०४८

॥ मुनय ऊचुः ॥ ॥
प्रासादस्य प्रतिष्ठान्त इन्द्रद्युम्नाय यद्वरान् ॥
आज्ञापयामास हरिर्यात्रास्ता द्वादशापि च ॥ १ ॥
त्वत्सकाशाच्छुतं सर्वं ततः स पृथिवीपतिः ॥
किं चकार महाबुद्धिर्विष्णुभक्तोऽप्यवस्थितः ॥ ॥ २ ॥
॥ जैमिनिरुवाच ॥ ॥
वराल्ँलब्ध्वा जगन्नाथात्साक्षाद्ब्रह्मस्वरूपिणः ॥
कृतकृत्यं स मेने वा आत्मानं नरपुङ्गवः ॥ ३ ॥
यथाज्ञं कारयित्वा वै यात्रास्ताः पुण्यमोक्षदाः ॥
बहूपचारैर्बहुधा समभ्यर्च्य जगद्गुरुम् ॥ ४ ॥
गालराजं समादिश्य देवस्याज्ञां यथाविधि ॥
इदं प्रोवाच मधुरं धर्मन्यायसमायुतम् ॥ ५ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
राजन्बहुश्रुतोऽसि त्वं धर्मनिष्ठामुपागतः ॥
भगवत्यपि भक्तिस्ते कर्मणा मनसा गिरा ॥ ॥ ६ ॥
न ह्येकस्योपदशाय भगवाननुशास्ति वै ॥
चराचरगुरुर्ह्येष विश्वं तच्छिष्यतां गतम् ॥ ७ ॥
ममानुग्रहलक्ष्येण अवतीर्णो जगत्पतिः ॥
उद्धृत्यै दीनमनसामत्रापि स्थास्यते चिरात् ॥ ८ ॥
भक्त्या च श्रद्धया युक्त एतदाज्ञां प्रवर्त्तय ॥
प्रतिमाव्यवहारेण नैनं जानीहि भूमिप ॥ ९ ॥
प्रत्यक्षं ते यथा जातं त्रैलोक्यं भूमिमागतम् ॥
प्रासादान्तः प्रवेशे हि यस्यास्य जगदीशितुः ॥ 2.2.48.१० ॥
पितामहाद्यास्त्रिदशाः सर्वे युगपदागताः ॥
विश्वमूर्त्या वयं सर्वे जाता वै नष्टचेतनाः ॥ ११ ॥
चराचरमयो ह्येष साक्षाद्दारुस्वरूपधृक् ॥
कल्पवृक्षमिमं विद्धि भूगतं सर्वकामदम् ॥ १२ ॥
उपास्यैनं हि लभते यो यथा कामनाफलम् ॥
यतन्तो बहुधा यं हि यतयो न विदन्ति वै ॥
तमःपारे प्रतिष्ठतं किंस्विज्ज्योतिः स्वरूपिणम् ॥ १३ ॥
यतीनां धर्मनिष्ठानां शुद्धानामूर्ध्वरेतसाम् ॥
अनन्यभक्तियुक्तानामेकः पन्थास्तु योगिनाम् ॥ १४ ॥
ग्रीष्मे शीत गभीरे वै निमज्ज्य सलिलाशये ॥
परां निर्वृतिमाप्नोति तथास्मिन्करुणाम्बुधौ ॥ १५ ॥
त्रितापदुःखं त्यजति सम्प्राप्ते पुरुषोत्तमे ॥ १६ ॥
न माता न पिता मित्रं न पत्नी न सुतस्तथा ॥
शरणागतदीनानां यथायमुपकारकः ॥ १७ ॥
तदेनं परिसेवस्व भुक्तिमुक्तिफलप्रदम् ॥
पौरैः प्रजाभिर्यात्रास्ताः समृद्धं परिवर्त्तय ॥ १८ ॥
साधारणो धर्मपन्था नृपाणां नृपसत्तम ॥
प्रवर्तितश्च पूर्वेण पाल्यतेऽनन्तरेण सः ॥ १९ ॥
नृसिंहं भज राजेन्द्र उपचारैर्महर्द्धिभिः ॥
पूजयस्व त्रिसन्ध्यं तं परं निर्वाणमाप्नुहि ॥ 2.2.48.२० ॥
स्वकृतादुत्तमं प्राहुः परकृत्योपरक्षणम्॥
पालयेत्परदत्तं यः स्वदत्तादुत्तमं हि तत् ॥ २१ ॥
॥ जैमिनिरुवाच ॥ ॥
कृताञ्जलिपुटः सोऽथ श्वेतो नृपतिसत्तमः ॥
मूर्ध्नि जग्राह तद्वाक्यं मालामिव गुणान्विताम् ॥ २२ ॥
इन्द्रद्युम्नोऽपि राजर्षिः प्रसाद्य पुरुषोत्तमम् ॥
सह श्रीमान्ब्रह्मलोकं जगाम ह ॥ ॥ २३ ॥
एतद्वः कथितं पुण्यं क्षेत्रमाहात्म्यमुत्तमम् ॥
तत्र नित्योषितस्यापि माहात्म्यं ब्रह्मदारुणः ॥ २४ ॥
यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः ॥
अश्वमेधसहस्रस्य फलं सोऽविकलं लभेत् ॥ २५ ॥
अर्द्धोदयस्तु यो योगः स्कन्देन परिकीर्तितः ॥
तत्कोटिगुणितं पुण्यं विष्णोर्माहात्म्यकीर्तनात् ॥ २६ ॥
प्रातः प्रातर्यः शृणुयात्कपिलाशतदो भवेत् ॥
गाङ्गैः पुष्करजैस्तोयैरभिषेकफलं लभेत् ॥ २७ ॥
धन्यं यशस्यमायुष्यं पुण्यं सन्तानवर्द्धनम्॥
स्वर्गप्रतिष्ठागतिदं सर्वपापापनोदनम् ॥ २८ ॥
एतद्रहस्यमाख्यातं पुराणेषु सुगोपितम् ॥
वैष्णवेभ्यो विनाऽन्येषु न तु वाच्यं कदाचन ॥२९॥
कुतर्कोपहता ये च दुरधीतश्रुतागमाः ॥
नास्तिका दाम्भिका नित्यं परदोषोपदर्शिनः ॥
अवैष्णवा मोघजीवास्तेभ्यो गोप्यं सदैव हि ॥ 2.2.48.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्येऽष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥