर्वपापविनिर्मुक्तो हरिणा सह मोदते ॥ 2.3.1.४० ॥
खगगणा विविधा निवसन्त्यहो ऋषिगणाः फलमूलदलाशनाः ॥
पवनसंयमनक्रमनिर्जितेन्द्रियपराक्रमणा मुनयस्त्विह ॥ ४१ ॥
विष्णुकाञ्च्यां हरिः साक्षाच्छिवकाञ्च्यां शिवः स्वयम् ॥
अभेदादुभयोर्भक्त्या मुक्तिः करतले स्थिता ॥
विभेदजननात्पुंसां जायते कुत्सिता गतिः ॥ ४२ ॥
सकृद्दृष्ट्वा जगन्नाथं मार्कण्डेयह्रदे प्लुतः ॥
विना ज्ञानेन योगेन न मातुः स्तनपो भवेत् ॥ ४३ ॥
रोहिण्यामुदधौ स्नात्वा इन्द्रद्युम्नह्रदे तथा ॥
भुक्त्वा निेवेदितं विष्णोर्वैकुण्ठे वसतिं लभेत्॥ ४४॥
दशयोजनविस्तीर्णं क्षेत्रं शङ्खोपरि स्थितम्॥
चतु्र्भुजत्वमायान्ति कीटा अपि न संशयः॥ ४५॥
कार्त्तिक्यां पुष्करे स्नात्वा श्राद्धं कृत्वा सदक्षिणम्॥
भोजयित्वा द्विजान्भक्त्या ब्रह्मलोके महीयते॥४६॥
सकृत्स्नात्वा ह्रदे तस्मिन्यूपं दृष्ट्वा समाहितः ॥
सर्वपापविनिर्मुक्तो जायते द्विजसत्तमः ॥ ४७ ॥
षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥
सौकरे विधिवत्स्नात्वा पूजयित्वा हरिं शुचिः ॥४८ ॥
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
तीर्थराजं महापुण्यं सर्वतीर्थनिषेवितम् ॥ ४९ ॥
कामिनां सर्वजन्तूनामीप्सितं कर्मभिर्भवेत् ॥
वेण्यां स्नात्वा शुचिर्भूत्वा कृत्वा माधवदर्शनम् ॥
भुक्त्वा पुण्यवतां भोगानन्ते माधवतां व्रजेत् ॥ ॥ 2.3.1.५० ॥
माघे मासि नरः स्नात्वा त्रिवेण्यां भक्तिभावितः ॥
बदरीकीर्तनात्पुण्यं तत्समाप्नोति मानवः ॥ ५१ ॥
दशाश्वमेधिकं तीर्थं दशयज्ञफलप्रदम् ॥
सङ्क्षेपात्कथितं पुत्र किं भूयः श्रोतुमिच्छसि ॥ ५२ ॥
॥ स्कन्द उवाच ॥ ॥
बदर्य्याख्यं हरेः क्षेत्रं त्रिषु लोकेषु दुर्लभम् ॥
क्षेत्रस्य स्मरणादेव महापातकिनो नराः ॥
विमुक्तकिल्विषाः सद्यो मरणान्मुक्तिभागिनः ॥ ५३ ॥
अन्यतीर्थे कृतं येन तपः परमदारुणम् ॥
तत्समा बदरीयात्रा मनसापि प्रजायते ॥ ५४ ॥
बहूनि सन्ति तीर्थानि दिवि भूमौ रसातले ॥
बदरीसदृशं तीर्थं न भूतं न भविष्यति ॥ ५५ ॥
अश्वमेध सहस्राणि वायुभोज्ये च यत्फलम् ॥
क्षेत्रान्तरे विशालायां तत्फलं क्षणमात्रतः ॥ ५६ ॥
कृते मुक्तिप्रदा प्रोक्ता त्रेतायां योगसिद्धिदा ॥
विशाला द्वापरे प्रोक्ता कलौ बदरिकाश्रमः ॥ ५७ ॥
स्थूलसूक्ष्मशरीरं तु जीवस्य वसतिस्थलम् ॥
तद्विनाशयति ज्ञानाद्विशाला तेन कथ्यते ॥ ५८ ॥
अमृतं स्रवते या हि बदरीतरुयोगतः ॥
बदरी कथ्यते प्राज्ञैर्ऋषीणां यत्र सञ्चयः ॥ ५९ ॥
त्यजेत्सर्वाणि तीर्थानि कालेकाले युगेयुगे ॥
बदरीं भगवान्विष्णुर्न मुञ्चति कदाचन ॥ 2.3.1.६० ॥
सर्वतीर्थावगाहेन तपोयोगसमाधितः ॥
तत्फलं प्राप्यते सम्यग्बदरीदर्शनाद्गुह ॥ ६१ ॥
षष्टिवर्षसहस्राणि योगाभ्यासेन यत्फलम् ॥
वाराणस्यां दिनैकेन तत्फलं बदरीं गतौ ॥ ६२ ॥
तीर्थानां वसतिर्यत्र देवानां वसतिस्तथा ॥
ऋषीणां वसतिर्यत्र विशाला तेनकथ्यते ॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमस्य सर्वतीर्थाधिकत्ववर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥