०४९

॥मुनय ऊचुः ॥ ॥
भगवञ्जैमिने सर्वं वेदवेदाङ्गपारग ॥
त्वदनुग्रहतोऽस्माभिर्माहात्म्यं जगदीशितुः ॥ १ ॥
क्षेत्रराजस्य तस्यैव यात्राणां चैव सर्वशः ॥
भगवद्भोजनोच्छिष्टप्राशनादिफलं तथा ॥ २ ॥
इन्द्रद्युम्नस्य राज्ञो वै वृत्तान्तमतिदुर्लभम् ॥
नीलमाधवरूपं तु दारुब्रह्मप्रकाशनम् ॥ ॥ ३ ॥
श्रुतं त्वद्वदनाम्भोजाद्गलितं तद्यथाविधि ॥
इदानीं श्रोतुमिच्छामस्त्वत्तो हि वदतां वर ॥ ४ ॥
सर्वं विस्तरतो ब्रह्मन्वयं सर्वे मुदान्विताः ॥
पुराणश्रवणस्यैव यदुक्तं फलमेव तत् ॥ ५ ॥
को वा तस्य विधिश्चैव केन वा स्यात्तु साङ्गकम्॥
अस्मासु चेदनुक्रोशो यथावद्वक्तुमर्हसि ॥ ६ ॥
॥ ॥ जैमिनिरुवाच ॥ ॥
साधु साधु मुनिश्रेष्ठा यत्पृष्टं परया मुदा ॥
तत्र मे प्रीतिरतुला जाता रोमाञ्चकारिणी ॥ ७ ॥
तद्वः सर्वं प्रवक्ष्यामि शृणुध्वं सावधानतः ॥
पुराणश्रवणारम्भे यथाविभवमात्मनः ॥ ८ ॥
आदौ सङ्कल्प्य विधिवद्ब्राह्मणं शुद्धवंशजम् ॥
अव्यङ्गावयवं शान्तं स्वशाखं स्वपुरोधसम् ॥ ९ ॥
सर्वशास्त्रार्थतत्त्वज्ञं भूषणैरतिशोभनैः ॥
वस्त्रचन्दनमाल्याद्यैर्वृणुयात्पाठसंश्रुतौ ॥ 2.2.49.१० ॥
कृताञ्जलिपुटो भूत्वा ततः सम्प्रार्थयेद्द्विजम् ॥
त्वं विष्णुर्विष्णुरेव त्वं न तु भेदः कदाचन ॥ ११ ॥
निर्विघ्नं मे भवत्वेव त्वत्प्रसादात्प्रसीद च ॥
ततो वृतं ब्राह्मणं च बहुमूल्यासने शुभे ॥ ॥ १२ ॥
वासयित्वा च तस्यैव गले मालां विनिक्षिपेत् ॥
मस्तके पुष्पगर्भं च चन्दनैरनुलेपयेत् ॥ १३ ॥
यस्मात्तस्मिंश्च समये विप्रो व्याससमो मतः ॥
तेनैव ब्राह्मणेनैव पुस्तके विष्णुरूपके ॥ १४ ॥
कारयेद्व्यासपूजां च श्रीखण्डागुरुपुष्पकैः ॥
नानोपचारै रुचिरैर्भक्ष्यभोज्यादिकैरपि ॥ १५ ॥
भक्त्या चासनदानादिविधिः कार्यो दिने दिने ॥
साम्प्रतं कथयाम्येवं श्रूयतां श्रोतृलक्षणम् ॥ १६ ॥
गतानुगतिकानां च निवासार्थं तथा द्विजाः ॥
आसनानि यथायोग्यं रचयित्वा स्वयं तथा ॥ १७ ॥
शुभासनान्तरस्थो हि भवेदुत्कण्ठमानसः ॥
अथवा संस्कृते देशे सर्वैः सह वसेद्भुवि ॥ १८ ॥
व्यासस्याग्रे निवसतिरासने नोच्च एव च ॥
कृतस्नानो मुदा युक्तो धारयञ्ञ्छुक्लवाससी ॥ १९ ॥
आचान्तः शङ्खचक्रादितिलकान्वितविग्रहः ॥
मनसा भावयेद्विष्णुं विश्वासं कारयेद्भृशम् ॥ 2.2.49.२० ॥
पुराणे ब्राह्मणे चैव देवे च मन्त्रकर्मणि ॥
तीर्थे वृद्धस्य वचने विश्वासः फलदायकः ॥ २१ ॥
अतो मुनिवराः सर्वं पुण्यं विश्वासकारणम् ॥
पाषण्डादिकसम्भाषं वृथालापं प्रयत्नतः ॥ २२ ॥
पुराणश्रवणे काले सर्वचिन्तां च वर्जयेत् ॥
अनेन विधिना विप्राः प्रत्यहं शृणुयान्मुदा ॥ २३ ॥
ततः पाठे समाप्ते च करतालादिकैर्मुहुः ॥
जय कृष्ण जगन्नाथ हर इत्यादिनामभिः ॥ २४ ॥
विस्तारयेद्यथाकाशे श्रूयते शब्द एव सः ॥
एवं च प्रत्यहं कुर्यात्प्रीतये मुरवैरिणः ॥ २५ ॥
ततो ग्रन्थसमाप्तौ च विष्णुप्रीणनतत्परः ॥
विशेषाद्वस्त्रमाल्यादिचन्दनैर्भूषणैस्तथा ॥
भूषयेत्परया भक्त्या विप्रं व्याससमं द्विजाः ॥ २६ ॥
आत्मशक्त्या प्रदद्याच्च दक्षिणां वै यथाविधि ॥
ये ये प्रदद्युर्यद्यच्च मत्तस्तच्छृणुताधुना ॥ २७ ॥
राजानः करिणो दद्युः सालङ्कारान्सुलक्षणान् ॥
क्षत्रिया एवमेवं च ते वै राजसमा मताः ॥ २८ ॥
ब्राह्मणाः पुस्तकांश्चैव विष्णोरर्चाकरण्डिकाः ॥
कनकं रजतं चैव धान्यं वस्त्रं स्वभक्तितः ॥ २९ ॥
विशश्च रत्नभूषाढ्यान्सिन्धुदेशोद्भवानपि ॥
गाश्च लक्षणसंयुक्ताः सवत्साश्च पयस्विनीः ॥ 2.2.49.३० ॥
अन्यच्च कनकाद्यं च त्यजेयुर्धर्मतत्पराः ॥
शूद्राः प्रदद्युः परया मुदा संयुक्तमानसाः ॥ ३१ ॥
वासांसि च सुवर्णं च धान्यं रत्नानि गास्तथा ॥
नानालङ्कारयुक्ताश्च घटोघ्नीर्बालगर्भिणीः ॥ ३२ ॥
एवं वै दक्षिणां दद्याद्येन सन्तुष्यते गुरुः ॥
आत्मनः शक्तितो विप्रा वित्तशाठ्यं न कारयेत् ॥ ३३ ॥
शान्तिकं पौष्टिकं चैव व्रतोद्वाहादि कर्म च ॥
मोक्षस्य साधकं कर्म पुराणश्रवणं तथा ॥ ३४ ॥
यज्ञादिकं च दानं च व्रतं नानाविधं तथा ॥
यदि चेद्दक्षिणाहीनं तदा भवति निष्फलम्॥३५॥
असुराः कर्मणस्तस्य हरन्ति फलमेव तत् ॥
यथा स्त्रीणां च लावण्यं भर्तृस्नेहविवर्जितम् ॥ ३६ ॥
युद्धात्पलायितानां च पृष्ठं कृत्वा धनुष्मताम् ॥
विना धावनमश्वानां दुष्टत्वं हि यथा द्विजाः ॥ ३७ ॥
मूकत्वेनेव पाण्डित्यं सर्वशास्त्रविपश्चिताम् ॥
हीनं दक्षिणया यद्यत्कर्म तद्वच्च निष्फलम् ॥३८॥
दानेन क्षीयते यस्मादुरितानां कदम्बकम् ॥
दक्षिणेति तथा विप्रा गीयते शास्त्रवेदिभिः ॥ ३९ ॥
ततो विप्रान्भोजयेद्वै यथाशक्तिप्रकल्पितैः ॥
कर्पूरेण च खण्डेन सर्पिषा पायसैर्युतैः ॥2.2.49.४० ॥
षड्विधैरन्नपानाद्यैः सुस्वादैरमृतोपमैः ॥
तेभ्योपि स्वर्णवस्त्रादि यथाशक्त्या प्रदापयेत्॥ ४१ ॥
एतद्वः कथितं सर्वं पुराणश्रवणस्य च ॥
साङ्गोपाङ्गविधानं च येन स्यात्सफलं त्विदम् ॥
इदानीं भो मुनिश्रेष्ठाः किमन्यज्ज्ञातुमिच्छथ ॥४२॥
॥ मुनय ऊचुः ॥ ॥
अहोऽस्माकं महाभाग्यं यत्पापौघविनाशनम् ॥
पुराणश्रवणस्यैव फलमस्माभिरेव च ॥ ४३ ॥
साङ्गोपाङ्गविधानं च श्रुतं त्वन्मुखपङ्कजात् ॥
धन्याः स्म कृतपुण्याः स्म संसारे विगतज्वराः ॥ ४४ ॥
इदानीमात्मशक्त्या वै दीयते भवते मुने ॥
दक्षिणा फलसम्प्राप्त्यै प्रसन्नस्त्वं गृहाण च ॥ ४५ ॥
इत्युक्तवन्तो मुनयो ह्यकिञ्चनाः समित्कुशं पुष्पफलाक्षतादिकम् ॥
क्लृप्त्वा च तस्मै मुनयः सुमुक्ताः क्षेत्रोत्तमं जग्मुरतिप्रहर्षिताः ॥ ४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्र माहात्म्ये जैमिनिऋषिसंवाद एकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ ॥ ॥ ॥ ॥
इति वैष्णवखण्डे द्वितीयं श्रीपुरुषोत्तम (जगन्नाथ) क्षेत्रमाहात्म्यं समाप्तम् ॥ (२-२) ॥